________________
यत्पदम्.] शक्तिवादः।
( १६१) इयं च व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकयच्छब्दस्य-'चैत्रः समागतो.यस्तत्रावलोकितः' इत्यादौ चैत्रादिपदेनाप्युपस्थापितस्य यच्छब्देन बोधनात्, अत एव " साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिक" इत्यादौ तत्पदासलेपि न दोषः- पूर्वप्रकान्तस्य कृतपदोपस्थाप्यव्यापारस्यैवाऽभेदेन मीलनान्व यितया यच्छब्देन बोधनात् । एवम् “यं सर्वशैलाः" इत्यादावपि, तदनुरोधेन पूर्वप्रयुक्तपदोपस्थापितेपि तस्य शक्त्यन्तरं स्वीकरणीयम् । अतिप्रसङ्गश्च स्वप्रयोः जकबुद्धिस्थत्वमन्तर्भाव्य वारणीयः। क्षयाऽन्योन्याश्रयदोषः स्यादित्याशङ्कय समाधत्ते-तच्छन्दजन्येति, तत्प्रतिपाद्यतया तत्पदप्रतिपाद्यतया । यत्पदशक्तिप्रहे तत्पदसमभिव्याहारज्ञानस्यापेक्षितत्वेपि तत्पदजन्यतदर्थप्रतीतेरपेक्षा तु नास्ति- तत्पदप्रतिपाद्यत्वानुकूलवक्तृतात्पर्यस्य तत्पदजन्यप्रतीतेः पूर्वमपि प्रकरणादिना सुग्रहत्वात् तथा च प्रकरणादिगृहीततत्पदप्रतिपाद्यत्वानुकूलवक्तृतात्पर्य विषये यत्पदशक्तिप्रहे नोक्तदोषापत्तिरित्यर्थः । अभिसन्धिः तात्पर्यम् ।
इयं चेति-उक्ता व्युत्पत्तिः प्रक्रम्पमाणपरामर्शकस्यैव यत्पदस्यास्ति न तु प्रक्रान्तपरामर्शकस्यापि- प्रक्रान्तपरामर्शकयत्पदस्य नियमन तत्पदापेक्षाऽभावात् । उक्त हेतुमाह-चैत्र इति, अस्मिन् वाक्ये यत्पदं प्रक्रान्सपरामर्शकमेव न तु प्रक्रम्यमाणपरामर्शकमऽत एव चैत्रपदेनाप्युपस्थापितस्य चत्रस्य यत्पदेन बोधो जायते. यद्युक्ता व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकमात्रयत्पदस्य न स्यात्तदा " चैत्रः" इत्याद्युदाहरणेषु तत्पदाभावाच्चैत्रादिपदेनोपस्थापितस्य यत्पदेन परामर्शो न स्यादेव न चैत्रमस्तीत्युक्ता व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकस्यैव यस्पदस्येतिसिद्धम् । अत एवेति-- यत उक्ता व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकस्यैव यत्पदस्य अत एव “ साधु " इत्युदाहरणे न तत्पदापेक्षेत्यर्थः । उक्त हेतुमाह-पूर्वेति, पूर्वप्रक्रान्तस्य कृतमितिपदोपस्थाप्यस्यैव व्यापारस्याऽभेदेन मीलितपदोपस्थाप्यमीलनान्वयितया यच्छन्देन बोधनात् , अत्र कृतमितिपदोपस्थाप्यव्यापा. रस्य मीलितमितिपदोपस्थाप्ये मीलनेऽभेदसंबन्धेनाऽन्वयो भवति, मीलनाभिन्नव्यापारकर्तृणि पुष्कराणीत्यन्वयबोधः । ' स्वापेक्षयाऽभिरामताधिके चन्द्रमस्युदयं प्राप्ते सति पुष्करैः कमलैयेद् मीलितं तत् साधु कृतम् ' इत्युदाहरणार्थः । एवम् " यं सर्वशैलाः प्रविकल्प्य वत्सम् " इत्यत्रापि यत्पदं प्रक्रान्तपरामर्शकमेव न तु प्रक्रम्यमाणपरामर्शकमिति पूर्वपद्यघटकहिमालयपदोपस्थाप्यन्यापि हिमालयस्य यत्पदेन बोधो जायते इत्याह- एवमिति । तदनुरोधेन तत्पदं विनाप्युक्तोदाहरणेषु यत्पदेन जायमानप्रक्रान्तविषयकबोधानुरोधेन तस्य-प्रक्रान्तपरामर्शकस्य यत्पदस्य पूर्वश्युक्तेन तत्पदातिरिक्तपदेनोपस्थापिते शक्यन्तरं स्वीकार्यमित्याह-तदनुरोधेनेति । ननु यदुकम् ' पूर्वप्रयुक्तपदोपस्थापिते यत्पदस्य शक्तिः । तत्र पूर्वप्रयुक्तानि बहूनि पदानि भवन्ति तदुपस्थाप्यार्था अपि बहव इति कथमभीष्टे हिमालयादाक्षेत्र यत्पदशक्तिनियमः स्यादित्याशङ्कयाहअतिप्रसङ्गश्चेति, अमीष्टातिरिक्ते यत्पदशक्त्यतिप्रसङ्गश्च स्व ( यत्पद ) प्रयोजकबुद्धिस्थत्वमन्त.