________________
सामान्यकाण्डावशिष्टम्.] शक्तिवादः ।
(१७३) दिनिष्ठसंसर्गप्रतियोगिकर्मत्वादिनिष्ठसंसर्गप्रतियोगिनिष्ठभेदाप्रतियोगित्वं फलादौ प्रतीयते ।
एकसमानार्थकमात्रादिपदस्थलेप्येतादृशी प्रतीतिरिति कृतं पल्लवितेन ॥
गवादिशब्दात संस्थानरूपाकृतेरपि बोधस्यानुभविकतया गोत्वादिजातिवत् सापि गवादिपदवाच्ये विशेषणम् । तस्याश्च वाच्यविशेषणत्वेपि न प्रवृत्तिनि: मितता- साक्षात्संबन्धेन वाच्यवृत्तित्वाभावातू. अक्यवसंयोगरूपायास्तस्याः
सामानाधिकरण्यसंबन्धेनैव गवादी सत्वात् । अत्र शक्त्या जात्याकृत्योरेकप्युक्तप्रतियोगिभूतफलाद्यप्रसिद्धया सर्वमप्रसिद्ध स्यादितिचिन्त्यम् । अत्र 'स्वसमभिव्याहतपदार्थनिरूपितविभक्त्यर्थवत्त्वेनैकत्वसंख्यावत्वं कवल्यम्' इत्यपि वक्तुं शक्यते भोजननिरूपितद्वितीयार्थकर्मत्ववत्त्वनैकत्वसंख्यावत्वं चात्र फलेऽक्षतमेव, एवम् 'अयमेकेन बाणेन हन्ति' इत्यत्र बाण कर्णत्ववत्त्वेनैकत्ववत्त्वमक्षतमेव । 'एकस्य चैत्रस्य धनम्' इत्यत्र धननिरूपितषष्ठयर्थस्वामित्वसत्त्वे. नैकत्ववत्त्वं चैत्रेऽस्त्येवेति बोध्यम् । ___ एकसमानार्थकमात्रादिपदार्थमाह--एकसमानेति । एतादृशी प्रतीतिः कैवल्यप्रतीतिः । यथा. 'अयं फलमात्रं भुङ्क्ते' 'अत्र चैत्रमानं वर्तते' इत्यादि ।
ग्रन्थकारोक्तदिशा शक्तिज्ञानमत्र 'सजातीयनिष्ठभेदाप्रतियोगित्वविशिष्टविषयकत्वस्वजन्यत्वैतदुभयसम्बन्धेनैकपदविशिष्टो बोधो भवतु' इत्याकारकं पदप्रकारकबोधविशेष्यक विज्ञेयम् । किं का 'उक्तविभत्त्यर्थवत्त्वे सत्येकत्वसंख्यावद्विषयकत्वस्वजन्यत्वैतदुभयसंबन्धेनैकपदविशिष्टो बोधो भवतु' इत्येवं वक्तव्यम् । एवं द्वयादिशब्दानां द्वित्वादिविशिष्टे शक्तिरवगन्तव्यां ॥ इत्येकपदम् ॥
उक्तग्रन्थेन सामान्यशब्दानां विशेषशब्दानां च शक्तिनिरूपणं समाप्य किंचित्सामान्यकाण्डावशिष्टमुपक्रमते- गवादिशब्दादिति । प्रायो निगदव्याख्यातोयं
ग्रन्थः साआकृतिः । गवादिपदवाच्ये गवादिपदवाच्यव्यक्तौ । तस्याः आकृतेः । प्रवृत्तिनिमित्तलक्षणं च सामान्यकाण्डे ४ ० उक्तम् । आकृती वाच्यत्ववाच्योपस्थितिप्रकाररवयोः सत्त्वपि साक्षात्संबन्धेन वाच्यवृत्तित्वं नास्तीत्याह- साक्षादिति । साक्षात्संबन्धः संयोगसमवायादिरूपो विज्ञेयः । "यनि
संसर्गतायां प्रतियोग्यनुयोगिविषयतानिरूपितत्वं स एव साक्षात्संबन्धः" इति हरिनाथमहाचार्यः । आकृतेः साक्षात्संबन्धेन वाच्यवृत्तित्वाभावे हेतुमाह- अवयवेति । तस्याः आकृतेः । यत्रैवाऽवयवेष्वऽवयवसंयोगरूपाकृतिवर्तते तत्रैवाऽवयचेषु व्यक्तिरपि वर्तते इति सामानाधिकरण्य- . संबन्धेनाकृतेर्गवादिव्यक्तिवृत्तित्वं प्राप्तं न तु समवायादिसाक्षात्संबन्धेन, किं वा स्वसमवायिसमवेत खसंबन्धेनाकतेयक्तिवृत्तित्वं विज्ञेयं स्वमाकृतिस्तत्समवायी अवयसमुदायस्तत्र समवेतत्वं व्यक्तावस्तीति तेन संबन्धेनेत्यर्थः । refeपको गवादिपदानालेन शक्तिरित्याइयो गवादिपदेन केवलजातिविशिष्टाया वा केवलाकृतिविशिष्टाया वा व्यक्तेर्भान न भवति किं तूमयविशिष्टाया एवेति हेतोरुभयविशिष्टव्यक्तावेकशक्तिरित्यर्थः । किं च जात्याकृतिलक्षणविशेषणभेदेन