________________
( १६६ )
सादर्श:
[ विशेषकाण्डे --
र्शानुपपत्तेर्वारणमशक्यमेव । एवम् 'चैत्रेणावलोकितं स्वपुत्रं मैत्रः पश्यति' इत्यादौ चैत्रपुत्रबोधापत्तिवारणमपि ।
न च स्वपदार्थों यदर्थघटितविशेषणस्य विशेष्यतावच्छेदककोटौ यदर्थस्य विशेषणकोटौ वा निविशते स एव पदार्थः स्वशब्दवाच्यो यथा 'चैत्रेणं स्वपुत्रो दृश्यते' 'चैत्रः स्वपुत्रं पश्यति' इत्यादौ । 'चैत्रपुत्रः स्वं पश्यति' इत्यादी 'चैत्रस्य भ्राता स्वपुत्रं पश्यति' इत्यादौ च स्वपदार्थचैत्रस्य विशेषणकोटौ चैत्रघटितार्थस्य धर्मितावच्छेदककोटौ वा न निविशते इति नातिप्रसङ्गः ।
'चैत्रावलोकितं स्वपुत्रं मैत्रः पश्यति' इत्यादौ चैत्रपदस्य चैत्रकर्तृके लक्षणया चैत्रः पदार्थैकदेशो न तु पदार्थ इति स्वशब्दान्न तत्प्रतीतिः । 'चैत्रेणावलोकितम् ' इत्यादौ तु तात्पर्यसत्त्वे इष्यत एव ततस्तत्प्रतीतिः ।
धूमपरामर्शः, एवम् 'चैत्रेणावलोकितं स्वपुत्रं मैत्रः पश्यति' इत्यत्राऽवलोकन क्रियान्वयितृतीयार्थे कर्तृत्वे चैत्रस्य साक्षादेवान्चयात् स्वपदेन चैत्रबोधः स्यादेव न चैतदिष्टमित्यर्थः ।
शङ्कते न चेति । एवं हि 'चैत्रेण स्वपुत्रो दृश्यते' इत्यत्र चैत्रकर्तृकदर्शनस्य स्वपुत्रेऽन्वयात् तारादर्शनं विशेषणं स्वपुत्रश्च विशेष्य इति विशेषणीभूतदर्शनं चैत्रघटितमेवेति यदर्थघटितविशेपणस्य चैत्रघटितदर्शनस्य विशेष्यं स्वपुत्रो विशेष्यतावच्छेदकं च स्वपदार्थ एवेत्यत्र नः स्वपदेव चैत्रपरामर्शानुपपत्तिः, 'चैत्रः स्वपुत्रं पश्यति' इत्यत्र पुत्रकर्मकदर्शनस्य चैत्रेऽन्वयाद् यदर्थस्य= चैत्रस्य विशेषणकोटौ=पुत्रकर्मकदर्शने स्वपदार्थस्य निवेशोस्तीत्यत्रापि न स्वपदेन चैत्रपरामर्शानुपपत्तिः, एवम् स्वव्यापकद्धिसमानाधिकरणधूमवान्' इत्यत्रापि स्वपदार्थो धूमस्य विशेषणकोटौ निविशते इति न स्वपदेन 'धूमपरामर्शानुपपत्तिः, 'स्वपुत्रदर्शिनं चैत्रम्' इत्यत्रापि स्वपदार्थस्य चैत्रविशेषण कोटा प्रवेशान्न स्वपदेन चैत्रपरामर्शानुपपत्ति: । 'चैत्रपुत्रः स्वं पश्यति' 'चैत्रस्य आता स्वपुत्रं पश्यति' इत्यादौ च स्वपदार्थो न चैत्रस्य विशेषणकोटौ वा चैत्रघटितार्थस्य विशेषणीभूतस्य विशेष्यतावच्छेदककोटौ वा निविशते इति न स्वपदेन चैत्रपरामर्शस्यातिप्रसङ्ग इत्यन्वयः । ‘चैत्रपुत्रः स्त्रं पश्यति' इत्यत्र स्वपदार्थः पुत्रविशेषणीभूतदर्शने 'चैत्रस्य भ्राता स्वपुत्रं पश्यति' इत्यत्र च भ्रातृविशेपणी भूतदर्शन विशेषणीभूतपुत्रे एव विशेषणमिति पूर्वत्र स्वपदेन चैत्रपुत्रस्योत्तरत्र च चैत्रभ्रातुः परामर्शो जायते ।
चैत्र इति-चैत्रपदस्य चैत्रकर्तृके लक्षणया 'चैत्रकर्तृकावलोकनकर्मभूतं स्वपुत्रं मैत्रः पश्यति' इति वाक्यार्थः । तत्प्रतीति: चैत्रप्रतीतिः | स्वपदार्थस्य चैत्रेणान्वयोऽत्र न भवतीत्यस्य "पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इति न्याय एव मूलम् | 'चैत्रेणावलोकितं स्वपुत्रं मैत्रः पश्यति' इत्यत्र तु स्वपदेन चैत्रपरामर्शविषयक तात्पर्यसत्त्वं ततः स्त्रपदात् तत्प्रतीतिः चैत्रप्रतीतिरिष्यत एव यदा च वक्तुः स्वपदेन मैत्रपरामर्शे तात्पर्य तदा स्वपदेन मैत्रस्यापि प्रतीतिरिष्ठैवेत्यर्थः ।