________________
(१७०) . सादर्श:
[विशेषकाण्डेत्वानां युगसहस्रेणापि ज्ञातुमशक्यत्वात्, कदाचित् कस्यचिज्ज्ञानसंभवेपि कतिपयतत्तव्यक्तित्वावच्छिन्नमात्रोपस्थितिदशायां. कतिपयाभावमात्रगोचरप्रतीतेरप्यङ्गीकार्यतया तादृशनियमस्य सुदूरपराहतत्वादिति ।। __ अत्र केचिद- 'ब्राह्मणः स्वपुत्रं पश्यति' इत्यादौ स्वपदं ब्राह्मणत्वावच्छिन्नार्थकमेव विशेष्यीभूतब्राह्मणत्वाद्यवच्छिन्ने च स्वपदार्थवटितस्य ब्राह्मणपुत्रदर्शन कर्तृत्वादिरूपविशेषणस्य न केवलमाश्रयत्वादिसंबन्धेनान्वयः अपि तु स्वाश्रयत्वस्वनिरूपकदर्शनविषयपुत्रजनकत्वोभयसंबन्धेनैव. एवं च तत्र तत्र नत्रा तादृशोभयसंबन्धावच्छिन्नतदभाव एव प्रत्याय्यतेऽतो नोक्तदोषावसर इति वदन्ति । तयक्तित्वानां युगसहस्रेणापि ज्ञानं संभवतीत्यर्थः । उक्तसकलतद्वयक्तित्वानां ज्ञानमभ्युपगम्यापि दोषमाह- कदाचिदिति, कदाचित् कस्यचिदुक्तसकलतद्वयक्तित्वज्ञानसंभवेपि 'स्वव्यापकवहिकालीनद्रव्यं नास्ति' इत्यत्र कतिपयानामेव वहिव्याप्यकतिपयव्यक्तिनिष्ठानां तद्वयक्तित्वानामुपस्थितिदशायामपि वह्निव्याप्यकतिपयव्यत्यभावविषयकं ज्ञानं जायते एवेति तदङ्गीकार्यतया तादशनियमः उक्ताभावकूटप्रतीतिनियमः सुदूरपराहत इत्यर्थः । __कस्यचिन्मतन स्वपदार्थं समाधत्ते- अत्रेति । स्वपदं ब्राह्मणत्वाद्यवच्छिन्नार्थकमेव नाम स्वपदसमभिव्याहृतम्राह्मणादिपदेन ब्राह्मणादेर्येन ब्राह्मणत्वादिरूपेणोपस्थितिर्जायते तादृशब्राह्मणवाद्यवच्छिन्न एव स्वपदाथों विज्ञेयः । स्वाश्रयत्वेति-- स्वमुक्तदर्शनादिकर्तृत्वादिकं तदाश्रयत्वमपि ब्राह्मणेम्ति तादृशकर्तृत्वादिनिरूपकं यद् दर्शनं तद्विषयः पुत्रस्तजनकत्वमपि 'ब्राह्मणः स्वपुत्रं पश्यति' इत्यत्र ब्राहाणेम्तीत्येतदुभयसंबन्धेन स्वपदार्थघटितस्य ब्राह्मणपुत्रदर्शनकर्तृत्वस्यान्बयो ब्राह्मणे भवतीति तत्र तत्र='ब्राह्मणः स्वपुत्रं न पश्यति' इत्यादौ ना तादृशोभयसंबन्धावच्छि. नः उक्तोभयसंबन्धेनैव तदभावः= ब्राह्मणपुत्रदर्शनकर्तृत्वाभावः प्रतीयते स च ब्राहाणेन ब्राह्मणान्तरपुत्रदर्शनदशायामपि तादृशब्राह्मणे संभवत्येव- ब्राह्मणपुत्रकर्मकदर्शनकर्तृत्वाश्रयत्वस्य ब्राह्मणे सत्त्वेपि तादृशदर्शनविषयपुत्रजनकत्वस्याभावात्- दृश्यमानपुत्रस्य तदन्यब्राह्मणजन्यत्वादिति ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायामपि 'ब्राह्मणः म्वपुत्रं न पश्यति' इतिप्रयोगस्यानुपपत्तिर्नास्ती. त्यर्थः । अत्र केवलाश्रयत्वसंबन्धनिवेशे ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायामुक्तरीत्या 'बाह्मणः खपुत्रं न पश्यति' इतिप्रयोगानुपपत्तिः- ब्राह्मणे ब्राह्मणान्तरपुत्रदर्शनकर्तृत्वाश्रयत्वस्यैव सत्त्वात्. स्वपदस्य ब्राह्मणत्वावच्छिन्नपरत्वात्, केवलम्वनिरूपकदर्शनविषयपुत्रजनकत्वसंबन्धनिवेशे च स्वेनादृश्यमानस्वपुत्रस्याऽन्यकर्तृकदर्शनकालेपि 'ब्राह्मणः स्वपुत्रं पश्यति' इतिप्रयोगः स्यादू ब्राह्मणे संबन्धभूतजनकत्वस्य सत्वाद् न चैतदिष्टमित्युभयसंबन्धनिवेशः कृतः। 'स्वव्यापकवतिकालिका द्रव्यं नास्ति' इत्यत्राप्येवं रीत्या स्वपदं द्रव्यपदं च धूमादिव्यक्तिपरमेव तादृशधूमादिव्यत्यभावस्य हृदादौ सत्वात् 'दे स्वव्यापकवतिकालिकद्रव्यं नास्ति' इतिप्रयोगानुपपत्तिर्नास्ति महा.