________________
एकपदम्.] शक्तिवादः ।
(१७१) एकशब्दस्य कैवल्यादिविशिष्टे शक्तिः । कैवल्यं च सजातीयद्वितीयराहित्यम्, तच्च सजातीयनिष्ठभेदाऽप्रतियोगित्वम् । सजातीयत्वं चोद्देश्यविशेषणवाचकैकशब्दात् कैवल्यघटकत्वेन प्रकृतविधेयवत्त्वरूपं प्रतीयते तथा च 'अत्रायमेको भुङ्क्ते' इत्यादौ 'एतद्देशाधिकरणकभोजनकर्तृनिष्ठभेदाप्रतियोग्यध्यमत्र भुङ्क्ते' इत्यायानसादौ च तादृशधूमादिव्यत्यभावम्य बाधात् 'महानसे स्वव्यापकवह्निकालिकद्रव्यं नास्ति' इतिप्रयोगापत्तिर्नास्ति । क्षेत्रण स्वपुत्रो दृश्यते' इत्यादावाल्यातार्थकर्मत्वस्य स्वाऽऽश्रयत्वस्वनिरूपकदर्शनकर्तृजन्यत्वैतदुभयसंबन्धेन पुत्रादावन्वयः । 'चैत्रः स्वधनं पश्यति' इत्यादौ स्वाश्र
स्वस्वनिरूपकदर्शनविषयधनस्वामित्वैतदुभयसंवन्धेन कर्तत्वादेश्चैत्रादावन्वयः । 'ब्राह्मणः स्वं पश्यति' इत्यादौ स्वाश्रयत्वस्वनिरूपकदर्शनविषयव्यक्त्यभिन्नत्वसंबन्धेन ब्राह्मणादौ कर्तृत्वाद्यन्वयस्तेन ब्राह्मणेन ब्राह्मणान्तरदर्शनदशायामपि 'ब्राह्मणः स्वं न पश्यति' इत्यादिप्रयोगानुपपत्तिर्नास्तीत्यादि स्वयमनुसंधेयम् ॥ इति स्वपदम् ॥
अथ ॥ एकपदम् ॥
एकशब्दस्य शक्तिमाह-एकेति । केवलस्य भावः कैवल्यम् । आदिपदादेकत्वादिविशिष्टेपि शक्तिः । “एके मुख्यान्यकेवलाः' इत्यमरः । कैवल्यपदार्थमाह- कैवल्यं चेति ! सजातीयद्वितीयराहित्यपदार्थमाह- तच्चेति । अनेकव्यक्तिका बटादयः परस्परं सजातीया भवन्तीति तत्रान्यघटव्यक्तिनिष्ठैतद्बटव्यक्तिप्रतियोगिकभेदस्य प्रतियोगित्वमेतद्धटव्यक्तौ वर्तते. यस्य च सजातीयं द्वितीयं न भवति तत्र सजातीयनिष्ठस्वप्रतियोगिकभेदप्रतियोगित्वमपि न भवति यथा ब्रह्मणि । भेदपदेन चात्र तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको भेदो ग्राह्य इति न द्वित्वावच्छिन्न प्रतियोगिताकभेदमादाय दोषापत्तिः । एकपदं चोद्देश्यविशेषणवाचकमपि भवति विधेयविशेषणवाचकमपि भवति तत्रोद्देश्य विशेषणवाचकैकशब्दार्थीभूतकैवल्यघटकं साजात्यपदार्थमाह-सजातीय त्रमिति । कैवल्यघटकल्वेनेति-उद्देश्यविशेषणवाचकैकशब्दार्थभूतं यत्कैवल्यं तद्घटक यत् सजातीयत्वं तत् प्रकृतविधेयवत्त्वरूपं प्रतीयते इत्यर्थः । उदाहरति-अत्रेति, 'अत्रायमेको भुङ्क्ते' इत्यत्रेदम्पदबोभ्यव्यक्तिमुद्दिश्यैतदेशाधिकरणकभोजनकर्तृत्वं विधीयते तत्रेदम्पदबोध्यव्यक्तावेवैकपदार्थः कैवव्यं विशेषणमस्तीत्यत्रोद्देश्यविशेषणवाचकमेकपदम् । उक्तवाक्यजन्यशाब्दबोधस्वरूपमाह-एतदेशेति । अत्रैतदेशाधिकरणकभोजनकर्तृत्वं प्रकृतविधेयमस्तीति तादृशभोजनकर्तृत्ववांस्तादृशमोजनकर्ता सजातीयः संभवति स चात्र नास्त्येव-द्वितीयस्यैतद्देशाधिकरणकभोजनकर्तरभावादिति ताशसजातीयनिष्ठभेदाप्रतियोगित्वमिदम्पदबोध्यव्यक्तौ प्राप्तं तदेव कैवल्यमित्यर्थः । अत्र सजातीयाऽप्रसिया सकललक्षणाप्रसिद्धिरित्यनुसन्धेयम् । अत्र 'प्रकृतविधेयवत्त्वेनैकत्वसंख्यायत्त्वं कैवल्यम्' इत्यपि वक्तुं शक्यते एतद्देशाधिकरणकभोजनकर्तृत्ववत्त्वेनेकत्वसंख्यावत्वं चेद