Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 186
________________ ( १७८) सादर्श: [ विशेषकाण्टेत्वादिज्ञानस्यानुव्यवसाये प्रकारितायां तत्सम्बन्धेन ज्ञाने वा समवायेन धर्मिविशे. षणतानापन्नस्पैव घटत्वादेर्भानात् । अस्तु वा प्रकृतेपि गवादिविशेषणतापत्नस्यैव गोत्वादेः शक्ती निरूपितत्वसंबन्धेन पदे वा शक्तिसम्बन्धेन स्वरूपतः प्रकारता. गवादेश्च शक्ती पदे वा स्वस: मवेतनिरूपितत्वस्वसमवेतनाचकत्वरूपपरम्परासंबन्धेन प्रकारता. ताशी च गवादिविषयता न शाब्दबोधजनकतावच्छेदिकेति परम्परासम्बन्धन प्रकारताया जनकतावच्छेदकत्वापेक्षया साक्षात्सम्बन्धावच्छिन्नप्रकारतापास्तथावे लाघवेन व्यक्तिशक्तिसिद्धेविकाशः । शेषणताऽनापन्नस्यैव घटत्वादेः स्वरूपतः प्रकारत्वं भवतीति समवायेन धर्मिविशेषणतापन्नस्टवान्यत्र म्वरूपतः प्रकारत्वं भवतीत्ययमपि नियमो नास्तीत्यन्वयः । अयमर्थः- तर्कमते तद्वति तत्प्रकारकत्वमेव प्रामाण्यं तच्चानुव्यवसायेन गृह्यते यदि 'अयं घटः' इत्यत्र घटत्वं घटविशेषणत्वेन भासेत तदा 'अयं घटः' इति ज्ञानस्य घटत्ववति घटत्वप्रकारकत्वमाप्त्या तत्प्रामाण्यस्यानुव्यवसायेन ज्ञानापेक्षा न स्यादिति प्रामाण्यं परतो ग्राह्यं न स्याद् अस्ति च तर्कमते प्रामाण्यं परतःअनुव्यवसायेन ग्राह्यमिति 'अयं घटः' इत्यत्र घटत्वं घटविशेषणत्वेन न भासते तथा च 'घटं जानामि' इत्यनुव्यवसायकाले समवायेन घटविशेषगतानापनमेव घटत्वमनुव्यवसाये प्रकारिता संबन्धेन अनुव्यवसायनिष्ठप्रकारितायां वा स्वनिरूपितत्वतंबन्धेन स्वरूपतः प्रकारो भवति यथा तथा जातेरपि धर्मिविशेषणतानापन्नायाः शक्तौ पदे वोक्तं स्वरूपतः प्रकारत्वं नानुपपन्नमिति । 'समवायेन धर्मिविशेषणापन्नस्यैवान्यत्र संबन्धान्तरेण स्वरूपतः प्रकारत्वं भवति' इति नियममभ्युपगम्यायाह- अस्तु वे'त 1 व्यक्तेरन्धयमाह- गवादेरिति, शक्ती व्यक्तेः स्वसमवेतनिरू. पितत्वसंबन्धेन प्रकारता. स्वं व्यक्तिस्तत्समवेता जातिस्तन्निरूपितत्वं शक्तावस्त्येव, पदे च व्यक्तः स्वसमवेतनाचकरसंबन्येन प्रक रता स्वं व्यक्तिस्तत्समवेता जातिस्तद्वाचकत्वं पदेऽस्त्येवेत्यर्थः । नन्वेवं व्यक्तरवि प्रकारत्वे शक्तिज्ञाने व्यक्ति विषयता= व्यक्तिविषयकता प्राप्ता तथा च यथा शक्तिज्ञानस्य जातिविषय त्वाजातौ शक्तिस्तथा गवादिव्यक्तिविषयकत्वाद् व्यक्तावपि गवादिपदानां शक्तिः किन स्यादिन्याशङ्कयाह- तादृशीति, यद्विषयता शक्तिज्ञाननिष्ठशाब्दबोधजनकताया भवच्छेदिका भवति तत्रैव शक्तिः स्त्रीक्रियते. परम्परासंबन्धेन प्रकारताया जनकतावच्छेदकत्वापेक्षया च साक्षार संबचावच्छिन्नकारतावास्तथात्वे जनकतावच्छेदकरये लाघवं भवति व्यक्तेश्च शक्तौ पदे चोक्तारम्परासंबन्धेनै प्रकारतेति गवादिव्यक्तिविषयता शक्तिज्ञाननिष्ठशाब्दबोधजनकताया अवच्छेदिका न भवतीति न व्यको शक्तिसिद्धरवकाशः, जातेस्तु शक्तौ पदे चोक्ता साक्षात्संबन्धेनैव प्रकारतास्तीति जातिविषयता शक्तिज्ञाननिष्ठशाब्दबोधजनकताया अवच्छेदिका भवतीति जातौ शक्तिः सिद्धा । तादृशी-परम्परासंबन्धावच्छिन्ना । विषयतापदेन चात्र प्रकारताख्यविषयता ग्राह्या तथा च न पूर्वीपरविरोधः ।

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216