Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 199
________________ श्रीकरमतखण्डनम् ] शक्तिवादः । ( १९१ ) एतेन जातिवाचकपदाजातिबोधः शाब्दो व्यक्तिबोधस्त्वौपादानिक एवेति श्रीकरमतमनुपादेयम् उपादानस्यार्थापत्तिरूपत्वेन भट्टमताविशेषात् । न च जातिरेव व्यक्तिबोधिका जातिकरणकत्वमेवापादानिकत्वं बोधस्येति वाच्यम्, जातेः प्रमाणान्तरत्वकल्पनापेक्षया व्यक्तिशक्तिकल्पनाया एवोचितत्वात् । एवं जातेर्नित्यतथा सर्वदेव तदुपादानकव्यक्तिधीवारणाय जातिहेतुकव्यक्तिबोधे जातिशक्तिज्ञानघटिततच्छान्दसामय्याः सहकारित्वमवश्यमभ्युपगन्तव्यं तथा च तादृशसामय्या एव व्यक्तिज्ञानप्रयोजकतासंभवेन जातेः करणत्वकल्पनमनर्थकम् । न च जातिनिरपेक्षजातिभासकशाब्दसामय्या व्यक्तिभानप्रयोजकत्वे व्यक्तयंशेपि शाब्दत्वमावश्यकं तथा सति च शक्तिज्ञानजन्यव्यक्तिस्मृतेरप्यऽपेक्षा स्यात् जातेः करणत्वे च व्यक्तयंशे औपादानिकत्वमेव न तु शाब्दत्वमिति न तदपेक्षेति वाच्यम्, व्यक्तिभानांशे जातेः करणत्वे तदंशेऽशाब्दत्वापगमसंभवे तदकरणत्वेपि उक्तनिरासप्रकारं श्रीकरमते उपन्यस्यति - एतेनेति । अनुपादेयत्वे हेतुमाह- उपादानस्येति, भमते प्रदर्शिता दोषा अत्राप्यनुसन्धेया इत्यर्थः । नतु जात्या व्यक्तिबोधो जायते तादृशव्यक्तिबोत्रे यद् औपादानिकत्वं तज् जातिकरणकत्वमेव तथा च जातिकरणकबोधविषयत्वं व्यक्तेः प्राप्तमिति न व्यक्तिमानानुपपत्तिरित्याशङ्कयाह - न चेति । परिहारहेतुमाह- जातेरिति, प्रमाकरणं हि प्रमाणं भवति तत्र जातेर्यदि व्यक्तिविषयकबोधकरणत्वं स्यात्तदा प्रमाणान्तरत्वं स्यादेबेति जातेः प्रत्यक्षाद्यतिरिक्तप्रमाणत्वकल्पनापेक्षया व्यक्तौ पदस्य शक्तिकल्पनैवोचिता- लाघवात्, out पदस्य शक्तौ सत्यां च पदेनैव व्यक्तिभानं संभवतीत्यर्थः । जातेः करणत्वे दोषान्तरमाह - एवमिति, यदि जात्या व्यक्तिबोधः स्यात्तदा जातेर्नित्यतया सर्वदैव व्यक्तिभानं स्याद् न च सर्वदा व्यक्तिमानं भवतीति सर्वदा जात्युपादानकव्यक्तिबोधवारणाय जातिकरणकव्यक्तिबोध प्रति जातिशक्तिज्ञानघटितजातिविषयकशाब्दबोधसामय्याः सहकारित्वं स्वीकार्य येनोक्तसामग्र्याः सर्वदा संभवाभावात् सर्वदा व्यक्तिमानापत्तिर्न स्यात् तादृशोक्तसामग्र्याः सहकारित्वो पग मे 'च तादृशतामस्यैव व्यक्तिबोध: संभवतीति तव मतेपि जातेर्व्यक्तिबोधकरणत्वकल्पनमनर्थकमेवेत्यर्थः । ननु यदि जात्या व्यक्तिभानं न स्यात् किं तुक्तरीत्या जातिनिरपेक्षया- जात्यघटितयैव जातिभासकशाब्दबोधसामग्र्या व्यक्तिमानं स्यात्तदा व्यक्तेः शाब्दत्वम् = शाब्दबोधविषयत्वं स्यादेव शाब्दबोधविषयत्वं च तद्विषयकशक्तिज्ञानजन्योपस्थिति विना न संभवतीति व्यक्तेः शक्तिज्ञानजन्यस्मृत्यपेक्षा प्राप्ता तदर्थं च वाच्यत्वापेक्षा प्राप्ता व्यक्तेर्वाच्यत्वे च गौरवं जातेरपि वाच्यत्वस्यावश्यकत्वात् जातेः करणत्वे च व्यक्तावौपादानिकत्वमेव न तु शाब्दत्वमिति न तदपेक्षा -- शक्तिज्ञानजन्यव्यक्तिस्मृत्यपेक्षा तेन च न व्यक्तेर्वाग्यत्वापेक्षेति लाघवमित्याशङ्कयाह - न चेति । परिहारमाह-- व्यक्तिमानांश इति, यदि व्यक्तिमानं प्रति जातेः करणत्वे करणत्वेन तदंश-व्यताशाब्दत्वं संभवति तदा तदकरणत्वेपि = जातेरकरणत्वेपि व्यक्तौ तत् = अशाब्दत्वं संभवत्येव

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216