Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 201
________________ मण्डन मिश्रमतम् ] शक्तिवादः । ( १९३ ) व्यक्तिबोधकत्वेऽविरोधात् । " स्वार्थादन्येन रूपेण ज्ञाते भवति लक्षणा" इत्यत्र स्वार्थपदस्य शक्यतावच्छेदकपरत्वात् । अत्रेदं चिन्त्यम् - गवादिपदालक्षणया गोत्वादिप्रकारक बोधोपगमे जातिशक्तिरन्वयबोधे नापेक्ष्येत लक्ष्यतावच्छेदकताया एव जातिभाने प्रयोजकत्वसंभवात् । न च शक्ति विना व्यक्तौ शक्यसंबन्धरूपलक्षणैव न निर्वहतीति शक्तेरुपयोगितेतिवाच्यम्, लक्षणानिर्वाहार्थं जातिशक्तिकल्पने गवादिपदस्य द्रव्यत्वादावपि विनिगमनाविरहेण शक्तिकल्पनप्रसङ्गात् द्रव्यत्वादिसंबन्धेनापि गवादी लक्षण संभवात् । प्रयोगविरहस्य द्रव्यत्वादाविव स्वातन्त्र्येण गोत्वादावप्यऽविशिष्टत्वात् । लक्षणावटकतया शक्तेरुपयोगितायां तस्या वृत्तित्वानुपपत्तिः स्वातन्त्र्येणा तथात्वात् । लक्षणया व्यक्तिं बोधयतीति नोक्तानुभवविरोध इत्यर्थः । बोधकत्ववत् = विशेष्यबोधकत्ववत् । ननु 'गङ्गायां घोष: ' इत्यादौ स्वार्थात् प्रवाहादन्येन तीरत्वेन रूपेण तीरे ज्ञाते सति तत्र गङ्गापदस्य लक्षणा भवतीति नियमोऽस्ति तत्र मते च गोपदस्य गोत्वमेव स्वार्थी व्यक्तेश्व गौरवप्रकारेण वोधे स्वीकृते स्वार्थरूपेणैव व्यक्तिज्ञानं जातं न तु स्वार्थभूतगोत्वादिजात्यतिरिक्तरूपेणापीति कथं व्यक्तौ गवादिपदस्य लक्षणा स्यादित्याशङ्क्याह- स्वार्थादिति, स्वार्थादन्येन इत्यत्र स्वार्थपदं शक्यतावच्छेदकपरं गवादिपदस्थले च शक्यतावच्छेदकं गोत्वत्वादिकमेव गोत्व - त्वादन्येन गोत्वेन रूपेण व्यक्तिज्ञानमस्त्येवेति न व्यक्तौ गवादिपदस्य लक्षणानुपपत्तिरित्यर्थः । "L उक्तमण्डन मिश्रमतं विविनक्ति - अत्रेदमित्यादिना, यदि लक्षणया गवादिपदाद् गोत्वप्रकारक - बोधः स्यात्तदा अन्ययवोधे- शाब्दबोधं प्रति जातिशक्तेरप्यपेक्षा न स्यादेवेत्यन्वयः । ननु जातौ शक्त्यभावे शाब्दबोधे जातिभानं कथं स्यादित्याशङ्क्याह- लक्ष्यतेति, लक्ष्यार्थबोधे लक्ष्यताव - च्छेदकस्य भानं भवत्येव त्वन्मते व्यक्तिर्लक्ष्यार्थ एवेति जातौ लक्ष्यतावच्छेदकत्वं प्राप्तमिति लक्ष्यतावच्छेदकतया जातिभानं भविष्यतीत्यर्थः । ननु लक्षणा हि शक्यसंबन्धरूपेति जाती शक्ति विना व्यक्तौ शक्यसंबन्धरूपा लक्षणा कथं स्यात् जातौ शक्तिसत्त्वे तु जातेः शक्यत्वप्राध्या तादृशशक्यजातिसंबन्धस्य व्यक्ती सत्त्वालक्षणा संभवतीति तदर्थं जातिशक्तिः स्वीक्रियते इत्याशङ्क्याह--नचेति । परिहारहेतुमाह- लक्षणा निर्वाहार्थमिति व्यक्तौ लक्षणानिर्वाहार्थं यदि जातौ शक्तिः स्वीक्रियते तदा गवादिनिष्टद्रव्यत्वादिसंबन्धेनापि गवादौ गवादिपदस्य लक्षणासंभवेन विनिगमनाविरहेण गवादिपदस्य द्रव्यत्वादावपि शक्तिकल्पनाप्रसङ्गः स्यादेव न चैतदिष्टमित्यन्वयः । विनिगमनेति - द्रव्यत्वादिसंबन्धेन गवादी लक्षणासत्त्वेपि गवादिपदस्य द्रव्यत्वादी शक्तिर्नास्ति, गोत्वादिसंबन्धेन लक्षणासत्त्वाद् गवादिपदस्य गोलादौ शक्तिरस्तीत्यत्र विनिगमनाया अभावादित्यर्थः । ननु द्रव्यत्वादी गवादिपदस्य प्रयोगो न भवतीति न द्रव्यत्वादी शक्तिः कल्प्यते-प्रयोगस्यैव शक्तिकल्पना नियामकत्वादित्याशङ्कयाह - प्रयोगति, प्रयोगस्तु गवादिपदस्य व्यक्तावेव भवति न गोत्वादाविति गोत्वादावपि शक्तिर्न स्यादित्यर्थः । दोषान्तरमाह- लक्षणा घटकतयेति, A १३ 73

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216