Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 203
________________ मीमांसकमतखण्डनम्.] शक्तिवादः । ( १९५) केवलमुख्यतात्पर्येण 'गवि नित्यत्वम्' इति स्वारसिकप्रयोगापत्तिरितिवाच्यम्, शक्त्या स्वरूपत उपस्थिताया जातेः समानपदोपात्तर्मिण्येवाश्रयतासंबन्धेनाऽन्वयस्य व्युत्पन्नत्वात् । न चान्वयितावच्छेदकरूपेणानुपस्थिताया जातरन्वयो विरुध्यते- व्युत्पत्तिवैचित्र्येण प्रकारतया स्वरूपत उपस्थिताया जातेरन्वयस्वीकारे क्षतिविरहात् । इतिरीत्या चेन्मतमेतत् परिष्क्रियते तथापि स्वरूपतो गोत्वाद्यन्वयबोधस्य लक्ष्यार्थे गवादी स्वीकारे तादृशान्वयबोधं प्रति योग्यताज्ञानादीनां कारणताकल्पनाधिक्यात. गोत्वादिविशिष्टव्यक्तिशाब्दधीसामग्रीप्रतिबन्धकतायां जातिव्यणया व्यक्तेर्बोधः सम्भवतीति शक्तिलक्षणेतिवृत्तिद्वयेन जातिव्यक्त्युभयविषयकशाब्दबोधस्वीकारे दोषाभावादित्यर्थः, तथा च व्यक्तिमानकाले किं वा लक्षणया भासमानव्यक्त्या सह भासमानजातौ गवादिपदस्य प्रयोगो भवत्येवेति न जातौ शक्त्यनुपपत्तिः । ननु यदि जातौ गवादिपदस्य प्रयोगो भवति तदा जाती नित्यत्वस्य सत्त्वेन केवलमुख्यतात्पर्येण 'गनि नित्यत्वम्। इति स्वारसिकप्रयोगः स्यादेवल्याशङ्क्याह- न चेति । परिहारहेतुमाह-- शक्त्येति, गवादिपदेन शक्त्या स्वरूपत उपस्थिताया जातेः समानपदोपात्तर्मिणि गवादिपदेन लक्षणयोपस्थितार्या व्यक्तावेवाश्रयतासम्बन्धेनान्वयो भवतीति जातेनित्यत्वेऽन्वयासम्भवादेव जातिमुद्दिश्य 'गवि नित्यत्वम्' इति प्रयोगस्यापत्तिर्नास्ति, ‘एकत्र विशेषणस्यान्यत्र विशेषगत्वासंभवात्' इति न्यायादित्यर्थः । नन्वऽन्वयितावच्छेदकरूपेणोपस्थितस्यैव कचिदन्वयः संभवति जातेश्च त्वया न गोत्वत्वादिरूपेणोपस्थितिः स्वीक्रियते स्वरूपत एवोपस्थितिस्वीकारादिति कथं जातेwक्तावन्वयः स्यादित्याशक्याह- न चेति । उत्तरमाह- व्युत्पत्तीति, स्वरूपत उपस्थितायाः अन्वयितावच्छेदकरूपेणानुपस्थिताया अपि जातेः प्रकारतया व्यक्ताबन्वयम्वीकारे दोपाभावात्, अन्वयितावच्छेदकरूपेणानुपस्थितस्य. विशेष्यतयैवान्वयाऽसम्भवादित्यर्थः । उक्तरूपेणोक्तमतपरिष्कारमुद्दिश्याह- इतिरीत्येति । तथापीति- यद्यप्युक्तरीत्या त्वन्मते 'गवि नित्यत्वम् ' इति प्रयोगापत्तिरपि नास्ति जातेरन्वयितावच्छेदकरूपेणोपस्थितेश्चापेक्षापि नास्ति तथापि स्वरूपत उपस्थितगोत्वादेर्लक्ष्यार्थव्यक्तावन्धयस्वीकारे तादृशान्वयबोधं प्रति योग्यताशानादीनां कारणताकल्पनाधिक्येन गौरवं स्पादेव- पृथगुपस्थितपदार्थयोरन्वयस्य योग्यताज्ञान विना तादृशान्थयबोधस्यासंभवात्. अन्यथा वहिकरणकसेचनान्वयबोधोपि स्यात्, तार्किकमते तु जातिविशिष्टव्यक्तौ शक्तिस्वीकाराद् गवादिपदाजातिविशिष्टाया एव व्यक्तरुपस्थितिर्भवति न तु जातिव्यक्त्योः पृथक् पृथग येनोक्तयोग्यताज्ञानादीनां कारणताकल्पनापत्तिः स्यादित्यर्थः । उक्तमते दोषान्तरमाह- गोत्वादीति, समानविषयकानुमिति प्रति विभिन्न विषयकप्रत्यक्ष प्रति च शा. ब्दबोधसामग्र्याः प्रतिबन्धकत्वमिष्टमस्ति तथा च त्वन्मते जातिविषयकोपस्थितेरपि प्रतिबन्धकत्वं स्पद् व्यक्तिविषयकोपस्थितेरपि प्रतिबन्धकवल्यादिति प्रतिबन्धकतावच्छेदकत्वं तत्तद्विषयकत्त्वद्वयस्य

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216