Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 182
________________ (१७४ ) सादर्श: [ विशेषकाण्डे - तरविनिर्माणाऽपरभानविरहाद्वाघवाच्चोभयविशिष्टे गवादिपदस्यैकेव शक्तिः स्वीक्रियते शक्यविशेषणभेदेपि पुष्पवन्तादिपदवद् धेन्वादिपदवच्च शक्त्यैक्यस्य दुरपवादत्वात् । यस्वेकविशिष्टापरावच्छिन्ने शक्तिरिति । तदसत् - विशेष्यविशेषणभावे विनिंगमनाविरहाद् गवाद्यंशे साक्षादुभयप्रकारक बोधस्यानुभवसिद्धस्य दुरपवादत्वाच्च । यत्र केवलाकृतिविशिष्टे गवादिपदस्य तात्पर्य यथा " पिष्टकमय्यो गावः " इत्यादौ तत्र शुद्धगोत्वाद्यवच्छिन्न परधेन्वादिपदे इव लक्षणैव । जात्याकृतिविशिष्टायां व्यक्तौ शक्तेरैक्यम् " जात्याकृतिव्यक्तयः पदार्थः " इति न्यायसूत्रे बहुवचनमुपेक्ष्य " पदार्थः " इत्येकवचनान्तं निर्दिष्टवतो महर्षेरप्यनुमतम् ॥ शक्तिभेदे गौरवमपि स्यादित्याह - लाघवाच्चेति । ननु विशेषणभेदे कथं शक्त्यैक्यं स्यादित्याशकयाह - शक्यविशेषणेति यथा सूर्यवचन्द्रवरूपविशेषणभेदेपि चन्द्रसूर्ययोः पुष्पवन्तपदस्यैकैव शक्तिस्तथात्रापि शक्त्यैक्यमित्यर्थः । ननु पुष्पवन्तपदस्थले चन्द्रत्वं चन्द्रे सूर्यत्वं च सूर्ये विशेषणमिति न विशेषणभेदो येन तद्दृष्टान्तेनात्र शक्तेरैक्यं स्यादित्याशङ्कयाह -- चेन्वादीति, यथा धानकर्मत्वगोत्वरूपविशेषणभेदेपि धेनुपदस्य धेनुव्यक्तावेकैव शक्तिस्तथा प्रकृतेपि शक्त्यैक्यं दुरपवादमेवेत्यर्थः । इस यत्त्विति, एकेति - स्वा ( जात्या) धाराधिकरणवृत्तित्वसंबन्धेन जातिविशिष्टा याऽऽकृतिस्तदवच्छिन्नव्यक्तौ किं वा स्वा ( आकृत्य )धिकरणवृत्ति ( व्यक्ति समवेतत्व संबन्धेनाकृतिविशिष्ट या जातिस्तदवच्छिन्नव्यक्तौ गवादिपदानां शक्तिः, विशेषणभेदेन शक्तिभेदापत्तिर्नास्तिव्यक्तौ द्वयोर्विशेषणत्वाभावादित्यर्थः । परिहरति-तदसदिति । हेतुमाह- विशेष्येति, जातावाकृतेवीssकृतौ जाते विशेषणत्वं स्यादित्यत्र विनिगमकाभावादेक विशिष्टापरावच्छिन्ने शक्तिर्न संभवतीत्यर्थः । किं च गवादिविषयकबोधकाले जात्याकृतिद्वयमेव व्यक्तिविशेषणत्वेन भासते इति मेक्तिविशेषणत्वमेवेत्याह- मवावंशेति । यत्रेति – पिष्टकनिर्मितगोव्यक्तिषु गोत्वजातेर स्वीकारादाकृतेश्च सत्त्वाद् गवादिपदानां लक्षणैत्र न शक्तिः शक्तेर्जात्याकृत्युभयविशिष्टव्यक्तावेव स्वीकारादित्यर्थः । प्रकृते दृष्टान्तमाह- शुद्धेति यथा धेनुपस्व-धानकर्मत्वगोत्वोभयविशिष्टव्यक्तौ शक्तिस्वीकारात् केवलगोत्वविशिष्टव्यक्तौ लक्षणैव तथा प्रकृतेपीत्यर्थः । जात्याकृतिविशिष्टव्यक्तौ शक्तेरेवये मानमाह - जात्याकृतीति । बहुवचनमुपेक्ष्येत्यस्य "पदार्थाः” इत्यनुक्त्वेत्यर्थः । उक्तसूत्रेण जात्याकृतिव्यक्तिष्वेकपदार्थत्वं तत्पदजन्यैक बोधविषयत्वं प्राप्तं तच्च शक्त्यैक्यं विना न संभवतीति भावः ॥ ॥ इति सामान्यकाण्डावशिष्टम् ॥

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216