Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 170
________________ (१६२) सादर्श: [ विशेषकाण्डे एवं यत्पदोपस्थाप्ये तत्पदशक्तिबोध्या, अत एव प्रक्रम्यमाणपरामर्शकतच्छब्देनापि नियमतो यत्पदमपेक्ष्यते- 'तमानय य इहास्ति' इत्यादाविव 'तमानय घट इहास्ति' इत्यादितो घटानयनादिमातेरनुभवाविरुद्धत्वात् । प्रक्रान्तपरामर्शकस्य च न तदपेक्षानियमः- “तदन्वये शुद्धिमति" इत्यादौ वैवस्वतादिपदोपस्थाप्यस्यापि तच्छब्देन परामर्शातू, तदनुरोधेन च तच्छन्दस्यापि पूर्ववत् पूर्वप्रयुक्तपदोपस्थापित शक्त्यन्तरमङ्गीकार्यम् । भव्य वारणीयो नाम पूर्वप्रयुक्तपदोपस्थाप्यतावच्छेदको यो यत्पदोच्चारणानुकूलबुद्धिस्थधर्मस्तदवच्छिन्ने प्रक्रान्तपरामर्शकयत्पदस्य शक्तिस्तथा च यत्पदोच्चारणानुकूलबुद्धिस्थहिमालयत्वादिधर्मावच्छिन्नत्वमभीष्टे हिमालयादावेव संभवति न पदार्थान्तरेपीति नाऽनभीष्टपदार्थे यापदवाच्यत्वातिप्रसङ्ग इत्यर्थः । प्रक्रम्यमाणपरामर्शकयत्पदस्य तु 'तमानय य इहास्ति ' इत्यादिकं तत् पदरटितमुदाहरणं बोध्यम् । अत्र च ' उक्ताभीष्टाविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन यत्पदविशिष्टो बोधो भवतु ' इत्याकारकं पदप्रकारकबोधविशेष्यकं शक्तिज्ञानमवधार्यम् । ॥ इति यत्पदम् ।। अथ ॥ तत्पदम् ॥ उक्ततत्पदावशिष्टं किंचिदाह- एवमिति । तत्पदं प्रक्रम्यमागप्रक्रान्तप्रसिद्धानुभूतार्थपरामर्शकभेदाच्चतुर्धा भवति तत्र प्रक्रम्यमाणपरामर्शकतत्पदस्य यत्पदोपस्थाप्ये शक्तिरिति तस्य नियमेन यत्पदापेक्षा-- यत्पदसमभिव्याहारज्ञानं विना प्रक्रम्यमाणपरामर्शकतत्पदस्य शक्तिमहासंभवादिति सर्व यत्पदवद् विज्ञेयम् । यत्पदापेक्षायां हेतुमाह- तमिति, 'तमानय य इहास्ति' इत्यत्र यथा चटानयनादिप्रतीतिर्भवति तथा 'तमानय घट इहास्ति' इत्यत्र न भवतीति प्रक्रम्यमाणपरामर्शकतत्पदस्य नियमेन यत्पदापेक्षेतिसिद्धम् । “घट इहास्ति तमानय' इत्यत्र स्पष्टं तत्पदेन घटबाधो जायते यद्यपि तथाप्यत्र प्रक्रम्यमाणपरामर्शक तत्पदं नास्ति किं तु प्रक्रान्तपरामर्शकमेव घटपदेनोपक्रान्तस्यैव तत्पदेन परामर्शात् प्रक्रान्तपरामर्शकतत्पदस्य तु न नियमेन यत्पदापेक्षेति विज्ञेयं एतत्स्वयमध्याह- प्रक्रान्तेति, तदपेक्षानियम: यत्वदापेक्षानियमः । उक्तनियमाभावे हेतुमाह-- तदन्वये इति, अत्र पूर्वोक्तवैवस्वतपदोपस्थापितस्यापि धैवस्वतस्य प्रक्रान्तपरामर्शकतच्छन्देन परामर्शी भवतीति न तस्य यत्पदापेक्षानियमः । तदनुरोधेन यत्पदं विनापि जायमानप्रक्रान्तविषयकबोधानुरोधेन । पूर्ववत् यत्पदवत् । तथा च पूर्वप्रयुक्तपदोपस्थाप्यतावच्छेदको यस्तत्पदोचारणानुकूलबुद्धिस्थधर्मस्तदच्छिन्ने प्रक्रान्तपरामर्शकतत्पदस्य शक्तिरिति । अत्रापि 'उक्ताभीष्टविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन तत्पदविशिष्टो बोधो भवतु' इत्याकारकं पदप्रकारकबोधविशेष्यक शक्तिज्ञानमनुसन्धेयम् ।

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216