Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 173
________________ शक्तिवादः । ( १६५ ) न च स्वार्थस्य साक्षात् परम्परया वा यदर्थे विशेषणत्वं तादृशार्थवाचकताव्युत्पत्तेर्नायं दोष इतिवाच्यम्, एवमपि 'स्वपुत्रश्चैत्रेण दृश्यते' इत्यादौ चैत्रपुत्रयोधानुपपत्तेः । समभिव्याहृत क्रियान्वयिवाचकत्वमापे न विचारं सहते - परम्परया क्रियान्वयित्वस्य 'चैत्रभ्राता स्वं पश्यति' इत्यादौ चैत्रादिसाधारणत्वात्, साक्षात् क्रियाFatata 'चैत्रः स्वं पश्यति' इत्यादावप्यभावात् तत्र विभक्त्यर्थद्वारेव नामाये धात्वर्थयोर्भेदान्वयस्य व्युत्पन्नत्वात् । + क्रियान्वयिप्रत्ययार्थं साक्षादन्वयित्वविवक्षणान्न दोष इतिचेत् । एवमपि 'स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वतः' इत्यादौ स्वशब्देन धूमादिपरामस्वपदार्थस्य चैत्रे साक्षादेव विशेषणत्वमित्याशङ्क्याह - न चेति । परिहारहेतुमाह-- एवमपीति, 'स्त्रपुत्रश्चैत्रेण दृश्यते' इत्यत्र 'चैत्रकर्तृकदर्शनविषयः स्वपुत्रः' इत्याकारकबोधोदयात् चैत्रस्यैव स्वपुत्रे विशेषणत्वमस्तीति स्वपदार्थस्य न साक्षात् न वा परम्परयापि चैत्रे विशेषणत्वमस्ति पुत्रे एव विशेषणत्वादित्यत्र स्त्रपदेन चैत्रबोधानुपपत्तिः स्त्रपुत्रपदेन चैत्रपुत्रबोधानुपपत्तिरित्यर्थः । ननु स्त्रसमभिव्याहृतक्रियान्वयिवाचकत्वं स्वपदस्योच्यते तथा च 'स्वपुत्रचैत्रेण दृश्यते' इत्यत्र स्वकर्तृकत्वसंबन्धेन दर्शनक्रियायां चैत्रस्यान्त्रयोस्ति 'चैत्रः स्वं पश्यति' इत्यत्र तिर्थाश्रयत्व संबन्धेन चैत्रे दर्शनक्रियाया अन्ययोस्ति 'स्वपुत्रदर्शिनं चैत्रम्' इत्यत्रापि चैत्रस्य दर्शनक्रिययाऽन्वयोस्तीति स्वपदेन न चैत्रपरामर्शानुपपत्तिरित्याशङ्कयाह-- समभिव्याहतेति । उक्ते दोषमुद्घाटयति - परम्परयेति, यद्यत्र परम्परया क्रियान्वयित्वमुच्यते तदा 'चैत्रभ्राता स्वं पश्यति' इत्यत्र भ्रातृद्वारा दर्शनक्रियायाश्चैत्रेप्यन्वयोस्तीति स्वपदेन चैत्रस्यापि परामर्शः स्याद् न चैतदिष्टम्, एतद्दोपरिजिहीर्षया यदि साक्षात् क्रियान्वयित्वमुच्यते तदा विभक्तद्वारैव सर्वत्र नामार्थधात्वर्थयोभेदेनान्वयो भवति न साक्षादिति 'चैत्रः स्वं पश्यति' इत्यादावपि स्वपदेन चत्रपरामर्शो न स्यादेव - अतिश्रयत्वद्वारैव दर्शनक्रियायाचैत्रेऽन्ययसंभवादित्यऽसंभव एव दोष इत्यर्थः । अभेदान्वयपि बाधित एव । पदम् ] याप्रार्थे यस्य पदार्थस्य साक्षादन्ययो भवति तद्वाचकत्वं स्वपदस्योच्यते तथा च न कोपि दोषो यथा 'चैत्रः स्त्रं पश्यति' इत्यत्र क्रियान्त्रयितिप्रत्ययार्थे आश्रयत्वे चैत्रस्य साक्षादेवान्वय: 'स्वपुत्रत्रेण दृश्यते ' इत्यत्र क्रियान्वयितृतीयाप्रत्ययार्थे कर्तृत्वे चैत्रस्य साक्षादेवान्वयः 'स्वपुत्रदर्शिनं चैत्रम्' इत्यत्र च क्रियान्वयिकृत्प्रत्ययार्थकर्तृत्वे चैत्रस्य साक्षादेवान्वय इति न स्त्रपदेन चैत्रपरामर्शो नुपपत्तिः, 'चैत्रभ्राता स्वं पश्यति' इत्यत्र तु क्रियान्त्रयिप्रत्ययार्थे चैत्रस्य न साक्षादन्वय इति न स्वपदेन चैत्रपरामर्शापत्तिरित्याशङ्कते - क्रियान्वयीति ॥ परिहरति-स्वन्यापकेति 'स्वव्यापक वह्निसमानाधिकरणधूमवान् पर्वतः' इत्यत्रास्तीत्यादिक्रियान्वविप्रत्ययार्थे पर्वतस्यैव साक्षादन्वयोस्ति न तु धूमस्येति स्वपदेन धूमपरामर्शो न स्यादेव इष्टश्वात्र 1

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216