________________
मीमांसकमतखण्डनम्. ] शक्तिवादः।
( १७९) अथ जातिशक्तिमतेपि शाब्दबोधे व्यक्तिभानमावश्यकम्- - गौनष्टा' * गौर्जाता ' 'गामानय ' इत्यादौ समभिव्याहृतपदार्थान्वयस्य जातौ बाधात् , परम्परासंबन्धेन तदन्वयोपगमेप्यन्वयितावच्छेदकतया गोत्वत्वादिभानापत्तेः शक्ती गोत्वत्वाधन्तर्भावापत्तेश्च । न हि स्वरूपेण पदार्थस्य पदार्थान्तरान्वयितया भानं कैश्चित् स्वीक्रियते. स्वीकुरु वा प्रकारतया स्वरूपेणोपस्थितजातेर्भानं विशेष्यतया तद्भानं तु न संभवत्येव. निमितावच्छेदककस्य शाब्दबोधस्य प्रवृत्त्यायनुपयोगितया तत्स्वीकाराऽसंभवात् ।
एवं च जातिमात्रवाचकत्वेनाभ्युपगतपदस्यापि व्यक्तिबोधजनकतायामप्यविवादाद् व्यक्तिशक्तिधुंवैव- शक्तिभ्रमाजन्यलक्षणामहाजन्यतद्रोधजनकताया एव तच्छक्तिसाधकत्वात् , अन्यथा जातावपि शक्त्यऽसिद्धिप्रसङ्गात् । एवं शत्तरीश्वरसंकेतरूपत्वे व्यक्तिबोधकतायाः पदेऽबाधितत्वेनेश्वरेच्छाविषयतया तस्या अपि शक्यत्वं दुरपन्हवम् । न हि मीमांसकैर्भगवान्नानुमन्यते इत्येतावतैव तादृशयुक्त्य
तार्किकः पुनः शङ्कते-अति । व्यक्तिमानावश्यकत्वे हेतुमाह-गौरिति । समभिव्याहृतपदार्थान्वयस्य-नाशाद्यन्त्रयस्य । जातेनित्यत्वेन तन्नाशस्य तदुत्पत्तेश्चासंभवः, निरवयवत्वेन तदानयनस्थासंभवः । व्यक्तेस्तु नाशादयः संभवन्तीत्यर्थः । ननु जातावपि स्वाश्रयसमवेतत्वादिपरम्परासंबन्धन नाशादेरन्वयः संभवतीति न नाशाद्यन्वयार्थ व्यक्तिभानापेक्षेत्याशङ्कयाह--परम्परेति, अत्र स्वमानयनादिस्तदाश्रयो व्यक्तिस्तत्र समवेतत्वं जातावस्त्येव । एवं परम्परासंबन्धेन जातो नाशाद्यन्व्योपगमेप्यन्वयितावच्छेदकतया गोत्वत्वादेः शाब्दबोधे भानापत्तिः स्यादिति शक्तावपि गोत्यस्वादेरन्तर्भावश्च स्यादिति पूर्वप्रदर्शितगौरवं स्यादेवेत्यर्थः । विपक्ष बाधकमाह- न हीति । तद्भानम् स्वरूपतो जातिमानम् । विशेष्यतया माने विशेष्यतावच्छेदकतया गोत्यत्वादेर्भानावश्यकत्वात् . धनवच्छिन्नविशेष्यताया अस्वीकारात् . प्रकारतायास्त्वनवच्छिन्नाया अपि स्वीकारादितिभावः । जातेः स्वरूपतो विशेष्यतया भानस्वीकारे दोपमाह- निर्धर्भितेति । तत्स्वीकारासंभवातु-स्वरूपतो जातिविशेष्यकशाब्दबोधस्य स्वीकारासंभवात् । ___ ताकि उपसंहरति-एवं चेति । व्यक्तिशक्तिवादे विनिगमनामाह- शक्तिअमेति, यस्मात् पदाच्छक्तिभ्रमेण वा लक्षगाग्रहेण वा यस्य बोधो जायते तस्य पदस्य तस्मिन् पदार्थे शक्तिर्न भवति यथा गगर्यादिपदानां घटत्वावच्छिन्ने गङ्गादिपदानां च तीरादौ तथा च शक्तिभ्रमाजन्यो लक्षणाग्रहाजन्यश्च यस्तद्बोधः पदे या तादृशबोधजनकता तादृशजनकतैव तस्य पदस्य तस्मिन् पदार्थे शक्तेः साधिका भवति यथा जातो. व्यक्तिविषयकबोधोपि शक्तिश्रमाजन्यो रक्षणामहाजन्यश्चेति तादशव्यक्तिबोधजनकत्वादेव पदस्य व्यक्तौ शक्तिः सिद्धेत्यर्थः । विपक्षे बाधकमाह- अन्यथेति । उपपत्त्यन्तरमाह- एवमिति । तस्याः व्यक्तेः । ननु यदि मीमांसकरीश्वरः स्वीनियेत तदा शक्तरीश्वरसंकेतरूपत्वं स्यादपि न चैवमस्तीत्याशङ्कयाह-न हीति । तादृशयुक्तयनवकाश: