Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 176
________________ सादर्श: ( १६८) [विशेषकाण्डेइत्यादी : अस्ति ' इतिक्रियाध्याहारात स्वपदार्थस्य समभिव्याहृतक्रियाकारकत्वमक्षतमेवेति न स्वपदात् तत्प्रतीत्यनुपपत्तिः । एवम् “ कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारिता गुणः” इत्यादावपि 'अस्ति ' इति क्रियाऽध्याहारात स्वपर्यायनिजपदात् कलशादिप्रतीतिः। 'स्वव्यापकवहिसामानाधिकरण्यं धूमस्य' इत्यादयश्च न प्रयोगाः। इदं तु चिन्त्यते-यद्रूपेण समभिव्याहृतपदादुपस्थितिस्तद्रूपावच्छिन्नस्य स्वपदार्थत्वे एकेन ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायाम् ‘ब्राह्मणः स्वपुत्रं न पश्यति' इत्यादिप्रयोगानुपपत्ति:-अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकाइत्यादौ दर्शनक्रियाकर्तुमैत्रादेस्तत्र तत्र स्वपदेन परामर्शो विज्ञेयः । 'स्वपापकवह्निसामानाधिकरण्यं धूमे ' इत्यादौ ' अस्ति ' इति क्रियाऽध्याहारान् स्वपदार्थस्य धूमस्य समभिव्याहृतास्तीतिक्रियानिरूपितमधिकरणकारकत्वमक्षतमेवेति न स्वपदात् तत्प्रतीत्यनुपपत्तिः धूमप्रतीत्यनुपपत्तिरित्याह- स्वव्यापकेति । उदाहरणान्तरमाह- एवमिति, अध्याहृतास्तीतिक्रियानिरूपितमधिकरणकारकावं कलशेऽस्त्येत्यत्र स्वपर्यायनिजपदेन कलशपरामर्शस्य नानुपपत्तिरित्यन्वयः । 'स्वव्यापकत्रह्निसामानाधिकरण्यं धूमस्य ' इत्यत्र धूमस्य न कारकत्वं संभवति-- षष्ठयाः कारकविभक्तित्वाभावाद् न वा स्वपदाथविशेष्यत्वं संभवति येनात्र स्वपदेन धूमपरामर्शः म्यादित्येतादृशप्रयोग एवाऽशुद्ध इत्याह-- स्वव्यापकेति । ' स्वपदेन स्वपदार्थस्य केन रूपेणोपस्थितिर्भवतीति विविन क्ति-इदमित्यादिना | स्वपदसमभिव्याहतब्राह्मणादिपदाद् ब्राह्मणादेर्येन ब्राह्मणत्वादिरूपेणोपस्थितिर्जायते तादृशब्राह्मणत्वादिरूपावच्छिन एव यदि स्वपदार्थस्तदैकेन ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायाम् ' ब्राह्मणः स्वपुत्रं न पश्यति । इतीष्टोपि प्रयोगो न स्यादेवेत्यन्वयः । उक्त हेतुमाह- अन्वयितेति, ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायां ब्राह्मणत्वावच्छिन्ने ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वं विशेषणत्वादन्वयि- अन्वयित्वस्य विशेष्यविशेषणसाधारणत्वात्, अन्यवितावच्छेदकं च ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयतात्वं तथा चान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकस्य जाह्मणत्यावच्छिन्नपुत्रकर्मकदर्शनाश्रयतात्वावच्छिन्नप्रतियोगिताकस्य ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वाभावस्य विशेष्ये-जाह्मणत्वावच्छिन्ने बाधोस्तीति ब्राह्मणः स्वपुत्रं न पश्यति ' इतिप्रयोगो न स्यादेव, अत्र समभिव्याहृतब्राह्मणपदेन ब्राह्मणस्य ब्राह्मणत्वेन रूपेणोपस्थितिर्जायते इति ब्राह्मणत्वावच्छिन्न एव स्वपदार्थ इति प्राप्तं ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायां च ब्राह्मणत्वावच्छिन्ने ब्राह्मणत्वावच्छिन्नपुत्रकर्मकदर्शनाश्रयत्वस्य सत्वात् तदभावो न संभवतीत्यर्थः । ब्राह्मणेन स्वपुत्रदर्शनदशायां तु ' ब्राह्मणः स्वपुत्रं न पश्यति । इतिप्रयोगो नेष्ट इत्यभिप्रायेण " ब्राह्मणान्तरपुत्रदर्शनदशायाम् " इत्युक्तम् । ननु समभिव्याहृतब्राह्मणादिपदस्य योऽर्थो ब्राह्मणादिस्तनिष्ठ यत् तद्व्यक्तित्वं तदवच्छिन्न एव स्वपदार्थ इति ब्राह्मणेन ब्राह्मणान्तरपुत्रदर्शनदशायां ब्राह्मणे

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216