Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
मीमांसकमतखण्डनम्.] शक्तिवादः ।
(१७७) दिकमवच्छेदकं शक्तेस्तथापि शक्तिज्ञानकारणतायां गुरुशरीरगोत्वत्वादेमितावच्छेदकतात्मकविषयतानिवेशागौरखं दुर्वारमेव । व्यक्तिशक्तिवादिना तु स्वरूपत्तो गोत्वादिनिष्ठधर्मितावच्छेदकत्वस्यैव निवेशादितिचेत ? "न-पदविशेषणतापन्नशक्तौ निरूपितत्वसम्बन्धेन शक्तिसम्बन्धेन पदे वा स्वरूपतो गोत्वादिप्रकारिकाया एव शक्तिधियः स्वीकारात्, न हि समवायेनैव जातेः स्वरूपतः प्रकारतेति नियमः प्रामाणिक:-'घटं जानामि' इत्यादौ प्रकारितासम्बन्धेन स्वरूपतो घटत्वादीनां ज्ञानाद्यशे प्रकारत्वोपगमात् । 'समवायेन धर्मिविशेषणतापन्नस्यैव सम्बन्धान्तरेणान्यत्र स्वरूपतो भानम्' इत्यपि न नियमा-प्रामाण्यस्य परतो ग्राह्यतामते 'अयं घटः' इत्याकारकस्य स्वरूपतो घरशक्तिरप्यस्ति गोत्वत्वादिकमध्यस्तीति गोत्वत्वादौ शक्त्यवच्छेदकत्वम् । तथापीति- शक्तिग्राहकमावनिष्ठा या शक्तिज्ञानकारणता तस्यां गोत्वत्वादिनिष्ठधर्मितावच्छेदकतास्मकविषयतानिवेशाद गौरवं स्थादेव नाम शक्तिप्राहकमाने गोत्वत्वादेर्धर्मितावच्छेदकत्वेन प्रवेशाद् गौरवं स्यादेवेत्यर्थः । गोत्वत्वं हि सकलगोवृत्तित्वे सति गवेतरावृत्तित्वरूपमेवेति गुरुशरीरम्-भेदाद्यनेकपदार्थप्रवेशादित्युक्तम्-- गुरुशरीरेति । तार्किकः स्वपक्षे गौरवाभावमाह-व्यक्तिशक्तीति, तर्कमते व्यक्तौ शक्तिसिति स्वरूपत एव गोत्वादौ धर्मितावच्छेदकत्वं लब्धमिति गोत्वत्वादिप्रवेशाभावाद्गौरवं नास्ति, यथा मीमांसकमते स्वरूपत एव गोत्वत्वादी धर्मितावच्छेदकत्वं मया प्रदर्श्यते इत्यर्थः। .:. . ___ अथेत्यादिना शङ्कितं परिहरति-नेति, यदि गोत्वादिजातिविशेष्यकशक्तिज्ञानमुच्येत तदा धर्मितावच्छेदकविधया गोत्वत्वादेः प्रवेशागौरवं स्यादपि नैवमुच्यते किं तु 'स्वनिरूपितत्वसंबन्धेन गोस्वविशिष्टा शक्तिः' इत्येवं निरूपितत्वसंबन्धेन गोत्वप्रकारक शक्तिविशेष्यकं शक्तिज्ञानं स्वीक्रियते किं वा 'स्वनिरूपितशक्तिसम्बन्धेन गोल्वादिविशिष्टं गवादिपदम्' इत्येवं शक्तिसम्बन्धेन गोत्वप्रकारकं पदविशेष्यकं शक्तिज्ञानं स्वीक्रियते. अत्र च गोत्वस्य प्रकारत्यात् प्रकारतायाश्च निरवच्छिन्नाया अपि संभवान्न गोत्वत्वादिप्रवेशाद्वौरव मित्यर्थः । ननु जातेः समवायसम्बन्धेन स्वरूपतः प्रकारत्वं संभवति यथा व्यक्तौ न तूक्तनिरूपितत्वादिसम्बन्धेनापीत्याशक्याह-न होति । उक्ते हेतुमाह-घटमिति, 'घटं जानामि' इत्यत्र घटत्वं यज्ञाने स्वरूपतः प्रकारतया भासते तत् प्रकारितासंबन्धेनैवेति जातेः समवायेनैव स्वरूपतः प्रकारता भवतीति नियमो नास्तीत्यर्थः । ननु समवायेन धर्मिविशेषणतापनस्यैव संबन्धान्तरेणान्यत्र स्वरूपतः प्रकारत्वं भवति तथा च घटत्वं समवायेन घटविशेषगमेवेति तरयोक्तस्थले ज्ञाने प्रकारितासंबन्धेन स्वरूपतः प्रकारत्वं युज्यते न खेवं जातेः शक्तौ पदे वेत्याशङ्कयाह- समवायेनेति । उक्त हेतुमाह-प्रामाण्यस्येति, 'अयं घटः' इत्याकारकस्य स्वरूपतो घटत्वादिज्ञानस्य यः 'घटं जानामि' इत्यनुव्यवसायों भवति तादृशानुव्यवसाये या प्रकारिता तादृशप्रकारितायां नामाऽनुव्यवसायनिष्ठप्रकारितायां स्वनिरूपितत्वसम्बन्धेन तत्संबन्धेन प्रकारितासंबन्वेन ज्ञाने=अनुव्यवसाये वा समवायेन धर्मिवि

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216