________________
( १८०)
सादर्शः
[विशेषकाण्डेऽनवकाशः- तत्साधकबहुतरमानसत्त्वेन तदुपन्यासस्यापि निरुत्तरत्वापातात् । एवं ज्ञाने पदानां शक्तिरित्येतादृशमतेपि व्यक्तिज्ञानजननसमर्थपदस्य जाताविव व्यक्तावपि वाच्यत्वं दुरपन्हवमेव-शक्तिनिरूपकज्ञानविषयत्वरूपस्य तस्याविशेषण जातिव्यत्तयोःसत्त्वादितिचेत् ? , .
न-व्यक्तिशक्तावऽस्माकं न वैमत्यमपि तु व्यक्तिशक्तिज्ञानत्वेन शक्तिज्ञानहेतु. तायामेव. अत एव व्यत्तयंशे कुब्जा शक्तिरितिगीयते- तदंशे तज्ज्ञानानपेक्षणात् . अत एव व्यक्तेन वाच्यता न हि शक्तिधीविषयतामात्रेणैव वाच्यता-तादृशविषयताया अन्वयसाधारण्यात् . अपि तु यविषयकत्वेन शक्तिज्ञानस्य तद्विषयकशाब्दधीजनकत्वं तत्त्वमेव तद्वाच्यताव्यवहारनियामकम् । अन्वयांशे कुब्जशक्तिसवेपि यथा तद्विषयकत्वं शक्तिज्ञानजनकतायां नावच्छेदकं तथा व्यत्तयंशे तत्सत्वेपि तद्विषयकत्वस्य शक्तिज्ञानजनकतायामनवच्छेदकत्वान्न व्यक्तौ तदूव्यवहारः। ईश्वरसाधकयुक्त्यनवकाशः । तत्साधक ईश्वरसाधक । तदुपन्यासस्य ईश्वरसाधकयुक्तिप्रमाणोपन्यासस्य । ज्ञानशक्तिवादिमतेपि व्यक्तेर्वाच्यत्वमावश्यकमित्याह- एवमिति, तस्थ वाच्यत्वस्य । ज्ञानशक्तिवादिमते शक्तिनिरूपकं ज्ञानं तद्विषयत्वमेव वाच्यत्वमस्ति यथा जातो तच व्यक्तावप्यस्त्येवेत्यर्थः ।
अधेत्यादिना शङ्कितं मीमांसकः परिहरति-नेति, व्यक्ती पदस्य शक्तिररत्येव यद्यपि तथापि शक्तिज्ञानस्य शाब्दबोधं प्रति व्यक्तिनिरूपितशक्तिज्ञानत्वेन कारणत्वं नास्तीति व्यक्तिनिरूपिता शक्तिः स्वरूपसत्येवोपयुज्यते न तु ज्ञाता सती जातिनिरूपिता शक्तिश्च ज्ञाता सत्युपयुज्यते इति शक्तिज्ञानस्य शाब्दबोधं प्रति जातिनिरूपितशक्तिज्ञानत्वेन कारणत्वमस्तीत्ययमेव जातिव्यक्त्योः शक्तेविवेकः । अत एव शक्तिज्ञानस्य शाब्दबोधं प्रति व्यक्तिशक्तिज्ञानत्वेन रूपेण कारणत्वाभावादेव । व्यक्तिशक्तः कुल्जत्वे हेतुमाह- तदंशे इति. तदंशे व्यत्यशे तज्ज्ञानानपेक्षणात्= शक्तिज्ञानापेक्षाभावात्. शाब्दबोधं प्रति व्यक्तिनिरूपितशक्तिज्ञानस्यापेक्षाभावादित्यर्थः । अत एव-व्यक्तिनिरूपित शक्तिज्ञानस्यापेक्षाभावादेव । स्वाभिप्रायमाह-- न हीति । तादृशविघयतायाः शक्तिज्ञानविषयतायाः । यदि शक्तिज्ञानविषयतामात्रेण वाच्यत्वं स्यात्तदा समवायसंबन्धावच्छिजाया एव जातेः शक्तिज्ञानविषयत्वेन समवायस्यापि शक्तिज्ञानविषयत्वाद् गवादिपदवाच्यत्वं स्याद् न चैवमस्तीति न शक्तिज्ञानविषयत्वेन व्यक्तेर्वाच्यत्वापत्तिरित्यर्थः । अन्वयसाधारण्यात् = समवायादिसंबन्धसाधारणत्वात् । वाच्यत्वनियामकमाह- अपि विति, यथा जातिविश्यकत्वेन शक्तिज्ञानस्य जातिविषयरुशाब्दबोधजनकत्वमस्तीति जातेर्वाच्यत्वमित्यन्वयः । उपसंहरतिअन्वयांशेति, यथा समवायादिसंबन्धे कुञ्जशक्तिसत्त्वेपि तद्विषयकत्वम् समवायादिविषयकत्वं शक्तिज्ञाननिष्ठशाब्दबोधजनकताया अवच्छेदकं न भवतीति न समवायादौ गवादिपदवाच्यत्वव्यव हमरस्तया व्यक्ती तत्सत्त्वेषि-कुब्जशक्तिसत्त्वेपि तद्विषयकत्वस्य व्यक्तिविषयकत्वस्य शक्तिज्ञाननि