Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 171
________________ तत्पदावशिष्टम्.] शक्तिवादः। (१६३) उपस्थितिश्च स्वविशेष्यकशक्तिज्ञानाधीना ग्राह्या. अतः 'पशुरस्ति तं पश्य' इत्यादौ पश्वादिपदोपस्थापितलोमादीनां तदादिशब्देन न परामर्शः। प्रसिद्धार्थकमपि तत्पदं यथा “कला च सा कान्तिमती" इत्यादौ ॥ इदमेतदोः प्रत्यक्षबुद्धिविषये शक्तिः ।। अदसः परोक्षविषये शक्तिः ॥ स्वशब्दस्य स्वसमभिव्याहृतपदोपस्थाप्ये शक्तिः । समभिव्याहृतत्वं त्वेकवाक्यघटकत्वम् । उपस्थितिश्चेति-- यस्य पदार्थस्य पूर्वप्रयुक्तपदेन विशेष्यतारूपेण शक्तिज्ञानाधीनोपस्थितिर्जायते तस्यैव तत्पदेन परामर्शो भवति न तु विशेषणयेनोपस्थितम्यापीति ‘पशुरस्ति तं पश्या इत्यत्र पशुपदेन विशेष्यतया पशुव्यक्तरेवापस्थिति यने इति तापदेन पशोरेव परामर्शो भवति, पशुपदस्य लोमविशिष्टव्यक्तौ शक्तिस्वीकारेण पशुपदेन लोम्नां प्रकारतयैवोपस्थितिर्जायते न विशेध्यतयेत्यत्र तत्पदेन लोमपरामर्शो न भवतीत्यर्थः । प्रसिद्धार्थकतत्पदमुदाहरति--प्रसिद्धार्थकमिति । सा-जगत्प्रसिद्धयर्थः । "ते लोचने प्रतिदिशं विधुरे क्षिपन्ती" इत्यादौ तत्पदमनुभूतार्थकम्, ते=अनुभूते इत्यर्थः । ॥ इति तत्पदावशिष्टम् ।। इदंपदस्यैतत्पदस्य च शक्तिमाह- इदमिति । प्रत्यक्षबुद्धिविषये वक्तृप्रत्यक्षज्ञाननिरूपितलौकिकविषयतायति । यथा-- 'अयं घट:' 'एष घटः' इत्यादि । गगनात्माद्यऽप्रत्यक्षपदार्थमम्युद्दिश्य 'अयमात्मा' 'इदं गगनम्' इत्यादिप्रयोगानुरोधाद् इदमेतदोः संनिहितेपि शक्तिः स्वीकार्या । वस्तुतस्तु संनिहिते एव शक्तियुक्ता- प्रत्यक्षपदार्थस्यापि घटादेः संनिहितत्वसंभवात् । किं वा प्रत्यक्षपदेनात्र लौकिकालौकिकसाधारण प्रत्यक्षं ग्राह्य तत्र घटादीनां लौकिकप्रत्यक्षविषयत्वमात्मादीनामलौकिक प्रत्यक्षविषयत्वमितिविवेकः। ॥ इति इदमेतत्पदे ॥ अदःशब्दस्य शक्तिमाह- अदस इति । परोक्षविषये लौकिकविषयताशालिप्रत्यक्षभिन्नज्ञानविपये इत्यर्थः, अतः ‘असावात्मा' इत्यादिप्रयोगोप्युपपद्यते- आत्मनोऽलौकिकप्रत्यक्षविषयत्वेपि लौकिकप्रत्यक्षविषयत्वाभावात् । प्रत्यक्षस्य लौकिकत्वं च बाह्येन्द्रियजन्यत्वम् । शक्तिज्ञानं च पूर्ववदेव पदप्रकारकबोधविशेष्यकमनुसन्धेयम् ॥ ॥ इति अदःपदम् ॥ अथ स्वपदम्. स्वशब्दस्य शक्तिमाह- स्वशब्दस्येति । समभिव्याहृतत्वपदार्थमाह- समेति । तया च 'चैत्रः स्वपुत्रं पश्यति' इत्यत्र स्वं स्वपदं तत्समभिव्याहृतपदं चैत्रपदं तदुपस्थाप्ये चैत्रेऽत्र स्वपदस्य शक्ति रिति स्वयुत्रपदेन चैत्रपुत्रबोधो जायते ।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216