________________
"( १८४)
सादर्श:
[विशेषकाण्डे- न चैवम् ‘जात्यंशे सा ज्ञाता व्यक्तयशे च स्वरूपसती हेतुर्लाघवादिति कुब्ज. शक्तिवादः' इत्यादिचिन्तामणिग्रन्थविरोध इति वाच्यम्, मतभेदेनोभयग्रन्थसंगतः।
वस्तुतस्तु जातिमितावच्छेदककशक्तिज्ञानस्य हेतुत्वे व्यक्तेविषयतापि कारणतावच्छेदककोटौ निविशते- विशेष्यतावच्छेदकतात्वेनैव धर्मितावच्छेदकीयविषयताविशेषस्य निवेशनीयत्वात्. अवच्छेदकतानिरूपकविशेष्यताया व्यक्तिविषयतारूपत्वात् , एवं च व्यक्तेरवाच्यताव्यवहारस्य कथं चिदुपपादनेपि शत्यंशे जातिप्रकारकज्ञानहेतुतामतापेक्षा गौरवं दुरिमेव- कारणतावच्छेदकेधिकविषयतानिवेशात् । रको जायते इत्येवं रूपेण शक्ति ज्ञानशाब्दबोधयोः समानप्रकारकत्वं विज्ञेयम् । मणि कारेण चाsपूर्ववादेषि व्यक्तिविशेश्यकजातिप्रकारकशक्तिज्ञानस्य कारणत्वं नोक्तमिति न व्यक्तेर्वाच्यत्वम् । भपूर्वपदार्थस्याऽप्रत्यक्षत्वेन तत्र लिङादिपदस्य शक्तिज्ञानं न संभवति घटादिकमपि कार्यमेवेति तत्र लिङादिपदस्य कार्यत्वेन रूपेण शक्तिज्ञानं संभवतीति घटादिरूपकार्ये शक्तिज्ञानमुक्तम् । वस्तुतस्तु क्रियारूकार्ये लिङादिपदस्थ कार्यत्वेन शक्तिज्ञानं तेन च कार्यत्वेनापूर्वविषयकशाब्दबोध इति वक्तव्यम् ।
ननु ययुक्तरीत्या कार्यकारणभावावच्छेदककोटौ व्यक्तिविषयकत्वस्यानन्तर्भावादेव व्यक्ती कुब्जा शक्तिस्तदा मणिकारेण “जात्यंशे सा (शक्तिः ज्ञाता व्यक्तयंशे च स्वरूपसती हेतुलाघवादिति कुब्जशक्तिवादः" इति यदुक्तं तेन विरोध इत्याशङ्कयाह- न चैवमिति । परिहारहेतु. माह- मतभेदेनेति, कुजशक्तिवादिनामनेकानि मतानि सन्ति तत्र केन चिन्मतेन मया कार्यकारणभावावच्छेदककोटौ व्यक्ति विषयकत्वस्यानन्तर्भावाद् व्यक्ती शक्तेः कुजत्वमुक्तम्, केन चिन्मतेन च मणिकारेण व्यक्ती स्वरूपसतीत्वेन शक्तेः कुल्ज़त्वमुक्तमित्युभयसंगतिः ।
कुजशक्तिवादिनां मतेपि जातिप्रकारकशक्तिज्ञानस्य शाब्दबोधहेतुत्वमतापेक्षया जातिधर्मितावच्छेदककशक्तिज्ञानस्य हेतुरवे गौरवं प्रदर्शयति- वस्तुत इति, जातिधर्मितावच्छेदकं यत्र शक्तिज्ञाने तजातिधर्मितावच्छेदकक शक्तिशानं तस्य शाब्दबोधं प्रति हेतुत्ये व्यक्तिविषयता व्यक्तिविषयकत्वमपि कारणतावच्छेदककोटौ. शक्तिज्ञानावच्छेदककोटौ निविशते एव यतः शक्तिज्ञाने धर्मितावच्छेदकीयविषयता- जातिनिष्ठा या धर्मितावच्छेदकता तद्विषयकत्वस्यविशेष्यतावच्छेदकतात्वेनैव रूपेण निवेशः कर्तव्यः-धर्मितावच्छेदकस्य विशेष्यतावच्छेदकरूपत्वात् . जातिनिष्ठा च या विशेष्यतावच्छेदकता तन्निरूपिका या विशेष्यता सा व्यक्तिविषयतारूपैव वक्तव्या तथा च व्यक्तिविषयकत्वमपि शक्तिज्ञाने प्रविष्टमेवेति व्यक्तिविषयकल्वमपि शक्तिज्ञाननिष्ठकारणताया भवच्छदकं जातमेवेत्यर्थः । उपसंहरति- एवं चेति । कथं चित्= “ यद्विषयकत्वविशिष्टज्ञानविषय. कत्वेन शक्तिज्ञानस्य शान्दधीजनकता" इत्याद्युक्तपकारेण । गौरवे हेतुमाह- कारणतेति, शक्ति