________________
स्वपदम् . ] शक्तिवादः।
(१६९) भावस्य विशेष्ये बाधात् । सममिव्याहतपदार्षनिष्ठत व्यक्तित्वावच्छिन्नस्य चदर्थत्वेपि वहिकालीनद्रव्यवति हृदादौ स्वव्यापकवहिकालीनद्रव्यं मास्तितिप्रयोगानुपपत्तिः । तत्र द्रव्यपदस्यापि लक्षणया तत्तद्व्यक्तित्वावच्छिन्नपरत्वे महानसादावपि तथा प्रयोगापत्तिः- तथाविधयताकिंचिद्व्यक्तत्पभावस्य तत्रा. बाधात् ।
वादृशसमभिव्याहृतस्थले यद्यव्यक्तिव्यापकतावदेस्तत्तव्यक्तित्वावच्छिन्नाभावकूट एव नियमतः प्रतीयते इतिचेत ? न- तथाविधसकलव्यक्तिनिष्ठतत्तव्यक्ति'ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्भावस्य बाधेपि तद्व्यक्तित्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वाभावस्य नाम तद्ब्राह्मगव्यक्तिपुत्र । स्वपुत्र कर्मकदर्शनाश्रयत्वाभावस्य तु बाधो नास्तीति ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायामपि ' ब्राह्मणः स्वपुत्रं न पश्यति । इतिप्रयोगानुपपत्तिनास्ती. याशङ्कयाह-समभिव्याहतेति । तदर्थ त्वे-स्वपदार्थत्वे । अस्मिन् पंक्षेपि दोषमुद्घाटयति-बहिकालीनेति, एवं हि वह्निसमानकालिकं यन्मीनशैवालादिद्रव्यं तादृशद्रव्यवति हृदादी नाम तादृशहदादिकमुदिश्य 'स्वव्यापकवहिकालिकद्रव्यं नास्ति' इतीष्टोपि प्रयोगो नोपपद्येत यतोऽत्रोक्तरीत्या द्रव्यपदसमभिव्याहारात् स्वपदेन यकिंचिद्र्व्यव्यक्तिरेव गृह्यतेति स्वपदेनात्र धूमव्यक्तेरपि ग्रहणसंभवात् तादृशधूमव्यापको यो वहिस्तत्समानकालिकद्रव्यस्य मीनशैवालादेदे सत्त्वात् 'दे स्वन्यापकवतिकालिकद्रव्यं नास्ति' इतिप्रयोगानुपपत्तिरित्यर्थः । स्वपदस्थात्र द्रव्यत्वावछिन्नपरत्वे तु वहाँ द्रव्यत्वावच्छिन्नव्यापकत्वमेव नास्तीति द्रव्यत्वावच्छिन्नव्यापकवतिकालिकद्रव्यस्य हृदादावऽसत्त्वादेवोक्तप्रयोगानुपपत्तिर्नास्तीत्ययं दोषः स्वपदस्थ तव्यक्तित्वावच्छिन्नपरत्वे प्रदर्शित इत्यनुसन्धेयम् । ननूक्तस्थले द्रव्यपदमपि लक्षणया तद्व्यक्तित्वावच्छिन्नपरमेव तथा च यत्किंचिद्व्यव्यक्तिधूमादिव्यापकीभूतवह्निसमानकालिकस्य यत्किंचिद्घटादिद्रव्यव्यक्तेरभावस्य हृदादौ बाधाभावाद् वहिकालिकद्रव्यवत्यपि ह्रदादौ 'स्वव्यापकवह्निकालिकद्रव्यं नास्ति' इतिप्रयोगानुपरत्तिर्नास्तीत्याशझ्याह- तत्रेति । अत्रापि दोषमुद्घाटयति- महानसैति, एवं हि तथाविधस्य-तद्वयक्तित्वावच्छिन्नप्रतियोगिताकस्य यत्किंचिद्वयक्त्यभावस्य स्वव्यापकवह्निकालिककिंचिद्व्यव्यक्त्यभावस्य तत्र-महानसादावऽबाधात् महानसादावपि तथा='स्वव्यापकवह्निकालिकद्रव्यं नास्ति' इति प्रयोगस्यापत्तिः स्यादेव न चैतदिष्टमित्यर्थः ।
ननु यद्यद्वयक्तिनिरूपितव्यापकता वह्नौ वर्तते तत्तद्वयक्तित्वावच्छिन्न प्रतियोगिताकाभावानां समुदाय एव तादृशसमभिव्याहृतस्थले- 'स्वव्यापकवाहिकालिकद्रव्यं नास्ति' इत्यादिस्थले नियमतः प्रतीयते महानसे च तादृशाभावसमुदायस्थ बाध एव- स्वव्यापकवहिकालिककिंचिद्भूमादिद्रव्यव्यक्तः सत्त्वादेवेत्याशङ्कते- तादृशेति । परिहरति-- नेति । तथेति--विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादुक्तवहिव्याप्यतयक्तित्वावच्छिन्नाभावकूटज्ञानार्थं तथाविधसकलव्यक्तिनिष्ठा. नाम्-उक्तवहिव्याप्यसकलव्यक्तिनिष्ठानां सर्वेषां तद्वयक्तित्वानां ज्ञानापेक्षा प्राप्ता न च सर्वेषां