________________
(१७४ )
सादर्श:
[ विशेषकाण्डे - तरविनिर्माणाऽपरभानविरहाद्वाघवाच्चोभयविशिष्टे गवादिपदस्यैकेव शक्तिः स्वीक्रियते शक्यविशेषणभेदेपि पुष्पवन्तादिपदवद् धेन्वादिपदवच्च शक्त्यैक्यस्य दुरपवादत्वात् ।
यस्वेकविशिष्टापरावच्छिन्ने शक्तिरिति । तदसत् - विशेष्यविशेषणभावे विनिंगमनाविरहाद् गवाद्यंशे साक्षादुभयप्रकारक बोधस्यानुभवसिद्धस्य दुरपवादत्वाच्च । यत्र केवलाकृतिविशिष्टे गवादिपदस्य तात्पर्य यथा " पिष्टकमय्यो गावः " इत्यादौ तत्र शुद्धगोत्वाद्यवच्छिन्न परधेन्वादिपदे इव लक्षणैव ।
जात्याकृतिविशिष्टायां व्यक्तौ शक्तेरैक्यम् " जात्याकृतिव्यक्तयः पदार्थः " इति न्यायसूत्रे बहुवचनमुपेक्ष्य " पदार्थः " इत्येकवचनान्तं निर्दिष्टवतो महर्षेरप्यनुमतम् ॥
शक्तिभेदे गौरवमपि स्यादित्याह - लाघवाच्चेति । ननु विशेषणभेदे कथं शक्त्यैक्यं स्यादित्याशकयाह - शक्यविशेषणेति यथा सूर्यवचन्द्रवरूपविशेषणभेदेपि चन्द्रसूर्ययोः पुष्पवन्तपदस्यैकैव शक्तिस्तथात्रापि शक्त्यैक्यमित्यर्थः । ननु पुष्पवन्तपदस्थले चन्द्रत्वं चन्द्रे सूर्यत्वं च सूर्ये विशेषणमिति न विशेषणभेदो येन तद्दृष्टान्तेनात्र शक्तेरैक्यं स्यादित्याशङ्कयाह -- चेन्वादीति, यथा धानकर्मत्वगोत्वरूपविशेषणभेदेपि धेनुपदस्य धेनुव्यक्तावेकैव शक्तिस्तथा प्रकृतेपि शक्त्यैक्यं दुरपवादमेवेत्यर्थः ।
इस
यत्त्विति, एकेति - स्वा ( जात्या) धाराधिकरणवृत्तित्वसंबन्धेन जातिविशिष्टा याऽऽकृतिस्तदवच्छिन्नव्यक्तौ किं वा स्वा ( आकृत्य )धिकरणवृत्ति ( व्यक्ति समवेतत्व संबन्धेनाकृतिविशिष्ट या जातिस्तदवच्छिन्नव्यक्तौ गवादिपदानां शक्तिः, विशेषणभेदेन शक्तिभेदापत्तिर्नास्तिव्यक्तौ द्वयोर्विशेषणत्वाभावादित्यर्थः । परिहरति-तदसदिति । हेतुमाह- विशेष्येति, जातावाकृतेवीssकृतौ जाते विशेषणत्वं स्यादित्यत्र विनिगमकाभावादेक विशिष्टापरावच्छिन्ने शक्तिर्न संभवतीत्यर्थः । किं च गवादिविषयकबोधकाले जात्याकृतिद्वयमेव व्यक्तिविशेषणत्वेन भासते इति मेक्तिविशेषणत्वमेवेत्याह- मवावंशेति ।
यत्रेति – पिष्टकनिर्मितगोव्यक्तिषु गोत्वजातेर स्वीकारादाकृतेश्च सत्त्वाद् गवादिपदानां लक्षणैत्र न शक्तिः शक्तेर्जात्याकृत्युभयविशिष्टव्यक्तावेव स्वीकारादित्यर्थः । प्रकृते दृष्टान्तमाह- शुद्धेति यथा धेनुपस्व-धानकर्मत्वगोत्वोभयविशिष्टव्यक्तौ शक्तिस्वीकारात् केवलगोत्वविशिष्टव्यक्तौ लक्षणैव तथा प्रकृतेपीत्यर्थः ।
जात्याकृतिविशिष्टव्यक्तौ शक्तेरेवये मानमाह - जात्याकृतीति । बहुवचनमुपेक्ष्येत्यस्य "पदार्थाः” इत्यनुक्त्वेत्यर्थः । उक्तसूत्रेण जात्याकृतिव्यक्तिष्वेकपदार्थत्वं तत्पदजन्यैक बोधविषयत्वं प्राप्तं तच्च शक्त्यैक्यं विना न संभवतीति भावः ॥
॥ इति सामान्यकाण्डावशिष्टम् ॥