Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 194
________________ सादर्श: [ विशेषकाण्डे नानुभवजननसामर्थ्यमीश्वरसंकेतो वा वृत्तिरूपा शक्तिरपि तु पदार्थान्तरमेव सा च जातावेव कल्प्यते न तु व्यक्त्यादाविति न तत्र कुब्जशक्तिरपीति तत्त्वम् । अथ व्यक्तेर्गवादिपदावाच्यत्वे गवादिपदाद् व्यक्तः स्मरणमनुभवश्च न स्यात् । न च पदाऽवाच्यत्वेप्यन्वयस्येव व्यक्तेर्भानं शाब्दबोधे नानुपपन्नमितिवाच्यम्, तद्धर्मप्रकारकशाब्दबोधे तद्धर्मप्रकारकपदार्थोपस्थितेर्हेतुतया गोत्वमकारकशाब्दबुद्धौ गोत्वादिप्रकारकव्यक्तिस्मरणस्यापेक्षणीयतया संबन्धग्रहाविषयतया व्यक्तेरस्मरणे व्यक्तेः शाब्दानुभवविषयताया दुरुपपादत्वात्, अन्वयस्य च संसर्गविधयैव भानाच्छादधियोऽन्वयांशे निष्प्रकारकतया तदुपस्थित्यनपेक्षणेन तत्र वाच्यत्वानुपयोगादितिचेत् ? । अत्र भट्टा : - पदान व्यक्तेः स्मरणमनुभवो वा किं त्वाक्षेपादेव व्यक्तिधीराssक्षेपिका च जातिरेव . आक्षेपश्चानुमानमर्थापत्तिर्वा । नच जातिव्यक्तयोर्वैयधिक ( १८६ ) शक्तिर्न संभवतीति शक्ति: पदार्थान्तरमेव । सा शक्तिः जातौ निरूपकत्वसंबन्धेन ज्ञेया पदनिष्ठ • वात् । तत्र यत्त्यादौ । स्पष्टं सर्वम् । तार्किकः शङ्कते - अथेति । ननु यथा समवायस्य गवादिपदायाच्यत्वेपि गवादिपदजन्यशाब्दबोधे भानं भवति तथा व्यक्तेरपि भविष्यतीत्याशङ्क्याह-- न वेति । परिहार हेतुमाह-तर्मेति । संबन्वग्रहाविषयतया = शक्तिप्रहाविषयतया । अन्वयस्येति - समवायादेः संसर्गतयैव शाब्दबोधे भानं भवतीति समवायाद्यंशे शाब्दबोधो निष्प्रकारक एव जायते इति तदुपस्थित्यनपेक्षणेन समवायादेरुपस्थित्यपेक्षाभावात् तत्र - समवायादौ तद्भानार्थं वाच्यखापेक्षा नास्तीत्यन्वयः । व्यक्तस्तु प्रकारक एव बोधो भवति - निष्प्रकारकव्यक्तिबोधस्य प्रवृत्त्याद्यनुपयोगित्वादिति व्यक्तिविषयकस प्रकारकबोधार्थं व्यक्तिविषयकस प्रकारको पस्थितेरपेक्षा. तादृशोपस्थितेश्व व्यक्तेर्वाच्यत्वं विनाऽसंभवाद् व्यक्तेर्वाच्यत्वमावश्यकमिति व्यक्तेरन्वयापेक्षया वैषम्यम् । उक्ताशङ्कां भट्टमतेन समावत्ते - अत्रेत्यादिना । यदि पदादू व्यक्तेः स्मरणमनुभवश्च स्यात्तदा तदर्थं व्यक्तेः पदवाच्यत्वं स्यादपि न चैवमस्तीत्यर्थः । व्यक्तत्याक्षेपकपदार्थमाह- आक्षेपिकेति जातिक्ति विना न तिष्ठतीति व्यक्त्याक्षेपिका भवतीति भावः । आक्षेपपदार्थमाह- आक्षेपश्रुति, जातौ व्यक्तिव्याप्यत्वानुसन्धानदशायां जात्या व्यक्तेरनुमानं भवति, जातौ व्यक्ति विनाSनुपपद्यमानत्वानुसंधानदशायां च जात्याऽर्थापत्त्या व्यक्तेर्मानं भवति यथा दिवाऽभुआनस्य पीनवेन रात्रिभोजनस्य । ननु तत्समानाधिकरणेन तत्समानाधिकरणस्यानुमानादिकं जायते न तु वैयधिकरण्येपि जातिश्च व्यक्तौ व्यक्तिश्व स्त्रावयवेषु वर्तत इति जातिव्यक्त्योर्वैयधिकरण्येपि कथं जात्या व्यक्त्याक्षेपः स्यादित्याशङ्क्याह - न चेति । परिहारहेतुमाह - तादात्म्येति, यत्र जात्यां जातिस्तादात्म्यसंबन्धेन वर्तते तत्र जात्यां व्यक्तिराधेयता संबन्धेन वर्तत एवेति तादात्म्यसम्बन्धेन

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216