Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 200
________________ सादर्श: (१९२) { विशेषकाण्डे-- तत्संभवात् । जातेरकरणत्वे व्यक्त्यशे कीदृशकरणस्य जन्यतावच्छेदकधर्मवत्त्वमिति चेत् ? न कस्यापि. तावता क्षतिविरहात् । व्यक्तेरपि बोधः शब्दादेव न त्वाऽऽक्षेपादितः, व्यक्तिशाब्दबोधे शक्तिविरहो नानुपपत्ति प्रयोजयति लक्षणात एव तदुपपत्तेरिति मण्डनाचार्यमतं तदुक्तम्___ "जातेरस्तित्वनास्तित्वे न हि कश्चिद् विवक्षति- । नित्यत्वात् , लक्ष्यमाणाया व्यक्तेस्ते हि विशेषणे ॥" इति, अस्तित्वनास्तित्वे-उत्पादविनाशौ । लक्षणा च जातिप्रकारेणैव व्यक्ति बोधयति न तु व्यक्तित्वादिनेति नानुभवविरोधः । नीलादिपदस्य शक्यनीलादिगुणपुरस्कारेण लक्षणया बोधकत्ववत शक्यजातिपुरस्कारेण लक्षणया गवादिपदस्य अशाव्दत्वप्रयोजकत्वं जातिनिष्ठकरणत्वस्यैवेति नियमासंभवात् । ननु व्यक्तिबोधं प्रति यदि जाते करणत्वं नास्ति तदा कीदृशकरणनिरूपितजन्यता व्यक्तिबोधे स्यादित्याशङ्कते- जातरिति। कीड.. शकरणस्येति षष्ठयों निरूपितत्वं तस्य जन्यतायामन्चयः, जन्यता च व्यक्तिबोधे इति ताहशजन्यतावच्छेदकधर्मवत्त्वमपि व्यक्तिबोधे वक्तव्यम् । व्यत्यंशे व्यक्तिविषयकबोधे । उत्तरमाहन कस्यापीति, अत्रापि निरूपितत्वं षष्ठयर्थस्तथा च व्यक्तिबोधे न किंचित्करणनिरूपितजन्यतेत्यर्थः । उक्त हेतुमाह- तावतेति, व्यक्तिबोधे किंचित्करणनिरूपितजन्यताया अभावपि क्षतिविरहादित्यर्थः । यथा तत्र मते गोत्वादिबोधेपि मितिमातृभानं भवति न च तादृशमितिमातृभानं प्रति कस्यचित् करणत्वं स्वीक्रियते तथा प्रकृते व्यक्तिमानं प्रत्यपि न कस्यचित् करणत्वापेक्षेतिभावः । संप्रति मीमांसकेषु मण्डनमिश्रस्य मतमनुवदति-व्यक्तेरपीति । प्रायः स्पष्टं सर्वम् । व्यक्तेराक्षेपेण बोधे ये दोषाः प्रदर्शितास्तेऽस्मिन् मते न सन्तीति सारः । ननु व्यक्तौ शक्तिं विना व्यक्त पदात् कथं बोधः स्यात् त्वया व्यक्ती शक्तेरस्वीकारादित्याशङ्क्याह-- व्यक्तिशाब्दबोध इति । अनुपपत्त्यभावे हेतुमाह- लक्षणात एवेति । तदुपपत्ते: व्यक्तिविषयकशान्दवोधोपपत्तेः । शत्या तद्विषयकशाब्दबोधार्थमेव तत्र शत्स्यपेक्षानियमेन लक्षणाजन्यशाब्दबोधे तत्र शक्त्यपेक्षाभावा-. दितिभावः । उक्तमण्डनमिश्रमते प्रमाणमाह- जातरिति, ते अस्तित्वनास्तित्वे-उत्पादविनाशी नित्यत्वाजातेन संभवत इति लक्षणया बुध्यमानाया व्यक्तरेव विशेषणे भवत इत्यर्थः । ननु 'गङ्गायां घोषः' इत्यत्र गङ्गातीरमात्रे घोषाधारता प्रतीयते न तु तीरत्वावच्छेदेन सकलतीरेष्विति लक्षणया लक्ष्यमाणस्य तद्व्यक्तित्वेनैव बोध इष्ट इति प्रकृतेपि व्यक्तस्तद्व्यक्तित्वेनैव लक्षणया बोधः स्यात्तथा चानुभवविरोधः-जातिप्रकारेणैव व्यक्तिबोधस्य सर्वानुभवसिद्धत्वादित्याशङ्कयाहलक्षणेति । व्यक्तित्वादिना तद्व्यक्तित्वादिना । स्वाभिमतं सदृष्टान्तमाह- नीलादीति, यथा नीलपदस्य नीलत्वगुणे शक्तिर्नीलगुणविशिष्टे च लक्षणैवेति — नीलो घटः ' इत्यत्र नीलपदं स्वशक्यनीलत्वगुणप्रकारेणैव लक्षणया घटं बोधयति तथा गवादिपदमपि स्वशक्यजातिप्रकारेणैव

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216