________________
(१८२)
सादर्श:-
[विशेषकाण्डे-- ज्ञानस्यापि ज्ञानपदवाच्यतापत्तिः- शक्यज्ञानविषयकत्वेनैव ज्ञानपदशक्तिज्ञानस्य ज्ञानत्वज्ञानविषयकशाब्दधीजनकत्वात्' इति परास्तम् । कारणत्वस्य कार्यत्वस्य चावच्छेदकगर्भ गोत्वादिविषयकत्वस्य निवेशागोत्वादेर्वाच्यतोपपत्तिः । एवं च 'गोर्गोपदशक्या' इत्याकारिकापि शाब्दबोधोपयोगिशक्तिधीः सम्भवति-व्यत्तयंशे शक्तेरवाधेनाऽन्यथाख्यात्यापत्तिविरहात । तादृशज्ञानस्य शाब्दधीहेतुत्वेपि गोत्वधर्मितावच्छेदककशक्तिज्ञानत्वेन व्यक्तिविषयतामनन्तर्भाव्यैव गोत्वप्रकारकशाब्दबुद्धौ तथात्वात्, उक्तरीत्या व्यक्तेरवाच्यतोपपत्तिः।
न चैवं व्यक्तयंशे शक्तिज्ञानस्यापेक्षिततया तदंशे शक्तः कुजत्वानुपपत्तिरिति वाच्यम् , कार्यकारणभावाऽवच्छेदककोटौ व्यक्त्यनन्तर्भावस्यैव तदंशे कुब्जत्वव्यधियश्च ज्ञानस्वविषयकत्वेन शक्तिज्ञानजन्यवाद् यत्पदाभ्यां ज्ञानत्वस्य ग्रहणाज्ञानत्वस्यैव ज्ञानपदवाच्यत्वं प्राप्तं न तु ज्ञानत्वज्ञानस्यापीत्याह-एतेनेति । गोत्यादौ वाच्यत्वस्य समन्वयमाह-कारणत्वस्येति, कारणं शक्तिज्ञानं तदवच्छेदकं यद्विषयकत्वविशिष्टज्ञानविषयकत्वं तद्-तत्र तथा कार्य शाब्दबोधस्तदवच्छेदकं यद्विषयकत्यं तद्गर्भे तत्र गोत्वादिविषयकत्वस्य निवेशाद् नाम लक्षणद्वयेपि यत्पदेन गोत्वादिजातेम्रहणाद्गोत्वादेर्वाच्यत्वमुपपन्न मिल्यन्वयः । एवं च=व्यक्तावपि कुब्जशक्तिसवेन 'गोर्गोपदशक्या' इत्याकारकशक्तिज्ञानस्यापि शाब्दबोधजनकत्वं संभवतीत्याह-एवं चेति । ननु मवादिव्यक्ती तव मते शक्तरसत्त्वेन शक्यत्वाभावाच्छक्यत्वाभाववत्या व्यक्ती शक्यत्वावगाहिनः 'गोर्गोपदशक्या' इत्याकारकज्ञानस्याऽन्यथाख्यातित्वं स्यात् तेन चाऽग्रामाण्यं स्यादित्याशङ्क्योक्ते हेतुमाह-व्यक्त्यंशे इति, व्यक्तावपि कुब्जशक्तिसत्त्येनोक्तशक्तिज्ञानस्याऽन्यथाख्या. तित्वापत्तिर्नास्ति येनाप्रामाण्यं स्यादित्यर्थः । अत्र 'अन्यथाख्यातित्वापत्तिविरहात्' इति युक्तः पाठः । अन्यथा अन्यगतधर्मपुरस्कारेण ख्यातिः प्रतीतिरित्यर्थः । ननु 'गोर्गोपदशक्या' इत्याकारकशक्तिज्ञानस्य व्यक्तिविशेष्यकावेन तजन्यशान्दबोधस्यापि व्यक्तिविशेष्यकत्वापत्त्या व्यक्तरपि वा पत्वं प्राप्तमिति कथं व्यक्तेरवाच्यत्वमुच्यते ? इत्याशङ्याह-तादृशज्ञानस्येति, तादृशज्ञानस्य='गोर्गोपदशक्या' इत्याकारकशक्तिज्ञानस्य यद्यपि शाब्दबोधहेतुत्वमस्ति तथापि गोलर्मितावच्छेदककशक्तिज्ञानत्वेन रूपेण व्यक्तिविषयतामनन्तर्भाव्यैव गोत्वप्रकारकशाब्दबोधे हेतुत्वमस्तीत्युक्तरीत्या व्यक्तेरवाच्यत्वमुपपन्नम् । यदि व्यक्तिविषयताया उक्तशक्तिज्ञानेऽन्तर्भावः स्यात्तदा व्यक्तेर्वाच्यत्वं स्यादपि न चैत्रमस्तीत्यर्थः । तथात्वात-हेतुत्वात् । उक्ता रीरि.श्च किंचित्पूर्वग्रन्थे द्रष्टव्या । जातिविषयतायाश्चान्तर्भावाजातेर्वाच्यत्वमप्युपपन्न मिति ।।
ननु ' गोर्गोपदशक्या ' इत्याकारकशक्तिज्ञानस्यापि शाब्दबोधहेतुत्वे शाब्दबोधं प्रति व्यक्तिविषयकशक्तिज्ञानस्याध्यमेक्षितत्वापत्त्या तदंशे व्यक्ती शक्तेः कुन्जत्वं न स्याद्- व्यक्तिविषयकशक्तिज्ञानम्याऽनपेक्षितत्वेनैव पूर्व व्यक्तिशक्तेः कुब्जत्वप्रतिपादनादित्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह- कार्येति, कार्य शाब्दबोधस्तदवच्छेदकं यद् यद्विषयकत्वं तत्र कारणं शक्तिज्ञानं