Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 114
________________ सादर्शः [ विशेषकाण्डेत्वानन्तर्भावेन सामान्यतस्तद्विषयकस्मृतौ तद्विषयकत्वेनैव संस्कारानुभक्योहेतुतापतेः । रामरावणादिपदेभ्यश्च लक्षणया तत्तत्पदार्थत्वादिप्रकारक एवान्वयबोधः । वस्तुतस्तु- अनुगतोद्बोधकस्थले स्वरूपतस्तत्प्रकारकशक्तिज्ञानासत्त्वपि स्वरूपतस्तत्मकारकस्मरणापस्या तत्र ताशज्ञानस्य हेतुत्वमावश्यकमित्यलमतिपल्लवितेन । अथ सामान्यतो वक्तृबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्य सर्वनामशक्यत्वे 'शक्तिभ्रमं विना कालान्तरीणपुरुषान्तरीणबुद्धिविषयतावच्छेदकधर्मावच्छिन्नशयोः परित्यागेन सामान्यतस्तद्विषयकस्मृति प्रति तद्विपयकत्वेन-सामान्यतस्तद्विषयकसंस्कारानुभवयोहेतुत्वं स्यात् तथा च 'घटघटत्वे' इत्याकाराभ्यामपि प्रकारत्वविशेष्यत्वांशाऽनवगाहिंभ्यामनुभवसंस्काराभ्यां घटत्वप्रकारकवट विशेष्यकस्मरण स्पादेव न चैवं संभवतीति तत्प्रकारकतद्विशेष्यकस्मरणं प्रति विशेषरूपेण तत्प्रकारकतद्विशेष्यकानुभवसंस्कारयोः कारणत्वमवश्यं स्वीकार्य तथा च "घटघटत्वे' इत्याकारकसामान्यांनुभवसंस्काराभ्यां बटत्वप्रकारकघटविशेष्यकस्मरणस्यापत्तिर्नास्ति, तथा च यादृशधर्मप्रकारकावनुभवसंस्कारौ भवतस्तादृशधर्मप्रकारकमेव स्मरणं जायते इतिसिद्धम् । तदादिपदस्थळे यथा स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधौ भवतस्तत्पूर्वमेव प्रतिपादितम् । बुद्धिविषयतावच्छेदकत्वस्योपलक्षणत्वाच्छाब्दबोधे भानं न भवतीति न तदंशप्रमोषादिकल्पनाऽपेक्षेतिसारः । रामादिपदशाब्दबोध स्वमतेनाह- रामेति, रामादिपदानां रामादिव्यक्तौ शक्तिग्रहाभावेन शक्त्या शाब्दबोधासंभवेपि रामादिपदेभ्यो लक्षणया तत्तत्पदार्थत्वादिप्रकारक: रामपदवाच्यत्वादिप्रकारकः किं वा स्वरूपतो रामत्यादिप्रकारकः शाब्दबोधो जायते इत्यर्थः । स्मृतेविलक्षणप्रकारतायामुद्रोधकविशेषस्य प्रयोजकत्वानङ्गीकारे युक्त्यन्तरमाह-वस्तुतस्त्विति, अनुगतोद्बोधकस्थले इति- याद्बोधकविशेषवैचित्र्यमेव स्मृतिविशेष प्रति प्रयोजकं स्यात्तदा हस्तिपको यथा स्वरूपतो हस्तित्वप्रकारकसंस्कारस्योद्बोधकोस्ति तथा जातित्वोपलक्षितहस्तित्वप्रकारकस्यापि 'जातिमान् हस्तिपकसंबन्धी' इत्यनुभवेन जातस्य संस्कारस्योद्बोधकोस्तीत्युभयविधसंस्कारोबोधकत्वाद्धस्तिपकोऽनुगत उद्बोधकोस्ति तादृशानुगतोद्वोधकस्थले खरूपतस्तद्धर्मप्रकारकशक्तिज्ञानासत्त्वेपि स्वरूपतस्तत्प्रकारकस्मरणं स्यादेव- धर्मान्तरावच्छिन्नधर्मप्रकारकसंस्कारोबोधकस्यैव स्वरूपतस्तद्धर्मप्रकारकसंस्कारोद्बोधकत्वात्, न चैवं स्वरूपतस्तपकारकशक्तिज्ञानासत्त्वे स्वरूपततत्प्रकारकस्मरणं जायते इति तत्र स्वरूपतस्तत्प्रकारकस्मरणे तादृशज्ञानस्य-स्वरूपतस्तत्प्रकारकशक्तिज्ञानस्य स्वरूपतस्तत्प्रकारकानुभवसंस्कारयोर्हेतुत्वमावश्य. कमेचेति स्मृतेविलक्षणप्रकारतायामुद्बोधकविशेषस्य प्रयोजकत्वं नाश्रयणीय मित्यर्थः । पल्लवितेन= विस्तरेण । शकते-- अथेति, यदि सामान्यतो वक्तबुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः स्यात्तदैतत्त. दादिपदात् कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्यापि घटादेबोधः स्यादेव

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216