Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 51
________________ काण्डम्.] · शक्तिवादः। (४३) मानेऽवच्छेदकत्वेऽवच्छेदकतया भासमानत्वं समवायस्य. इति त्रितयमेव घटपदजन्यबोधविषयतायामुपयुज्यते इति त्रयाणां वाच्यतोपपत्तिः । दकत्वं समवायेस्तीति घटघटत्वसमवायेतित्रितयमेव घटपदजन्यबोधविषयतायामुपयुज्यते अन्वेतीति त्रयाणामेव वाच्यतोपपत्तिः, त्रिध्वेव शक्तिरित्यर्थः । " ज्ञातमुपयुज्यते" इति पाठे तु त्रितयमेव घटपदजन्यबोधविषयताविषयकज्ञानविषयो भवतीति त्रयाणां वाच्च. तोपपत्तिरित्यर्थः। अत्र च- अनवस्छिन्नधर्मिताकज्ञानस्य स्त्रविरोधिज्ञानप्रतिबन्धकत्वं न भवति अत्र तु 'घटत्वं चटपदजन्यबोधविषयतावच्छेदकम् । इतिज्ञानस्य 'घटत्वं घटपदजन्यत्रोधविषयतावच्छेदक न' इत्याकारकज्ञान प्रति प्रतिबन्धकत्वमिष्टमस्ति तदर्थं घटत्वस्य घटत्वत्वेन रूपेणोपस्थितिः स्वीकार्य तथा च घटत्वनिष्ठधर्मिताया घटत्यत्वेनावच्छिन्नत्वसंभवेयुक्तप्रतिबध्यप्रतिबन्धकभाव उपपद्येत घटत्यस्य चात्र स्वरूपेणैवोपस्थितिर्भवति न तु घटत्वत्वेन रूपेण गौरवादिति घटत्ये विशेष्यता न स्वीकार्या किं तु प्रकारतैव अनवच्छिन्नप्रकारताकज्ञानस्य तु स्वविरोधिज्ञानप्रतिबन्धकत्वं संभवतीत्युक्तप्रतिबध्यप्रतिबन्धकमावोपपत्त्यर्थ पक्षान्तरेण घटत्वे प्रकारत्वमुक्तम्, अस्मिन् पक्षे 'घटपदजन्यबोधविषयता घटत्वावच्छिन्ना भवतु ' इत्येवं भगवदिच्छाया आकारः, तथा च स्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्वसंसर्गावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितबोधविषयतात्वावच्छिन्ना विशेष्यता तत्पदजन्यबोधविषयतायां विज्ञेया स्वं घटत्वम् । एवं समवायस्यापि समवा. यत्वेनोपस्थितिस्वीकारे गौरवाद् अनवच्छिन्नधर्मिताकज्ञानस्य च स्वविरोधिज्ञानप्रतिबन्धकत्वासंभवाब 'समवायो घटपदजन्यबोधविषयतावच्छेदकतावच्छेदको भवतु' इति ज्ञानस्य 'समवायो घटपदजन्यबोधविषयतावच्छेदकतावच्छेदको न' इत्याकारकज्ञानप्रतिबन्धकत्वं न स्यादिति समवायेपि प्रकारतैव स्वीकार्या न तूक्तरीत्या विशेष्यता अस्मिन् पक्ष ' घटत्वनिष्ठा बोधविश्यता समवायसंबन्धावच्छिन्ना भवतु । इति भगवदिच्छाया आकारः, तथा च स्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपितावच्छेद्यत्वसंबन्धावच्छिन्ना समवायनिष्ठप्रकारतानिरूपितबोधविषयतात्वावच्छिन्ना विशेष्यता तत्पदजन्यबोधविषयतायां विज्ञेया. अत्र स्त्रं घटत्वं घटत्वनिष्ठावच्छेदकतावच्छेदकत्वं समवाये समवायनिष्ठावच्छेदकतानिरूपितावच्छेद्यता बोधविषयतायां समवायनिष्ठप्रकारतानिरूपितविशेष्यतापि बोधविषयतायां प्राप्ता तथा चानवच्छिन्नप्रकारताकज्ञानस्य तु स्वविरोधिज्ञान प्रतिबन्धकत्वसंभवादुक्तप्रतिबध्यप्रतिबन्धकभाव उपपद्यते इत्यवधेयम् । ननु संकेतविषयता भगवदिच्छीयविशेष्यतोक्तरीत्या घटे आश्रयत्वसंबन्धेन. घटत्वे स्वनिष्ठा. वच्छेद्यतानिरूपितावच्छेदकत्वसंबन्धेन समवाये च स्वनिष्ठावच्छेद्यतानिरूपितावच्छेदकतावच्छेदकत्वसंबन्धेन वर्तत इति घटघटत्वसंसर्गेषु घटघटत्वसमवायेषु वर्तमानानां तादृशसंकेतविषयतानां संबन्धभेदेन भेदात् तत्पदजन्यबोधविषयताप्रयोजकसंबन्धस्यापि चोक्तरीत्या भेदाद् घटघटत्वसमवा.

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216