Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
र १७२) सादर्शः
[विशेषकाण्डेकारको बोधः । शक्यतावच्छेदकानुगमश्वोक्तदिशा चिन्तनीयः ।
'अयं फलमेकं भुङ्क्ते' 'फलमेकं भुनानस्तिष्ठति' इत्यादौ विधेयतावच्छेदककोटिप्रविष्टार्थकैकपदाच्च याशार्थविशेषणतापने यदवच्छिन्ने स्वार्थान्वयिनो विशेषणत्वं तादृशार्थानुयोगिकान्वयप्रतियोगित्वविशिष्टतद्रूपावच्छिन्नानुयोगिकान्वयप्रतियोगिनिष्ठभेदाप्रतियोगित्वरूपकैवल्यं प्रतीयते, अतस्तत्रैतत्कर्तृकभोजना
मदबोध्यव्यक्तावस्त्येव अन्यत्र च नास्तीति न कोपि दोषो न वा लक्षणघटकपदार्थानामप्रसिद्विरपि । शक्यतेति-'अयमेकः' इत्यादी कैवल्यविशिष्टयन चैत्रादेरेव वाचकमेकपदं भवतीति
चैत्रत्वादिकं शक्यतावच्छेदकं तदनुगमकं च सजातीयनिष्ठभेदप्रतियोगितानवच्छेदकत्वमुपलक्षण-विधया विज्ञेयं तथा च स्वजातीयनिष्ठभेदप्रतियोगितानवच्छेदकबोफ्लक्षितधर्मावच्छिन्ने एकप• दस्य शक्तिरिति कल्प्यते । “स्वार्थान्वयितावच्छेदकधर्मावच्छिन्नोद्देश्यतानिरूपितविधेयतावच्छेदक• लोपलक्षितधर्मावच्छिन्नवन्निष्टभेदाप्रतियोगित्वावच्छिन्ने एकपदस्यशक्तिः” इतिमाधवाभिप्रायः, अत्र स्वमेकपदम्, विधेयता चोक्तभोजनकर्तृत्वे विधेयतावच्छेदकत्वं चोक्तभोजनकर्तृतात्वे तदुपलक्षितधर्म उक्तभोजनकर्तृतात्वं तदवच्छिन्नमुक्तभोजनकर्तृत्वं तद्वान् भोजनकर्ता तनिष्ठभेदाप्रतियोगिस्वापच्छिन्ने एकपदस्य शक्तिरिति तदर्थः ।
विधेयविशेषणवाचकैकपदमुदाहरति-अयमिति । 'अयं फलमेकं भुङ्क्ते' इत्यत्रेदम्पदबोभ्यव्यक्तिमुद्दिश्यैकफलकर्मकभोजनकर्तृत्वं विधीयते, द्वितीयोदाहरणे चेदम्पदबोध्यव्यक्तिमुद्दिश्यैकफल. कर्मकभोजनकर्तृत्वविशिष्टा स्थितिर्वा तादृशभोजनकालिका स्थितिर्वा विधीयते इत्येकपदं विधेयतावच्छेदककोटिप्रविष्टकैवल्यविशिष्टार्थकम् । एतादृशैकपदाद् यादृशं कैवल्यं प्रतीयते तम्निषक्ति-- यादृशेति, अत्रदम्पदबोध्यकर्तृकभोजनकर्मभूतमेव सजातीयं संभवतीति तादृशसजातीयद्वितीयरा. हित्यलक्षणं यत्कैवल्यं तादृशकैवल्यविशिष्टफलस्य द्वितीयार्थकर्मत्वेऽन्वयः कर्मत्वस्य च स्वनिरूपकत्वसंबन्वेन भोजनव्यापारे तस्याश्रयत्वे तस्येदम्पदबोध्यव्यक्तावन्वयस्तथा च यादृशार्थपदेना. त्रैतत्कर्तृकभोजनं ग्राह्य तत्र विशेषणतापने कर्मत्वे यदवच्छिन्ने कर्मतात्वावच्छिन्ने स्वार्थान्वयिनः= एकपदार्थकैवल्यान्त्रयिनः फलस्य विशेषणत्वं तादृशार्थानुयोगिकः एतत्कर्तृकभोजनपदार्थानुयोगिको योऽन्वयः कर्मत्वान्वयस्तादृशान्वयप्रतियोगित्वविशिष्टं यत् तदपावच्छिन्नम् कर्मतात्वाव. च्छिन्नं कर्मत्वं तदनुयोगिको योऽन्वयः फलान्वयस्तादृशान्वयप्रतियोगिभूतं यत् फलान्तरं तन्नि. टभेदस्थाऽप्रतियोगित्वरूपं कैवल्यमत्रैकपदेन प्रतीयते इत्यन्वयः । अत्र भोजनपदार्थे कर्मत्वस्य योऽन्वयस्तस्यानुयोगि भोजन प्रतियोगि च कर्मत्वम्, कर्मत्वे च यः फलान्वयस्तस्यानुयोगि कर्मत्वं प्रतियोगि च फलम् । समन्वयमाह-अत इति, तत्र उक्तोदाहरणयोः, एतत्कर्तृकभोजननिष्ठो यः कर्मत्वसंसर्गस्तत्प्रतियोगिभूतं यत् कर्मत्वं तनिष्ठो यो भोज्यफलादिसंसर्गस्तत्प्रतियोगिभूतं यत् भोज्यफलादिकं तन्निष्ठभेदस्याऽप्रतियोगित्वं फलादौ प्रतीयते इत्यन्वयः । अत्रा

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216