________________
सादर्श:
( १६८)
[विशेषकाण्डेइत्यादी : अस्ति ' इतिक्रियाध्याहारात स्वपदार्थस्य समभिव्याहृतक्रियाकारकत्वमक्षतमेवेति न स्वपदात् तत्प्रतीत्यनुपपत्तिः । एवम् “ कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारिता गुणः” इत्यादावपि 'अस्ति ' इति क्रियाऽध्याहारात स्वपर्यायनिजपदात् कलशादिप्रतीतिः। 'स्वव्यापकवहिसामानाधिकरण्यं धूमस्य' इत्यादयश्च न प्रयोगाः।
इदं तु चिन्त्यते-यद्रूपेण समभिव्याहृतपदादुपस्थितिस्तद्रूपावच्छिन्नस्य स्वपदार्थत्वे एकेन ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायाम् ‘ब्राह्मणः स्वपुत्रं न पश्यति' इत्यादिप्रयोगानुपपत्ति:-अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकाइत्यादौ दर्शनक्रियाकर्तुमैत्रादेस्तत्र तत्र स्वपदेन परामर्शो विज्ञेयः । 'स्वपापकवह्निसामानाधिकरण्यं धूमे ' इत्यादौ ' अस्ति ' इति क्रियाऽध्याहारान् स्वपदार्थस्य धूमस्य समभिव्याहृतास्तीतिक्रियानिरूपितमधिकरणकारकत्वमक्षतमेवेति न स्वपदात् तत्प्रतीत्यनुपपत्तिः धूमप्रतीत्यनुपपत्तिरित्याह- स्वव्यापकेति । उदाहरणान्तरमाह- एवमिति, अध्याहृतास्तीतिक्रियानिरूपितमधिकरणकारकावं कलशेऽस्त्येत्यत्र स्वपर्यायनिजपदेन कलशपरामर्शस्य नानुपपत्तिरित्यन्वयः । 'स्वव्यापकत्रह्निसामानाधिकरण्यं धूमस्य ' इत्यत्र धूमस्य न कारकत्वं संभवति-- षष्ठयाः कारकविभक्तित्वाभावाद् न वा स्वपदाथविशेष्यत्वं संभवति येनात्र स्वपदेन धूमपरामर्शः म्यादित्येतादृशप्रयोग एवाऽशुद्ध इत्याह-- स्वव्यापकेति । '
स्वपदेन स्वपदार्थस्य केन रूपेणोपस्थितिर्भवतीति विविन क्ति-इदमित्यादिना | स्वपदसमभिव्याहतब्राह्मणादिपदाद् ब्राह्मणादेर्येन ब्राह्मणत्वादिरूपेणोपस्थितिर्जायते तादृशब्राह्मणत्वादिरूपावच्छिन एव यदि स्वपदार्थस्तदैकेन ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायाम् ' ब्राह्मणः स्वपुत्रं न पश्यति । इतीष्टोपि प्रयोगो न स्यादेवेत्यन्वयः । उक्त हेतुमाह- अन्वयितेति, ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायां ब्राह्मणत्वावच्छिन्ने ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वं विशेषणत्वादन्वयि- अन्वयित्वस्य विशेष्यविशेषणसाधारणत्वात्, अन्यवितावच्छेदकं च ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयतात्वं तथा चान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकस्य जाह्मणत्यावच्छिन्नपुत्रकर्मकदर्शनाश्रयतात्वावच्छिन्नप्रतियोगिताकस्य ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वाभावस्य विशेष्ये-जाह्मणत्वावच्छिन्ने बाधोस्तीति ब्राह्मणः स्वपुत्रं न पश्यति ' इतिप्रयोगो न स्यादेव, अत्र समभिव्याहृतब्राह्मणपदेन ब्राह्मणस्य ब्राह्मणत्वेन रूपेणोपस्थितिर्जायते इति ब्राह्मणत्वावच्छिन्न एव स्वपदार्थ इति प्राप्तं ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायां च ब्राह्मणत्वावच्छिन्ने ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वस्य सत्वात् तदभावो न संभवतीत्यर्थः । ब्राह्मणेन स्वपुत्रदर्शनदशायां तु ' ब्राह्मणः स्वपुत्रं न पश्यति । इतिप्रयोगो नेष्ट इत्यभिप्रायेण " ब्राह्मणान्तरपुत्रदर्शनदशायाम् " इत्युक्तम् । ननु समभिव्याहृतब्राह्मणादिपदस्य योऽर्थो ब्राह्मणादिस्तनिष्ठ यत् तद्व्यक्तित्वं तदवच्छिन्न एव स्वपदार्थ इति ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायां ब्राह्मणे