________________
स्वपदम्, } शक्तिवादः।
(१६७) 'स्वपुत्रदर्शिचैत्रधनम्' इत्यादौ चैत्रपुत्रीशचैत्रसंबन्धित्वाद्यवच्छिन्ने चैत्रान्तस्य. वाक्ये लक्षणाविरहे तु पूर्वभाग परित्यज्य तादृशलक्ष्यार्थपरताकस्य केवलचैत्रादिपदस्यैव वा तत्र लक्षणा तत एव चैत्रपुत्रादिप्रतीत्युपपत्तिरिति वाच्यम् , एवं सति 'चैत्रस्य भ्रात्रा स्वपुत्री दृश्यते ' इत्यादी स्वपदेन चैत्रपतीत्यापत्ते. १रित्वात् ।
मैवम् साक्षात् परम्परया वा यः स्वार्थस्य विशेष्यो यश्च समभिव्याहतक्रिया. कारकपदार्थस्तदुभयत्र स्वपदस्य शक्तिः । स्वव्यापकवादिसामानाधिकरण्य धूमे'
ननु यदि पदार्थैकदेशभूते चैत्रादौ स्वपदार्थस्यान्वयो न संभवति तदा 'स्वपुत्रदर्शिचैत्रवनम्' इत्यत्र स्वपदार्थस्य चैत्रेण कथमन्वयः स्यात्-चैत्रस्य पदार्थैकदेशत्वादिति स्वपदेन चैत्रबोधानुपपत्तिरित्याशङ्कयाह-स्वपुत्रेति, 'स्वपुत्रदर्शिचैत्रधनम्। इत्यत्र मीमांसकमतेन चैत्रान्तस्य='स्वपुत्रदर्शिचैत्र' इत्येतावन्मात्रवाक्यस्य चैत्रपुत्रदर्शिचैत्रसंबन्धित्वावच्छिने लक्षणा तस्य च धनेऽभेदान्वय इति लक्षणया स्वपुत्रपदेन चैत्रपुत्रबोधानुफ्पत्ति स्ति, तर्कमते तु वाक्ये लक्षणा न भवतीति पूर्वभागम् 'स्वपुत्रदर्शि' इतिभागं परित्यज्य तादशलक्ष्यार्थपरताकस्य चैत्रपुत्रदर्शिचै. त्रसम्बंधित्वावच्छिन्नरूपलक्ष्यार्थपरस्य केवलचैत्रपदस्यैव तत्र चैत्रपुत्रदर्शिचैत्रसंबन्धित्वावच्छिन्ने लक्षणा तस्य चाभेदेन धनेऽन्त्रय इति ततः-लक्षणात एवात्र चैत्रपुत्रप्रतीतेरुपपत्तिविज्ञेया. अत्र पक्षे 'चैत्रपुत्रदर्शि' इति तात्पर्यग्राहकमित्यर्थः । न चेत्यादिनोपपादितं परिहरति-इतिवाच्यमित्यनेन । परिहारहेतुमाह-एवमिति, 'चैत्रस्य भ्रात्रा स्वपुत्रो दृश्यते ' इत्यत्र चैत्रभ्रातृकर्तृ. कदर्शनस्य पुत्रपदार्थे विशेषणत्वेन चैत्रघटिततादृशदर्शनस्य विशेष्यभूतपुत्रे स्वपदार्थस्य विशेषणस्वाद् विशेष्यतावच्छेदककोटौ प्रवेशोस्तीति स्वपदेनात्र चैत्रप्रतीतिः स्यादेव न चैतदिष्टम्--चैत्रमातृप्रतीतेरेवेष्टत्त्रादित्यर्थः । अत्र 'चैत्रभ्रातृकर्तृकदर्शनविषयताश्रयश्चैत्रभ्रातृपुत्रः । इति शाब्दबोधः ।
अथेत्यादिनाऽऽशङ्कित परिहरन् समाधत्ते-मैवमिति । स्वार्थस्य-स्वपदार्थस्य । स्पष्टमन्यत्। 'तादात्म्येन शुक्लस्ववान् घटः । इत्यत्र स्वपदार्थस्य घटः साक्षादेव विशेष्य इति स्वपदं घटपरामर्शकम् । 'स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वतः । इत्यत्र स्वपदार्थस्य धूमः परम्परया-व्यापकवयादिद्वारा विशेष्य इति स्वपदं धूमपरामर्शकम् , एवम् ' स्वपुत्रदर्शिचैत्रधनम् । 'स्वपुत्रदर्शिनं चैत्रम् ' इत्यादावपि स्वपदार्थस्य चैत्रः परम्परया विशेष्य इति न स्वपदेन चैत्रपरामर्शानुपपत्तिः । 'चैत्रस्य भ्रात्रा स्वपुत्रो दृश्यते । इत्यत्र समभिव्याहृतदर्शनक्रियायाः कर्तृकारकत्वं मातृपदार्थे एवेति स्वपदेन भ्रातृपरामर्शो जायते. चैत्रस्तु नात्र स्वपदार्थस्य विशेष्यो न वा सममिव्याहृतक्रियाकारक इति नात्र स्वपदेन चैत्रपरामर्शापत्तिः । ' चैत्रः स्वं पश्यति ' 'स्वपुत्रश्चैत्रेण दृश्यते । इत्यादौ चैत्रस्य समभिव्याहृतदर्शनक्रियायाः कर्तृकारकत्वात् स्वपदेन परामझेपपत्तिः, एवम् ' चैत्रस्य भ्राता स्वपुत्रं पश्यति । 'चैत्रावलोकितं स्वपुत्रं मैत्रः पश्यति'