Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
सादर्श:
( १९४)
[विशेषकाण्डेअथाकृतिविशिष्टायामेव व्यक्तौ लक्षणा- आकृतिप्रकारेण व्यक्तिबोधस्य नैयायिकानामप्यनुमतत्वात् तत्र शत्तयुपस्थितजातेरन्वय उपगम्यते। न चाकृतावेव शक्तिर्जातिविशिष्टे लक्षणेति वैपरीत्यमेव किं न स्यादितिवाच्यम्, आकृतेरवयवसंयोगरूपाया आनन्त्यात् तदपेक्षयैकस्यां जातावेव शक्तिकल्पनौचित्यात् । न चावयवसंयोगनिष्ठ जातिरेख शक्यास्तु व्यक्तौ तदन्वयश्च स्वाश्रयघटितपरम्परासंबन्धेन स्वीक्रियतामितिवाच्यम्, आकृतिप्रकारकबोधस्याऽऽनुभविकत्वात् ।
लक्ष्यार्थव्यक्त्यनुपरक्तायां केवलजातौ प्रयोगविरहश्च न शक्तयभावसाधक:अप्रयोजकत्वात्, तत्राऽप्रयोगमात्रस्यैव तदशक्यत्वे बीजत्वात्, जातावऽप्रयोगस्याऽसिद्धत्वात, तात्पर्यसत्वे च वृत्तियाधीनबोधोपगमे क्षतिविरहः । न चैवं यदि लक्षणाघटकतया लक्षणानिर्वाहार्थमेव शक्तरुपयोगस्तदा तस्याः शक्तेर्वृत्तित्वं न स्यात्स्वातन्त्र्येगाऽतयात्वात्-शाब्दबोधानुपयोगित्वापातात्, स्वातन्त्र्येण शाब्दबोधोपयोगिन एवं वृत्तित्वस्वीकारादित्यर्थः । ___ शङ्कते-अथेति, आकृतिविशिष्टव्यक्तौ लक्षणास्वीकारादाकृतिप्रकारेणैव व्यक्तेर्लक्षणया बोधो भविष्यात. आकृतिप्रकारेण व्यक्तिबोधश्च नैयायिकानामप्यनुमतस्तत्र-आकृतिप्रकारेण भासमानव्यक्तौ शक्त्योपस्थितजातेरन्वय उपगम्यते एवं च जातेर्लक्ष्यतावच्छेदकतया भान न सम्भवतीति जातिभानार्थं जातौ गवादिपदानां शक्तेरावश्यकतेति “जातिशक्तिरन्वयबोधे नापेक्ष्येत" इत्याधुक्तोपालम्भस्यावसरो नास्तीत्यर्थः । वैपरीत्येन शङ्कते- न. चेति । परिहारमाह- आकृतेरिति । तदपेक्षया अवयवसंयोगरूपानन्ताकृतौ शक्तिकल्पनापेक्षया । शङ्कते- न चेति । अवययसंयोगनिष्ठा जातिः अवयवसंयोगत्वमाऽऽकृतित्वं वा । तदन्वयः अवयवसंयोगनिष्टजात्यन्वयः । स्वाश्रयटितपरम्परासंबन्धश्च स्वाश्रयसामानाधिकरण्यसंबन्धः स्वमाकृतित्वं तदाश्रय आकृतिस्तत्सामानाधिकरण्यं व्यक्तावस्ति-आकृत्याचारावयवेष्वेव व्यक्तेरपि समवेतत्वाद् आकृतेरवयषसंयोगरूपत्वेनावयवेष्वेव समवेतत्याद् एतादृशपरम्परासंबन्धेन व्यक्तौ शक्यभूतावयवसंयोगनिष्ठजातेरन्यय इत्यर्थः । परिहरति- आकृतीति, यद्यवयवसंयोगनिष्ठजातिरेव शक्या स्यासदा तत्प्रकारक एव व्यक्तबोधः स्याद् आकृतिप्रकारकश्च बोधो न स्याद् न चैतदिष्टम्- आकृतिप्रकारकबोवस्यैव सर्वानुभवसिद्धत्वादित्याकृतिविशिष्टायामेव व्यक्ती लक्षणेत्येव युक्तमित्यर्थः ।।
यदुक्तं केवल जाती गवादिपदस्य प्रयोगाभावान्न शक्तिः संभवतीति तत्राह- लक्ष्यार्थेति । उक्ते हेतुमाह- अप्रयोजकत्वादिति, सामान्यतः प्रयोगविरहस्य शक्त्यभावसाधनेऽप्रयोजकावादित्यर्थ:- व्यक्त्यादावपि सर्वदा प्रयोगासम्भवात् । यदि जातौ कदापि गवादिपदस्य प्रयोगो न स्थात्तदा जातेः शक्यत्वं न स्यादपि न चैवमस्तीत्याह- तत्रेति । ननु केवलजातो तु गवादिपदस्य प्रयोगो नैव भवति जातिव्यक्त्योरुभयोश्च शक्त्या बोधो न सम्भवति त्वन्मते व्यक्तौ शक्तेरभावादिति गवादिपदात् कथं शाब्दबोधः स्यादित्याशङ्ख्याह- तात्पर्येति, शक्त्या जातेर्लक्ष

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216