Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 184
________________ ( १७६ ) सादर्श: [ विशेषकाण्डे - अथाsनुमानादिना गोत्वादी शक्तियों भवन् धर्मितावच्छेदकविधया गोवत्वादिकमवश्यं विषयी करोति निर्धर्मितावच्छेदकज्ञानस्यानुमानादिना जननासं भवात् तादृशज्ञानस्य विपरीतज्ञानाविरोधितयाऽनपयुक्तत्वाच. एवं च तादृशध र्मस्य शक्यतावच्छेदकत्वं दुर्वारमेव शक्तिग्राहकमानेन धर्मितावच्छेदकांशे तद्वच्छेदकताग्रहे बाधकाभावात् । यदि चावच्छेदकतामहपिं शक्तिधियस्तदंशे भ्रमत्वं कल्प्यते विषयबाधेनाऽवच्छेदकत्वमेव शक्तिग्राहकमानेन न गृह्यते इत्येव वा स्वीक्रियते तदा प्रतियोगित्वकारणत्वादीनामपि तुल्ययुक्त्याऽवच्छेदकत्वविलयप्रसङ्गः तत्राप्येवं सुवचत्वात् प्रतियोगित्वादिबुद्धेखच्छेदकत्वावगाहित्वमनुभवसिद्धं यदि तदा शक्तिधियस्तदवगाहिता न तथेति वचसि को वा श्रद्दधाति विशेषाभावात् । मा भूद्वा गोत्वत्वा ननु 'गवादिपदं गोश्वादिजाती शक्तं गोत्वादिजातिबोधकत्वाद् यद् यस्य बोधकं तत् तत्र शक्तं भवति' इत्याद्यनुमानादिप्रमाणेनैव गोत्वादौ शक्तिमहो वक्तव्यः प्रमाणेन च धर्मितावच्छेदकधर्मस्य परामर्शो भवत्येवेति धर्मिभूतं यद् गोत्वादिकं तदवच्छेदकतया गोत्वत्वादेरपि शक्तिग्रहें प्रवेशः स्यादेवेति गौरवं स्यादेव, धर्मितावच्छेदकरहितं च ज्ञानमनुमानादिना न जन्यते येन गोस्वत्वप्रवेशो न स्यात् किं च निर्धर्मितावच्छेदककज्ञानोत्पत्तिस्वीकारेपि तादृशज्ञानस्य = निर्धर्मताबच्छेदककज्ञानस्य विपरीतज्ञानविरोधित्वं न संभवति - अवच्छेदकनिष्ठप्रत्यासत्त्यैव प्रतिबध्यप्रतिबन्धकभावस्वीकारादिति स्वरूपतो गोत्वादिविषयकशक्तिग्रहस्य 'गोपदं न गोत्ववाचकम्' इत्यादिविपरीतज्ञानप्रतिबन्धकत्वासंभवान्निष्फलत्वं स्याद् न चैतदिष्टमिति तादृशधर्मस्य = गोत्वत्यादि - धर्मस्य शक्यतावच्छेदकत्वं दुर्वारमेव तथा च गौरवं स्यादेवेत्याशङ्कते - अथेति । शक्तिप्राहकमानेन= शक्तिमाहकानुमानादिना । धर्मितावच्छेदकांशे = गोत्वत्वादौ । तदवच्छेदकताग्र हे शक्यतावच्छेदकतामहे । ननु शक्तिग्रहे गोवत्वादेवच्छेदकताग्रहेपि शक्यतावच्छेदकतामानेपि शक्तिप्रहस्य तदंशे = गोवत्वादिनिष्ठशक्यतावच्छेदकत्वांशे भ्रमत्वं कल्प्यते तथा च शाब्दबोधे गोत्वत्वादेः शक्यतावच्छेदकत्वेन मानापत्तिर्नास्ति - गोत्यत्वादिनिष्ठशक्यतावच्छेदकत्वस्य भ्रमविषयत्वात् किं वा शक्तिग्राहकमानेन गोत्ववादी शक्यतावच्छेदकत्वं गृह्यते एव न विषयवाधात् गोत्ववादी शक्तिनिरूपितामच्छेदकत्वस्य बाधादिति न शाब्दबोधे गोत्खत्वादेर्भानापत्तिरित्याशङ्क्याह- यदि चेति । प्रतिबन्धुत्तरमाह - तदेंति, एवं रीत्या प्रतियोगित्वादीनामप्यवच्छेदकत्वं न स्यादेवेत्यर्थः । किं वा निरूपितत्वं षष्ठयर्थ इति घटत्वादेः प्रतियोगितावच्छेदकत्वं दण्डत्वादेः कारणतावच्छेदकत्वं च न स्यादित्यर्थः । ननु प्रतियोगित्वादिबुद्धेरवच्छेदकत्वावगाहित्यमनुभवसिद्धमिति न तद्विलयप्रसङ्ग इत्याशयाह-प्रतियोगित्वादीति । उत्तरमाह- तदति । तदवगाहिता - गोत्वत्वादिनिष्ठशक्यतावच्छेदकतावगाहिता । तथा = अनुभवसिद्धा | अभ्युपगम्याह- मा भूदिति । गोत्वादौ निरूपकत्व संबन्धेन

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216