Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 175
________________ स्वपदम्, } शक्तिवादः। (१६७) 'स्वपुत्रदर्शिचैत्रधनम्' इत्यादौ चैत्रपुत्रीशचैत्रसंबन्धित्वाद्यवच्छिन्ने चैत्रान्तस्य. वाक्ये लक्षणाविरहे तु पूर्वभाग परित्यज्य तादृशलक्ष्यार्थपरताकस्य केवलचैत्रादिपदस्यैव वा तत्र लक्षणा तत एव चैत्रपुत्रादिप्रतीत्युपपत्तिरिति वाच्यम् , एवं सति 'चैत्रस्य भ्रात्रा स्वपुत्री दृश्यते ' इत्यादी स्वपदेन चैत्रपतीत्यापत्ते. १रित्वात् । मैवम् साक्षात् परम्परया वा यः स्वार्थस्य विशेष्यो यश्च समभिव्याहतक्रिया. कारकपदार्थस्तदुभयत्र स्वपदस्य शक्तिः । स्वव्यापकवादिसामानाधिकरण्य धूमे' ननु यदि पदार्थैकदेशभूते चैत्रादौ स्वपदार्थस्यान्वयो न संभवति तदा 'स्वपुत्रदर्शिचैत्रवनम्' इत्यत्र स्वपदार्थस्य चैत्रेण कथमन्वयः स्यात्-चैत्रस्य पदार्थैकदेशत्वादिति स्वपदेन चैत्रबोधानुपपत्तिरित्याशङ्कयाह-स्वपुत्रेति, 'स्वपुत्रदर्शिचैत्रधनम्। इत्यत्र मीमांसकमतेन चैत्रान्तस्य='स्वपुत्रदर्शिचैत्र' इत्येतावन्मात्रवाक्यस्य चैत्रपुत्रदर्शिचैत्रसंबन्धित्वावच्छिने लक्षणा तस्य च धनेऽभेदान्वय इति लक्षणया स्वपुत्रपदेन चैत्रपुत्रबोधानुफ्पत्ति स्ति, तर्कमते तु वाक्ये लक्षणा न भवतीति पूर्वभागम् 'स्वपुत्रदर्शि' इतिभागं परित्यज्य तादशलक्ष्यार्थपरताकस्य चैत्रपुत्रदर्शिचै. त्रसम्बंधित्वावच्छिन्नरूपलक्ष्यार्थपरस्य केवलचैत्रपदस्यैव तत्र चैत्रपुत्रदर्शिचैत्रसंबन्धित्वावच्छिन्ने लक्षणा तस्य चाभेदेन धनेऽन्त्रय इति ततः-लक्षणात एवात्र चैत्रपुत्रप्रतीतेरुपपत्तिविज्ञेया. अत्र पक्षे 'चैत्रपुत्रदर्शि' इति तात्पर्यग्राहकमित्यर्थः । न चेत्यादिनोपपादितं परिहरति-इतिवाच्यमित्यनेन । परिहारहेतुमाह-एवमिति, 'चैत्रस्य भ्रात्रा स्वपुत्रो दृश्यते ' इत्यत्र चैत्रभ्रातृकर्तृ. कदर्शनस्य पुत्रपदार्थे विशेषणत्वेन चैत्रघटिततादृशदर्शनस्य विशेष्यभूतपुत्रे स्वपदार्थस्य विशेषणस्वाद् विशेष्यतावच्छेदककोटौ प्रवेशोस्तीति स्वपदेनात्र चैत्रप्रतीतिः स्यादेव न चैतदिष्टम्--चैत्रमातृप्रतीतेरेवेष्टत्त्रादित्यर्थः । अत्र 'चैत्रभ्रातृकर्तृकदर्शनविषयताश्रयश्चैत्रभ्रातृपुत्रः । इति शाब्दबोधः । अथेत्यादिनाऽऽशङ्कित परिहरन् समाधत्ते-मैवमिति । स्वार्थस्य-स्वपदार्थस्य । स्पष्टमन्यत्। 'तादात्म्येन शुक्लस्ववान् घटः । इत्यत्र स्वपदार्थस्य घटः साक्षादेव विशेष्य इति स्वपदं घटपरामर्शकम् । 'स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वतः । इत्यत्र स्वपदार्थस्य धूमः परम्परया-व्यापकवयादिद्वारा विशेष्य इति स्वपदं धूमपरामर्शकम् , एवम् ' स्वपुत्रदर्शिचैत्रधनम् । 'स्वपुत्रदर्शिनं चैत्रम् ' इत्यादावपि स्वपदार्थस्य चैत्रः परम्परया विशेष्य इति न स्वपदेन चैत्रपरामर्शानुपपत्तिः । 'चैत्रस्य भ्रात्रा स्वपुत्रो दृश्यते । इत्यत्र समभिव्याहृतदर्शनक्रियायाः कर्तृकारकत्वं मातृपदार्थे एवेति स्वपदेन भ्रातृपरामर्शो जायते. चैत्रस्तु नात्र स्वपदार्थस्य विशेष्यो न वा सममिव्याहृतक्रियाकारक इति नात्र स्वपदेन चैत्रपरामर्शापत्तिः । ' चैत्रः स्वं पश्यति ' 'स्वपुत्रश्चैत्रेण दृश्यते । इत्यादौ चैत्रस्य समभिव्याहृतदर्शनक्रियायाः कर्तृकारकत्वात् स्वपदेन परामझेपपत्तिः, एवम् ' चैत्रस्य भ्राता स्वपुत्रं पश्यति । 'चैत्रावलोकितं स्वपुत्रं मैत्रः पश्यति'

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216