________________
मीमांसकमतम्.] शक्तिवादः।
( १७५) मीमांसकास्तु गवादिपदानां जातिरेव वाच्या न तु व्यक्तिराकृतिर्वा- व्यक्तिशक्तिमतीप स्वरूपतस्तस्या ग्रहासंभवेन शक्तिज्ञानप्रकारीभूतायां जाती शक्तेस्तदवच्छेदकताया वावश्यकल्पनीयतया व्यक्त्यादौ तत्कल्पनायां गौरवात् प्रयोजनविरहाच्च । व्यक्तिशक्तिमते जातेरुपलक्षणत्वासंभवः प्रागेव दर्शितः । यथा व्यक्तिशक्तिमते जात्यशे शक्तिस्तदवच्छेदकता वा तद्विशेषणानवच्छिन्नैव तथा जातिशक्तिमतेपि सा तथैवेति न गोत्वत्वादिप्रवेशाद् गौरवशङ्कापि. न हि जातिशक्तिमतेपि शाब्दबोधे सा किंचिद्धर्मप्रकारेण भासते येन प्रकारभानार्थ प्रकारविशेषमन्तर्भाव्य शक्तिः कल्पनीया. अपि तु स्वरूपत एक ।
मीमांसकयोर्भप्रभाकरयोर्मध्ये संप्रति शक्तिविचार भद्दमतमनुवदति- मीमांसका इत्यादिना । मीमांसकमते गवादिपदानां गोत्वादिजातादेव शक्तिर्न तु व्यक्तौ गौरवात, जातिश्च व्यक्ति विना न तिष्ठत्याऽऽनयनादीनां च जातावन्वयासंभवाजातिय॑क्तिमाक्षिपति तादृशाक्षेपेण व्यक्तिबोधो जायते इतिसिद्धान्तः । मूलग्रन्थश्च विशेषतो निगदव्याख्यात एव । आकृतिर्वेति चिन्त्यम्- मीमांसकैराकृतेरेव जातित्वस्वीकारादिति । उक्ते. हेतुमाह- व्यक्तिशक्तीति, तस्याः व्यक्तः । तदवच्छेदकतायाः शक्त्यवच्छेदकतायाः शक्यतावच्छेदकताया इतियावत् । तत्कल्पनायाम्:शक्तिकल्पनायाम् । तार्किकैर्व्यक्तौं शक्तिस्वीकारेपि जातावपि शक्तिः स्वीक्रियते एव व्यक्ती स्वरूपतः जातिनरपेक्ष्येण शक्तिमहासंभवाद् आनन्त्यव्यभिचारदोषादिति जातायेव शक्तियुक्तेत्यर्थः। प्रयोजनविरहादिति- व्यक्तौ शक्तिस्वीकारस्य व्यक्तिमानमेव प्रयोजनं तच्च व्यक्ती शक्त्यसत्त्वेपि जात्याक्षेपेण संभवत्येवेत्यर्थः । ननु व्यक्तिशक्तिमते जातेरुपलक्षणत्वं वक्ष्यामस्तथा च जातौ शक्त्यपेक्षाभावान गौरवमित्याशङ्कयाह- व्यक्तिशक्तिमत इति, गोत्यादिजातेरुपलक्षणत्वे उपलक्षणत्वाविशेषाद् गवादिपदजन्यशाब्दबोधे द्रव्यत्वादेरपि भानापत्तिः स्यादिति तद्वारणाय गोवादिजातेर्व्यक्तिविशेषणत्वमेव स्वीकार्य तथा च जातावपि शक्तिस्वीकारापत्त्या गौरवं स्यादेवेत्यर्थः । प्राक् सामान्यकाण्डान्ते । ननु गोत्वस्वाद्यवच्छिन्नायामेव गोत्वादिजातौ शक्तिः स्यादिति जातिशक्तिमते गोत्वत्वादिप्रवेशाद् गौरवमित्याशङ्कयाह- यथेति । तद्विशेषणानवच्छिन्नैवेति- तद्= गोस्वादिजातिस्तद्विशेषणीभूतं यद् गोत्वत्वादिकं तदनवच्छिन्नैवेत्यन्धयः । सा-शक्तिः । तथैव= तद्विशेषणानवच्छिन्नेव । यथा तर्कमते स्वरूपत एव गोत्वादिजातौ नत्रादिपदानां शक्तिरस्ति न तु गोत्वत्वावच्छिन्नगोत्यादौ तथैव जातिशक्तिमतेपि स्वरूपत एव गोत्यादौ गवादिपदानां शक्तिरस्तीति न गोत्वत्वादिप्रवेशगौरवमिति सारः । स्वमतोपपत्तिमाह- न हीति । सा=जातिः । किंचिद्धर्मप्रकारेण-गोत्वत्वादिप्रकारेण । प्रकारमानार्थम्-गोत्वत्वादिभानार्थम् । प्रकारविशे:धम्-गोत्वत्वादिकम् । स्वरूपत इति- गोत्वत्वाचनवच्छिन्नायामेव गोत्वादिजातौ शक्तिरित्यर्थः ।