________________
(१६२)
सादर्श:
[ विशेषकाण्डे
एवं यत्पदोपस्थाप्ये तत्पदशक्तिबोध्या, अत एव प्रक्रम्यमाणपरामर्शकतच्छब्देनापि नियमतो यत्पदमपेक्ष्यते- 'तमानय य इहास्ति' इत्यादाविव 'तमानय घट इहास्ति' इत्यादितो घटानयनादिमातेरनुभवाविरुद्धत्वात् । प्रक्रान्तपरामर्शकस्य च न तदपेक्षानियमः- “तदन्वये शुद्धिमति" इत्यादौ वैवस्वतादिपदोपस्थाप्यस्यापि तच्छब्देन परामर्शातू, तदनुरोधेन च तच्छन्दस्यापि पूर्ववत् पूर्वप्रयुक्तपदोपस्थापित शक्त्यन्तरमङ्गीकार्यम् । भव्य वारणीयो नाम पूर्वप्रयुक्तपदोपस्थाप्यतावच्छेदको यो यत्पदोच्चारणानुकूलबुद्धिस्थधर्मस्तदवच्छिन्ने प्रक्रान्तपरामर्शकयत्पदस्य शक्तिस्तथा च यत्पदोच्चारणानुकूलबुद्धिस्थहिमालयत्वादिधर्मावच्छिन्नत्वमभीष्टे हिमालयादावेव संभवति न पदार्थान्तरेपीति नाऽनभीष्टपदार्थे यापदवाच्यत्वातिप्रसङ्ग इत्यर्थः । प्रक्रम्यमाणपरामर्शकयत्पदस्य तु 'तमानय य इहास्ति ' इत्यादिकं तत् पदरटितमुदाहरणं बोध्यम् । अत्र च ' उक्ताभीष्टाविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन यत्पदविशिष्टो बोधो भवतु ' इत्याकारकं पदप्रकारकबोधविशेष्यकं शक्तिज्ञानमवधार्यम् । ॥ इति यत्पदम् ।।
अथ
॥ तत्पदम् ॥
उक्ततत्पदावशिष्टं किंचिदाह- एवमिति । तत्पदं प्रक्रम्यमागप्रक्रान्तप्रसिद्धानुभूतार्थपरामर्शकभेदाच्चतुर्धा भवति तत्र प्रक्रम्यमाणपरामर्शकतत्पदस्य यत्पदोपस्थाप्ये शक्तिरिति तस्य नियमेन यत्पदापेक्षा-- यत्पदसमभिव्याहारज्ञानं विना प्रक्रम्यमाणपरामर्शकतत्पदस्य शक्तिमहासंभवादिति सर्व यत्पदवद् विज्ञेयम् । यत्पदापेक्षायां हेतुमाह- तमिति, 'तमानय य इहास्ति' इत्यत्र यथा चटानयनादिप्रतीतिर्भवति तथा 'तमानय घट इहास्ति' इत्यत्र न भवतीति प्रक्रम्यमाणपरामर्शकतत्पदस्य नियमेन यत्पदापेक्षेतिसिद्धम् । “घट इहास्ति तमानय' इत्यत्र स्पष्टं तत्पदेन घटबाधो जायते यद्यपि तथाप्यत्र प्रक्रम्यमाणपरामर्शक तत्पदं नास्ति किं तु प्रक्रान्तपरामर्शकमेव घटपदेनोपक्रान्तस्यैव तत्पदेन परामर्शात् प्रक्रान्तपरामर्शकतत्पदस्य तु न नियमेन यत्पदापेक्षेति विज्ञेयं एतत्स्वयमध्याह- प्रक्रान्तेति, तदपेक्षानियम: यत्वदापेक्षानियमः । उक्तनियमाभावे हेतुमाह-- तदन्वये इति, अत्र पूर्वोक्तवैवस्वतपदोपस्थापितस्यापि धैवस्वतस्य प्रक्रान्तपरामर्शकतच्छन्देन परामर्शी भवतीति न तस्य यत्पदापेक्षानियमः । तदनुरोधेन यत्पदं विनापि जायमानप्रक्रान्तविषयकबोधानुरोधेन । पूर्ववत् यत्पदवत् । तथा च पूर्वप्रयुक्तपदोपस्थाप्यतावच्छेदको यस्तत्पदोचारणानुकूलबुद्धिस्थधर्मस्तदच्छिन्ने प्रक्रान्तपरामर्शकतत्पदस्य शक्तिरिति । अत्रापि 'उक्ताभीष्टविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन तत्पदविशिष्टो बोधो भवतु' इत्याकारकं पदप्रकारकबोधविशेष्यक शक्तिज्ञानमनुसन्धेयम् ।