________________
( १७६ )
सादर्श:
[ विशेषकाण्डे -
अथाsनुमानादिना गोत्वादी शक्तियों भवन् धर्मितावच्छेदकविधया गोवत्वादिकमवश्यं विषयी करोति निर्धर्मितावच्छेदकज्ञानस्यानुमानादिना जननासं भवात् तादृशज्ञानस्य विपरीतज्ञानाविरोधितयाऽनपयुक्तत्वाच. एवं च तादृशध र्मस्य शक्यतावच्छेदकत्वं दुर्वारमेव शक्तिग्राहकमानेन धर्मितावच्छेदकांशे तद्वच्छेदकताग्रहे बाधकाभावात् ।
यदि चावच्छेदकतामहपिं शक्तिधियस्तदंशे भ्रमत्वं कल्प्यते विषयबाधेनाऽवच्छेदकत्वमेव शक्तिग्राहकमानेन न गृह्यते इत्येव वा स्वीक्रियते तदा प्रतियोगित्वकारणत्वादीनामपि तुल्ययुक्त्याऽवच्छेदकत्वविलयप्रसङ्गः तत्राप्येवं सुवचत्वात् प्रतियोगित्वादिबुद्धेखच्छेदकत्वावगाहित्वमनुभवसिद्धं यदि तदा शक्तिधियस्तदवगाहिता न तथेति वचसि को वा श्रद्दधाति विशेषाभावात् । मा भूद्वा गोत्वत्वा
ननु 'गवादिपदं गोश्वादिजाती शक्तं गोत्वादिजातिबोधकत्वाद् यद् यस्य बोधकं तत् तत्र शक्तं भवति' इत्याद्यनुमानादिप्रमाणेनैव गोत्वादौ शक्तिमहो वक्तव्यः प्रमाणेन च धर्मितावच्छेदकधर्मस्य परामर्शो भवत्येवेति धर्मिभूतं यद् गोत्वादिकं तदवच्छेदकतया गोत्वत्वादेरपि शक्तिग्रहें प्रवेशः स्यादेवेति गौरवं स्यादेव, धर्मितावच्छेदकरहितं च ज्ञानमनुमानादिना न जन्यते येन गोस्वत्वप्रवेशो न स्यात् किं च निर्धर्मितावच्छेदककज्ञानोत्पत्तिस्वीकारेपि तादृशज्ञानस्य = निर्धर्मताबच्छेदककज्ञानस्य विपरीतज्ञानविरोधित्वं न संभवति - अवच्छेदकनिष्ठप्रत्यासत्त्यैव प्रतिबध्यप्रतिबन्धकभावस्वीकारादिति स्वरूपतो गोत्वादिविषयकशक्तिग्रहस्य 'गोपदं न गोत्ववाचकम्' इत्यादिविपरीतज्ञानप्रतिबन्धकत्वासंभवान्निष्फलत्वं स्याद् न चैतदिष्टमिति तादृशधर्मस्य = गोत्वत्यादि - धर्मस्य शक्यतावच्छेदकत्वं दुर्वारमेव तथा च गौरवं स्यादेवेत्याशङ्कते - अथेति । शक्तिप्राहकमानेन= शक्तिमाहकानुमानादिना । धर्मितावच्छेदकांशे = गोत्वत्वादौ । तदवच्छेदकताग्र हे शक्यतावच्छेदकतामहे ।
ननु शक्तिग्रहे गोवत्वादेवच्छेदकताग्रहेपि शक्यतावच्छेदकतामानेपि शक्तिप्रहस्य तदंशे = गोवत्वादिनिष्ठशक्यतावच्छेदकत्वांशे भ्रमत्वं कल्प्यते तथा च शाब्दबोधे गोत्वत्वादेः शक्यतावच्छेदकत्वेन मानापत्तिर्नास्ति - गोत्यत्वादिनिष्ठशक्यतावच्छेदकत्वस्य भ्रमविषयत्वात् किं वा शक्तिग्राहकमानेन गोत्ववादी शक्यतावच्छेदकत्वं गृह्यते एव न विषयवाधात् गोत्ववादी शक्तिनिरूपितामच्छेदकत्वस्य बाधादिति न शाब्दबोधे गोत्खत्वादेर्भानापत्तिरित्याशङ्क्याह- यदि चेति । प्रतिबन्धुत्तरमाह - तदेंति, एवं रीत्या प्रतियोगित्वादीनामप्यवच्छेदकत्वं न स्यादेवेत्यर्थः । किं वा निरूपितत्वं षष्ठयर्थ इति घटत्वादेः प्रतियोगितावच्छेदकत्वं दण्डत्वादेः कारणतावच्छेदकत्वं च न स्यादित्यर्थः । ननु प्रतियोगित्वादिबुद्धेरवच्छेदकत्वावगाहित्यमनुभवसिद्धमिति न तद्विलयप्रसङ्ग इत्याशयाह-प्रतियोगित्वादीति । उत्तरमाह- तदति । तदवगाहिता - गोत्वत्वादिनिष्ठशक्यतावच्छेदकतावगाहिता । तथा = अनुभवसिद्धा | अभ्युपगम्याह- मा भूदिति । गोत्वादौ निरूपकत्व संबन्धेन