________________
तत्पदावशिष्टम्.] शक्तिवादः।
(१६३) उपस्थितिश्च स्वविशेष्यकशक्तिज्ञानाधीना ग्राह्या. अतः 'पशुरस्ति तं पश्य' इत्यादौ पश्वादिपदोपस्थापितलोमादीनां तदादिशब्देन न परामर्शः।
प्रसिद्धार्थकमपि तत्पदं यथा “कला च सा कान्तिमती" इत्यादौ ॥ इदमेतदोः प्रत्यक्षबुद्धिविषये शक्तिः ।।
अदसः परोक्षविषये शक्तिः ॥ स्वशब्दस्य स्वसमभिव्याहृतपदोपस्थाप्ये शक्तिः । समभिव्याहृतत्वं त्वेकवाक्यघटकत्वम् ।
उपस्थितिश्चेति-- यस्य पदार्थस्य पूर्वप्रयुक्तपदेन विशेष्यतारूपेण शक्तिज्ञानाधीनोपस्थितिर्जायते तस्यैव तत्पदेन परामर्शो भवति न तु विशेषणयेनोपस्थितम्यापीति ‘पशुरस्ति तं पश्या इत्यत्र पशुपदेन विशेष्यतया पशुव्यक्तरेवापस्थिति यने इति तापदेन पशोरेव परामर्शो भवति, पशुपदस्य लोमविशिष्टव्यक्तौ शक्तिस्वीकारेण पशुपदेन लोम्नां प्रकारतयैवोपस्थितिर्जायते न विशेध्यतयेत्यत्र तत्पदेन लोमपरामर्शो न भवतीत्यर्थः ।
प्रसिद्धार्थकतत्पदमुदाहरति--प्रसिद्धार्थकमिति । सा-जगत्प्रसिद्धयर्थः । "ते लोचने प्रतिदिशं विधुरे क्षिपन्ती" इत्यादौ तत्पदमनुभूतार्थकम्, ते=अनुभूते इत्यर्थः ।
॥ इति तत्पदावशिष्टम् ।। इदंपदस्यैतत्पदस्य च शक्तिमाह- इदमिति । प्रत्यक्षबुद्धिविषये वक्तृप्रत्यक्षज्ञाननिरूपितलौकिकविषयतायति । यथा-- 'अयं घट:' 'एष घटः' इत्यादि । गगनात्माद्यऽप्रत्यक्षपदार्थमम्युद्दिश्य 'अयमात्मा' 'इदं गगनम्' इत्यादिप्रयोगानुरोधाद् इदमेतदोः संनिहितेपि शक्तिः स्वीकार्या । वस्तुतस्तु संनिहिते एव शक्तियुक्ता- प्रत्यक्षपदार्थस्यापि घटादेः संनिहितत्वसंभवात् । किं वा प्रत्यक्षपदेनात्र लौकिकालौकिकसाधारण प्रत्यक्षं ग्राह्य तत्र घटादीनां लौकिकप्रत्यक्षविषयत्वमात्मादीनामलौकिक प्रत्यक्षविषयत्वमितिविवेकः। ॥ इति इदमेतत्पदे ॥
अदःशब्दस्य शक्तिमाह- अदस इति । परोक्षविषये लौकिकविषयताशालिप्रत्यक्षभिन्नज्ञानविपये इत्यर्थः, अतः ‘असावात्मा' इत्यादिप्रयोगोप्युपपद्यते- आत्मनोऽलौकिकप्रत्यक्षविषयत्वेपि लौकिकप्रत्यक्षविषयत्वाभावात् । प्रत्यक्षस्य लौकिकत्वं च बाह्येन्द्रियजन्यत्वम् । शक्तिज्ञानं च पूर्ववदेव पदप्रकारकबोधविशेष्यकमनुसन्धेयम् ॥ ॥ इति अदःपदम् ॥
अथ
स्वपदम्.
स्वशब्दस्य शक्तिमाह- स्वशब्दस्येति । समभिव्याहृतत्वपदार्थमाह- समेति । तया च 'चैत्रः स्वपुत्रं पश्यति' इत्यत्र स्वं स्वपदं तत्समभिव्याहृतपदं चैत्रपदं तदुपस्थाप्ये चैत्रेऽत्र स्वपदस्य शक्ति रिति स्वयुत्रपदेन चैत्रपुत्रबोधो जायते ।