________________
सादर्शः
[विशेषकाण्डेअथैवम्- 'चैत्रः स्वपुत्रं पश्यति' इत्यादाविव 'स्वं चैत्रपुत्रः पश्यति' 'चैत्रभ्राता स्वपुत्रं पश्यति' इत्यादौ कथं न स्वशब्देन चैत्रः प्रत्याय्यते ? । मुख्यविशेष्यवाचकताव्युत्पत्त्यभ्युपगमे 'स्वपुत्रदर्शिनं चैत्र मैत्र: पश्यति' इत्यादौ चैत्रपुत्रबोधानुफ्पत्तिः।
न च तत्रावान्तवाक्यार्थबोधे चैत्रस्य मुख्यविशेष्यतया नेयमनुपपत्तिरितिवाच्यम्, अवान्तरवाक्यार्थबोधमन्तरेणाऽऽहत्यैव विशेष्ये विशेषणमितिरीत्या महावाक्यार्थबोधे यत्र तात्पर्य तत्र तदनुपपत्ते रित्वात् ।
ननु यदि स्वपदस्य स्वसमभिव्याहृतपदोपस्थाप्ये शक्तिस्तदा यथा 'चैत्रः स्वपुत्रं पश्यति' इत्यत्र स्वसमभिठयाहृतचैत्रपदोपस्थाप्यत्वात् स्वपदैन चैत्रः प्रतीयते तथा 'स्वं चैत्रपुत्रः पश्यति'
चैत्रभ्राता स्वपुत्रं पश्यति' इत्यादावपि स्वपदेन चैत्रस्य प्रतीतिः स्यादेव- स्वसममिव्याहृतचैत्रपदोपस्थाप्यत्वात्. चैत्रपदस्यात्रापि स्वपदेन सह . समभिव्याहृतवादित्याशङ्कते- अथैवमिति । ननु स्वसमभिव्याहृतमुख्यविशेष्यवाचकपदोपस्थाप्ये स्वपदस्य शक्तिरस्ति तथा च 'स्वं चैत्रपुत्रः पश्यति' चैत्रभ्राता स्वपुत्रं पश्यति' इत्यादी चैत्रपुत्रादेरेव स्वसमभिव्याहृतमुख्यविशेष्यवाचकचैत्रपुत्रादिप. दोपस्थाप्यत्वात् स्वपदेन प्रतीतिर्भवति न तु चैत्रस्य-- तस्य स्वसमभिव्याहृतमुख्य विशेष्यवाचकपदोपस्याप्यत्वाभावात्. चैत्रपदस्यात्र स्वसमभिव्याहृतत्वेपि मुख्य विशेष्यवाचकस्वाभावात्, 'चैत्रः स्वपुत्रं पश्यति' इत्यत्र तु चैत्रः स्वसमभिव्याहृतमुख्यविशेष्यवाचकपदोपस्थाप्यत्वात् स्वपदेन प्रतीयते इति न कोपि दोष इत्याशङ्कयाह- मुख्येति । एवं हि 'स्त्रपुत्रदर्शिनं चैत्र मैत्रः पश्यति' इत्यत्र स्वपदेन चैत्रपरामर्श इष्टः स च न स्यात्-- अत्र मैत्रस्यैव मुख्यविशेष्यत्वेन चैत्रस्य मुख्य विशेष्यवाभावात्, प्रथमान्तार्थस्यैव मुख्य विशेष्यत्वस्वीकारादित्यर्थः ।
मनु तत्र='स्वपुत्रदर्शिनं चैत्रं मैत्रः पश्यति' इत्यत्राऽवान्तरवाक्यार्थबोधे- 'स्वपुत्रदर्शिनं चैत्रम्' इत्याकारकावान्तरवाक्यस्य 'स्वपुत्रं पश्यतीति स्वपुत्रदर्शी चैत्रः' इत्याकारकबोधकाले चैत्रस्य मुख्यविशेष्यतयोक्तस्थले स्वपदेन चैत्रपरामर्शस्य नानुपपत्तिरित्याशङ्क्याह- न चेति । परिहारहेतुमाह- भवान्तरेति, यत्रावान्तरवाक्यार्थबोधं विनैव "आहत्यैव विशेष्ये विशेषणम्" इतिरीत्या नाम खले कपोतन्यायेन महावाक्यार्थशेधो जायते तत्र तु चैत्रस्योक्तस्थले मुख्यविशेष्यत्वासंभवात् स्वपदेन चैत्रपरामर्शानुपपत्तिर्दुवोरैवेत्यर्थः ।
ननु स्वार्थस्य स्वपदार्थस्य साक्षात् परम्परया वा यस्मिन् पदार्थे विशेषणत्वं भवति ताहशार्थवाचकत्वं स्वपदस्य स्वीक्रियते तथा च 'स्वपुत्रदर्शिनं चैत्र मैत्रः पश्यति' इत्यत्रोक्तमहावाक्यार्थबोधदशायामपि स्वपदार्थस्य पुत्रकर्मकदर्शनद्वारा चैत्रे एव विशेषणत्वमस्तीति स्वपदेन चैत्र• परामर्शानुफ्पत्तिर्नास्ति, एवमेव 'चैत्रः स्वपुत्रं पश्यति' इत्यत्रापि 'स्वपुत्रकर्मकदर्शनाश्रयश्चैत्रः' इतिबोधोदयात् स्वपदार्थस्य परम्परया चैत्रे विशेषणत्वमस्त्येव, 'चैत्रः स्वं पश्यति' इत्यत्र तु