________________
मीमांसकमतम्.] शक्तिवादः।
(१८१) तद्विषयकत्वस्य शान्दधीविशेषणत्वाद्वादिपदशक्तिज्ञानस्य गोत्वादिज्ञानविषयकस्वेन गोत्वादिशाब्दधीहेतुत्वेपि न गवादिपदस्य गोत्वादिज्ञानवाचकत्वापत्तिः।
वस्तुतो यविषयकत्वविशिष्टज्ञानविषयकत्वेन शक्तिज्ञानस्य शाब्दधीजनकता यद्विषयकत्वेन वा शान्दधियः शक्तिज्ञानजन्यता तत्त्वमेव तथा । एतेन 'ज्ञानत्वशाब्दबोधजनकतावच्छेदकत्वाभावान व्यक्ती तव्यवहार: गवादिपदवाच्यत्वव्यवहार इत्यन्ययः । व्यक्तिनिरूपितशक्तिविषयकज्ञानापेक्षाभावान व्यक्तेर्वाच्यत्वमित्यर्थः । शक्तिज्ञाने शाब्द. बोधजनकताप्यस्ति जातिविषयकत्वमप्यस्तीति जातिविषयकत्वं शक्तिज्ञाननिष्ठजनकताया अवच्छेदकं जातमिति जातेर्वाच्यत्वं प्राप्तम् । यदि " यद्विषयकत्वेन शक्तिज्ञानस्य तद्विषयकशाब्दधीज. नकत्वम् " इति वाच्यत्वलक्षणे तद्विषयकत्वं शक्तिज्ञानविशेषणं स्यात्तदा शक्तिज्ञाने स्वजन्यगोस्वादिज्ञानविषयकत्वस्थापि सत्त्वाद् गोत्वादिज्ञानस्यापि गवादिपदवाच्यत्वं स्याद् न चैतदिष्टमिति न तद्विषयकत्वं शक्तिज्ञान विशेषणं किं तु शक्तिज्ञानजन्यशाब्दबोधविशेषण तथा च गोत्वादिशक्तिज्ञानेन गोत्वादिविषयकशाब्दबोधो जन्यते न तु गोत्वादिविषयकज्ञानविषयकशाब्दबोध इति न गोत्वादिज्ञानस्य गवादिपदवाच्यतापत्तिन वा गवादिपदस्य गोत्वादिज्ञानवाचकत्वापत्तिारस्याह-तद्विषयकत्वस्येति । ___ ननूक्तवाच्यत्वलक्षणेन ज्ञानत्वविषयकज्ञानस्यापि ज्ञानपदवाध्यत्वं स्यात् तथा हि ज्ञानशक्तिवादे जातिविषयकज्ञानस्य शक्यत्वं शक्तिज्ञानविषयत्वं च प्राप्तमिति ज्ञानपदस्थले शक्यं यज्ञानत्वज्ञानं तद्विषयकत्वेनैव ज्ञानपदशक्तिज्ञानस्य शाब्दबोधजनकत्वे प्राप्ते "तद्विषयकशान्दधीजनकत्वम्" इत्यत्र तत्पदेन ज्ञानत्वज्ञानस्यापि ग्रहीतुं शक्यत्वात् ज्ञानविषयकशाब्दबोधजनकत्वपक्षे च ज्ञानत्वज्ञानस्यापि सामान्यतो ज्ञानत्वाज् ज्ञानत्वज्ञानस्यापि ज्ञानपदवाच्यत्वं स्यादेव हारनाथेनाप्युक्तम् "ज्ञानविषयकशान्दत्वावच्छिन्नं प्रति ज्ञानपदशक्तिज्ञानत्वेन कारणतया ज्ञानत्वज्ञानस्य च सामान्यतो ज्ञानविषयकत्वेन तद्विषयकशाब्दधीजनकत्वमित्यत्र तत्पदेन ज्ञानत्वज्ञानस्यापि धर्तु सक्यत्वात्" इति. आपत्तिश्चैषा गवादिपदस्थलेपि विज्ञेया-शक्यगोत्वादिज्ञानविषयकत्वेन गवादिपदशक्तिज्ञानस्य शाब्दधीजनकत्व प्राप्त्या वाच्यत्वलक्षणघटकयत्तत्पदयोः समानार्थकत्वाचेत्याशङ्कयाह-वस्तुत इति । यदिति-यथा ज्ञानशक्तिवादे गोत्वादिविषयकत्वविशिष्टं यद्गोत्वादिविषयक शक्यं ज्ञानं तादृशज्ञानविषयकत्वेनैव गवादिपदशक्तिज्ञानस्य शान्दबोधजनकत्वमस्तीति तत्त्वमेव तथा वाच्यताव्यवहारनियामक इति गोत्वादेरेव गवादिपदवाच्यत्वं प्राप्तं न तु गोत्वादिज्ञानस्यापीत्यन्वयः, शक्तिज्ञानविषयीभूतं यज्ज्ञानं तादृशज्ञानविषयस्य वाच्यत्वमितियावत् तादृशज्ञानविषयत्वं च गोत्वादेरेव न तु गोत्वादिज्ञानस्यापि येन तस्य वाच्यत्वं स्यादित्यर्थः । लक्षणान्तरमाह-यद्विषयकत्वेनेति-गवादिपदस्थले शाब्दबोधस्य गोत्वादिविषयकत्वेनैव शक्तिज्ञानजन्यतास्ति न तु गोत्वादिज्ञानविषयकस्वेनापीति गोस्वादेरेव गवादिपदवाध्यत्वं प्राप्तं न तु गोत्वादिज्ञान• स्यापि । एवमेव ज्ञानपदस्थलेपि ज्ञानत्वज्ञान विषयकत्वेन शक्तिज्ञानस्य शाब्दधीजनकत्वात् 'शाब्द