________________
मीमांसकमतम्.] शक्तिवादः।
(१८३ वहारनिर्वाहकत्वात्, अत एव सामान्यलक्षणापूर्वपक्षे मणिकृतां समानप्रकारकत्वेन शक्तिज्ञानशाब्दबोधयोहे तुहेतुमदभावाभिधानमपि न विरुद्धयते ।
न च शक्तशे गोत्वादिप्रकारकज्ञानस्य गवांशे गोत्वप्रकारकशाब्दबोधहेतुत्वेपि कार्यकारणयोः समानप्रकारकत्वस्याऽशतत्वानानुभवविरोध इतिवाच्यम्, श. तयेशं गोत्वादिमकारतामादाय समान प्रकारकत्वस्याभिप्रेतत्वे " अपूर्व वक्ष्यते" इत्यस्याऽसंगत्यापतेः- अपूर्ववादे समानप्रकारकात् लिङ्पदस्य कार्यत्वेन घटादिरूपकार्ये शक्तिज्ञानात् , कार्यत्वेनाऽपूर्वविषयकशाब्दबोधः । इत्येवाऽभिधानात, शक्त्यंशे शाब्दधीप्रकारप्रकारकज्ञानस्य हेतुतायास्तत्राऽनुक्तेः। तदवच्छेदकं यद् यविषयकत्वविशिज्ञानविषयकत्वं तत्र च व्यक्तेः प्रवेशाभावादेव तदंशे व्यक्ती शक्तेः कुम्भत्वमित्यर्थः, एतच्चानुपदमेव प्रतिपादितम् । भत एव= गौर्गोपदशक्या' इत्याकारकशक्तिज्ञानस्वी कारेपि गोत्यादिप्रकारकशाब्दबोधत्वेन गोत्वादिप्रकारकशक्तिज्ञानत्वेन च कार्यकारणभावस्वीकारेण कार्यकारणभावावच्छेदककोटौ व्यक्तिविषयकत्वस्थानन्तर्भावादेव मणिकारोक्तः शाब्दबोधशक्ति ज्ञानयोः समानप्रकारकत्वेन कार्यकारणभावोऽस्माकं मतेन न विरुद्धयते इत्यन्वयः । गोवादिप्रकारकं शक्ति ज्ञानं गोवादिप्रकारक एव तेन शाब्दबोधश्च जायते न तत्र व्यक्तेरन्त
र्भाव इत्यर्थः । ___ ननु शक्तिविषयकगोत्वादिप्रकारकज्ञानस्य व्यक्तिविषयकगोत्यादिप्रकारकशाब्दबोधं प्रति हेतुस्वेषि कार्यकारणयोःशाब्दबोधशक्तिज्ञानयोः समानप्रकारकत्वमक्षतमेवेति तर्कमतानुसारेण व्य. के: शाब्दबोधशक्तिज्ञानविषयस्वेपि मणिकारस्य शान्दबोधशक्तिज्ञानयोः समानप्रकारकत्वाभिधान न विरुद्धचते इत्याशङ्कयाह-न चति । परिहारहेतुमाह-"शक्त्यंश इति, व्यक्तिविशेष्यकगोत्वादिजातिप्रकारकयो: शक्तिशानशाब्दबोधयोर्यत त्वदभिप्रेतं गोत्वादिना समानप्रकारकत्वं तादृशपमानप्रकारकत्वस्य मगिकाराभिप्रेतत्वे मणिकारोक्तस्य " अपूर्वे वक्ष्यते " इत्यस्यासंगतिः स्मादित्यर्थः । अपूर्वे अलक्ष गाऽपूर्वपदार्थप्रतिपादनावप्तरे। मणिकारेणापूर्वप्रन्थे यदुक्तं त. दाह- समानप्रकारकादिति, लिङ्पदस्य कार्यत्वेन रूपेग घटादिरूपकार्ये कार्यत्वप्रकारकं यच्छक्तिज्ञानं जायते तादृशशक्तिज्ञानात् कार्यत्वेन रूपेगाऽदृष्ट लक्षगापूर्वपदार्थविषयकशाब्दबोधो लिङ् पदेन " ज्योतिष्टोमेन स्वर्गकामो यजेत " इत्यादिस्यले जायते इत्यर्थः । अपूर्ववादोक्तैता. न्येन ' कार्यत्वेन शक्तिज्ञानात् कार्यत्वेनापूर्वविषयकशाब्दबोधः' इत्येव लभ्यते न तु शाब्दबोधे व्यक्तिपकारतया भासमानं यद् गोस्वादिकं तादृशगोत्वादिप्रकारकं यद् व्यक्तिविशेष्यकं शक्तिवि षयकज्ञानं तादृशशक्तिज्ञानस्य शाब्दबोधं प्रति हेतुत्वमिति लभ्यते येन मणिकारोक्तं शक्तिज्ञानशाब्दबोधयोः समानप्रकारकत्वं त्वदनुकूलं स्यादित्याह- शत्यंशे इति । मीमांसकमते च शक्तिज्ञाने शक्ती पदे वा गोत्वादिकं प्रकारता भासते इति शक्तिज्ञानं गोवादिप्रकारकं जायते शाब्दबोधे चाक्षिप्यमाणव्यक्तिप्रकारतया गोत्रादिकं भासते इति शाब्दबोधोपि गोत्वादिप्रका