________________
मीमांसकमतम्.] शक्तिवादः।
(१८५) ... एवं द्रव्यत्वादिधर्मितावच्छेदककप्रमात्मकगवादिपदशक्तिज्ञानाद् द्रव्यत्वादिप्रकारकशाब्दबोधवारणाय शक्त्यंशेधर्मितावच्छेदकावच्छिन्नत्वावगाहित्वस्याप्यधिकस्य निवेशनीयतया गौरवमिति व्यक्ती कुब्जशक्तिवादिनामपि शत्यंशे जातिप्रकारकज्ञानहेतुतामतमेव साधीयः ।
वस्तुतस्तु सर्वलाक्षणिकस्थलेप्यन्वयबोधस्याऽऽनुभविकत्वेन दुरपन्हवतया लाक्षणिकस्याऽनुभावकत्वं दुरिमेवेति तस्य लक्ष्याथै कुब्जशक्तिप्रसङ्ग इति ज्ञाननिष्ठकारणतावच्छेदके व्यक्तिविषयकत्वस्याधिकस्य प्रदर्शितरीत्या निवेशाद् माम जातिविषकत्ववद् व्यक्तिविषयकत्वस्याप्यधिकस्य कारणतावच्छेदकत्वप्रात्या गौरवमित्यर्थः । जातिप्रकारकशक्तिज्ञानस्य च हेतुत्वे तु जातेधर्मितावच्छेदकत्वेन शक्तिज्ञाने प्रवेशाभावाद् व्यक्तिविषयकत्वस्य रवेशापत्तिर्नास्तीति लाधवमित्यवधेयम् ।।
जातिधर्मितावच्छेदककशक्तिज्ञानस्य शाब्दबोधहेतुत्वे गौरवान्तरं .. प्रदर्शयति- एषमिति, गवादी द्रव्यत्वादेरपि सत्त्वाद् द्रव्यत्वादिधर्मितावच्छेदककमपि गवादिपदशक्तिज्ञानं प्रमात्मकमेव तादृशशक्तिज्ञानादपि द्रव्यत्वादिप्रकारकशाब्दबोधो नेष्ट इति तद्वारणाय शक्तौ यद् धर्मितावच्छेदकावच्छिन्नत्वं तदवगाहित्वस्याप्यधिकस्य जातिधर्मितावच्छेदककशक्तिज्ञाने निवेशनीयतया गौरव स्यादेव, विषयश्चायं सामान्यकाण्डान्त्यभागे द्रष्टव्यः । द्रव्यत्वादिमितावच्छेदककगवादिपदशक्तिज्ञानं च 'गोपदाद् द्रव्यं बोद्धव्यम् । इत्याकारकम् , एतादृशशक्तिज्ञानाद् द्रव्यत्वप्रकारकशाब्दबोधः स्यादेव गवादिपदशक्तिज्ञानाच गोत्वादिप्रकारक एव शान्दबोध इष्टो न तु द्रव्यत्वादिप्रकारकः, शक्तिज्ञाने शक्तिविषयकर्मितावच्छेदकावच्छिन्नत्वावगाहित्वस्य निवेशे कृते तु गवादिपदस्थले गोत्वमेव धर्मितावच्छेदकं निरूपकृत्वसंबन्धेन गवादिव्यक्तिनिष्ठा च शक्तिर्गोत्वेन धर्मितावच्छेदकेनावच्छिन्ना भवति न तु द्रव्यत्वेन- द्रव्यत्वस्य गवादिनिष्ठधर्मिताया अवच्छेदकस्वाभावादिति गवादिपदशक्तिज्ञानाद् द्रव्यत्वादिप्रकारकशाब्दबोधस्यापतिर्यद्यपि नास्ति तथापि शक्त्यंशे धर्मितावच्छेदकावच्छिन्नत्वावगाहित्वस्याधिकस्य शक्तिज्ञाने निवेशाद् गौवं तु स्यादेव । शक्तिविषयकजातिप्रकारकशक्तिज्ञानस्य शाब्दबोधहेतुत्वे तु गवादौ द्रव्यत्वस्योपलक्षणत्वाद् गोत्वादेरेव च प्रकारत्वाद् गवादिपदशक्तिज्ञानं गोत्वादिप्रकारकमेव संभवति न तु द्रव्यत्वादिप्रकारकमपि गोत्वादिप्रकारकशक्तिज्ञानाञ्च गोत्वादिप्रकारकस्यैव शाब्दबोधस्यापत्तिरस्ति न तु द्रव्यत्वादिप्रकारकस्येति न तद्वारणाय शक्तिज्ञाने शक्तिविषयकधर्मितावच्छेदकावच्छिन्नत्वावगाहित्वस्य 'निवेशापेक्षेति लाघवमित्यनुसंधेयम् । :. मीमांसकः स्वाभिप्रायमाह-वस्तुत इति, सर्वलाक्षणिकस्थले यथा 'धूमात्' इत्यत्र धूमपदस्य धूमज्ञाने पञ्चम्याश्च ज्ञाप्यत्वे लक्षणेति ग्रन्थारम्भे उक्तम् । आनुमाविकत्वेन अनुभवसिद्वत्वेन । मनुभावकत्वम् बोधजनकत्वम् । तस्य लाक्षणिकपदस्य । अनुभवजननसामर्थ्यस्य शक्तित्वे लाक्षणिकपदस्य लक्ष्यार्थे शक्तिः स्याद् न चैतदिष्टम् । ईश्वरानङ्गीकारांदीश्वरसंकेतोपि