________________
( १७८)
सादर्श:
[ विशेषकाण्टेत्वादिज्ञानस्यानुव्यवसाये प्रकारितायां तत्सम्बन्धेन ज्ञाने वा समवायेन धर्मिविशे. षणतानापन्नस्पैव घटत्वादेर्भानात् ।
अस्तु वा प्रकृतेपि गवादिविशेषणतापत्नस्यैव गोत्वादेः शक्ती निरूपितत्वसंबन्धेन पदे वा शक्तिसम्बन्धेन स्वरूपतः प्रकारता. गवादेश्च शक्ती पदे वा स्वस: मवेतनिरूपितत्वस्वसमवेतनाचकत्वरूपपरम्परासंबन्धेन प्रकारता. ताशी च गवादिविषयता न शाब्दबोधजनकतावच्छेदिकेति परम्परासम्बन्धन प्रकारताया जनकतावच्छेदकत्वापेक्षया साक्षात्सम्बन्धावच्छिन्नप्रकारतापास्तथावे लाघवेन व्यक्तिशक्तिसिद्धेविकाशः । शेषणताऽनापन्नस्यैव घटत्वादेः स्वरूपतः प्रकारत्वं भवतीति समवायेन धर्मिविशेषणतापन्नस्टवान्यत्र म्वरूपतः प्रकारत्वं भवतीत्ययमपि नियमो नास्तीत्यन्वयः । अयमर्थः- तर्कमते तद्वति तत्प्रकारकत्वमेव प्रामाण्यं तच्चानुव्यवसायेन गृह्यते यदि 'अयं घटः' इत्यत्र घटत्वं घटविशेषणत्वेन भासेत तदा 'अयं घटः' इति ज्ञानस्य घटत्ववति घटत्वप्रकारकत्वमाप्त्या तत्प्रामाण्यस्यानुव्यवसायेन ज्ञानापेक्षा न स्यादिति प्रामाण्यं परतो ग्राह्यं न स्याद् अस्ति च तर्कमते प्रामाण्यं परतःअनुव्यवसायेन ग्राह्यमिति 'अयं घटः' इत्यत्र घटत्वं घटविशेषणत्वेन न भासते तथा च 'घटं जानामि' इत्यनुव्यवसायकाले समवायेन घटविशेषगतानापनमेव घटत्वमनुव्यवसाये प्रकारिता संबन्धेन अनुव्यवसायनिष्ठप्रकारितायां वा स्वनिरूपितत्वतंबन्धेन स्वरूपतः प्रकारो भवति यथा तथा जातेरपि धर्मिविशेषणतानापन्नायाः शक्तौ पदे वोक्तं स्वरूपतः प्रकारत्वं नानुपपन्नमिति ।
'समवायेन धर्मिविशेषणापन्नस्यैवान्यत्र संबन्धान्तरेण स्वरूपतः प्रकारत्वं भवति' इति नियममभ्युपगम्यायाह- अस्तु वे'त 1 व्यक्तेरन्धयमाह- गवादेरिति, शक्ती व्यक्तेः स्वसमवेतनिरू. पितत्वसंबन्धेन प्रकारता. स्वं व्यक्तिस्तत्समवेता जातिस्तन्निरूपितत्वं शक्तावस्त्येव, पदे च व्यक्तः स्वसमवेतनाचकरसंबन्येन प्रक रता स्वं व्यक्तिस्तत्समवेता जातिस्तद्वाचकत्वं पदेऽस्त्येवेत्यर्थः । नन्वेवं व्यक्तरवि प्रकारत्वे शक्तिज्ञाने व्यक्ति विषयता= व्यक्तिविषयकता प्राप्ता तथा च यथा शक्तिज्ञानस्य जातिविषय त्वाजातौ शक्तिस्तथा गवादिव्यक्तिविषयकत्वाद् व्यक्तावपि गवादिपदानां शक्तिः किन स्यादिन्याशङ्कयाह- तादृशीति, यद्विषयता शक्तिज्ञाननिष्ठशाब्दबोधजनकताया भवच्छेदिका भवति तत्रैव शक्तिः स्त्रीक्रियते. परम्परासंबन्धेन प्रकारताया जनकतावच्छेदकत्वापेक्षया च साक्षार संबचावच्छिन्नकारतावास्तथात्वे जनकतावच्छेदकरये लाघवं भवति व्यक्तेश्च शक्तौ पदे चोक्तारम्परासंबन्धेनै प्रकारतेति गवादिव्यक्तिविषयता शक्तिज्ञाननिष्ठशाब्दबोधजनकताया अवच्छेदिका न भवतीति न व्यको शक्तिसिद्धरवकाशः, जातेस्तु शक्तौ पदे चोक्ता साक्षात्संबन्धेनैव प्रकारतास्तीति जातिविषयता शक्तिज्ञाननिष्ठशाब्दबोधजनकताया अवच्छेदिका भवतीति जातौ शक्तिः सिद्धा । तादृशी-परम्परासंबन्धावच्छिन्ना । विषयतापदेन चात्र प्रकारताख्यविषयता ग्राह्या तथा च न पूर्वीपरविरोधः ।