Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 177
________________ स्वपदम् . ] शक्तिवादः। (१६९) भावस्य विशेष्ये बाधात् । सममिव्याहतपदार्षनिष्ठत व्यक्तित्वावच्छिन्नस्य चदर्थत्वेपि वहिकालीनद्रव्यवति हृदादौ स्वव्यापकवहिकालीनद्रव्यं मास्तितिप्रयोगानुपपत्तिः । तत्र द्रव्यपदस्यापि लक्षणया तत्तद्व्यक्तित्वावच्छिन्नपरत्वे महानसादावपि तथा प्रयोगापत्तिः- तथाविधयताकिंचिद्व्यक्तत्पभावस्य तत्रा. बाधात् । वादृशसमभिव्याहृतस्थले यद्यव्यक्तिव्यापकतावदेस्तत्तव्यक्तित्वावच्छिन्नाभावकूट एव नियमतः प्रतीयते इतिचेत ? न- तथाविधसकलव्यक्तिनिष्ठतत्तव्यक्ति'ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्भावस्य बाधेपि तद्व्यक्तित्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वाभावस्य नाम तद्ब्राह्मगव्यक्तिपुत्र । स्वपुत्र कर्मकदर्शनाश्रयत्वाभावस्य तु बाधो नास्तीति ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायामपि ' ब्राह्मणः स्वपुत्रं न पश्यति । इतिप्रयोगानुपपत्तिनास्ती. याशङ्कयाह-समभिव्याहतेति । तदर्थ त्वे-स्वपदार्थत्वे । अस्मिन् पंक्षेपि दोषमुद्घाटयति-बहिकालीनेति, एवं हि वह्निसमानकालिकं यन्मीनशैवालादिद्रव्यं तादृशद्रव्यवति हृदादी नाम तादृशहदादिकमुदिश्य 'स्वव्यापकवहिकालिकद्रव्यं नास्ति' इतीष्टोपि प्रयोगो नोपपद्येत यतोऽत्रोक्तरीत्या द्रव्यपदसमभिव्याहारात् स्वपदेन यकिंचिद्र्व्यव्यक्तिरेव गृह्यतेति स्वपदेनात्र धूमव्यक्तेरपि ग्रहणसंभवात् तादृशधूमव्यापको यो वहिस्तत्समानकालिकद्रव्यस्य मीनशैवालादेदे सत्त्वात् 'दे स्वन्यापकवतिकालिकद्रव्यं नास्ति' इतिप्रयोगानुपपत्तिरित्यर्थः । स्वपदस्थात्र द्रव्यत्वावछिन्नपरत्वे तु वहाँ द्रव्यत्वावच्छिन्नव्यापकत्वमेव नास्तीति द्रव्यत्वावच्छिन्नव्यापकवतिकालिकद्रव्यस्य हृदादावऽसत्त्वादेवोक्तप्रयोगानुपपत्तिर्नास्तीत्ययं दोषः स्वपदस्थ तव्यक्तित्वावच्छिन्नपरत्वे प्रदर्शित इत्यनुसन्धेयम् । ननूक्तस्थले द्रव्यपदमपि लक्षणया तद्व्यक्तित्वावच्छिन्नपरमेव तथा च यत्किंचिद्व्यव्यक्तिधूमादिव्यापकीभूतवह्निसमानकालिकस्य यत्किंचिद्घटादिद्रव्यव्यक्तेरभावस्य हृदादौ बाधाभावाद् वहिकालिकद्रव्यवत्यपि ह्रदादौ 'स्वव्यापकवह्निकालिकद्रव्यं नास्ति' इतिप्रयोगानुपरत्तिर्नास्तीत्याशझ्याह- तत्रेति । अत्रापि दोषमुद्घाटयति- महानसैति, एवं हि तथाविधस्य-तद्वयक्तित्वावच्छिन्नप्रतियोगिताकस्य यत्किंचिद्वयक्त्यभावस्य स्वव्यापकवह्निकालिककिंचिद्व्यव्यक्त्यभावस्य तत्र-महानसादावऽबाधात् महानसादावपि तथा='स्वव्यापकवह्निकालिकद्रव्यं नास्ति' इति प्रयोगस्यापत्तिः स्यादेव न चैतदिष्टमित्यर्थः । ननु यद्यद्वयक्तिनिरूपितव्यापकता वह्नौ वर्तते तत्तद्वयक्तित्वावच्छिन्न प्रतियोगिताकाभावानां समुदाय एव तादृशसमभिव्याहृतस्थले- 'स्वव्यापकवाहिकालिकद्रव्यं नास्ति' इत्यादिस्थले नियमतः प्रतीयते महानसे च तादृशाभावसमुदायस्थ बाध एव- स्वव्यापकवहिकालिककिंचिद्भूमादिद्रव्यव्यक्तः सत्त्वादेवेत्याशङ्कते- तादृशेति । परिहरति-- नेति । तथेति--विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादुक्तवहिव्याप्यतयक्तित्वावच्छिन्नाभावकूटज्ञानार्थं तथाविधसकलव्यक्तिनिष्ठा. नाम्-उक्तवहिव्याप्यसकलव्यक्तिनिष्ठानां सर्वेषां तद्वयक्तित्वानां ज्ञानापेक्षा प्राप्ता न च सर्वेषां

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216