Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
( १६०)
सादर्शः
[ विशेषकादिनकारिका 'धनमिदं किं चैत्रस्य' इत्यादावाऽऽश्रयत्वादिसंबन्धेन चैत्रस्वत्वादिप्रकारिका संभावना नियमतः प्रतीयते । 'किमिन्दुः' इत्यादौ संभावनाबोधोत्तर तत्प्रयोजकाल्हादकत्वादिसाधर्म्यप्रतीतिस्त्वर्थादिति ।
कुत्सार्थकमपि क्वचित् किंपदं यथा 'कि गौः' इत्यादौ ॥ तत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने यत्प; दस्य शक्तिः. अत एव यत्पदेनार्थप्रत्यायने नियमतस्तत्पदाऽपेक्षा- तत्पदसमभिव्याहारज्ञानं विनोक्तानुगमकवर्माऽग्रहेण शक्तिपरिच्छेदस्यैवासंभवात् । तच्छब्दजन्यप्रतिपत्तिपूर्वमपि तत्प्रतिपाद्यतया वक्तुरभिसन्धिः प्रकरणादिना सुग्रह इति न तच्छब्दजन्यप्रतीतर्यत्पदशक्तिग्रहेऽपेक्षा । न्वेन चैत्रस्वत्वस्य किंपदार्थसंभावनायां तादृशसंभावनायाश्च विशेष्यतासंबन्धेन विशेष्येधनेऽन्वयो भवतीत्यत्राश्रयत्वसंबन्धेन चैत्रस्त्रत्वप्रकारिका संभावना नियमन प्रतीयते इत्यन्वयः । "किमिन्दुः" इत्यादौ तादृशसंभावनाबोधोत्तरं या तादृशसंभावनाप्रयोजिका मुखचन्द्रयोराल्हादकत्वादिसाधर्म्यप्रतीतिर्जायते साऽर्थादेव जायते न तु व्यञ्जनया येन व्यञ्जनाख्यवृत्तेरस्माकं स्वीकारापत्तिः स्यादित्याह-किमिन्दुरिति ।
निन्दार्थकार्किपदमाह-कुत्सार्थकमिति । किं गौः-निन्दितो गौरित्यर्थः ।
अत्र च 'उक्तजिज्ञासितविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन किंपदविशिष्टो बोधो भवतु' इत्याकारकं पदप्रकारकबोधविशेष्यकशक्तिज्ञानं विज्ञेयमिति ॥ ॥ इति किंपदम् ।।
अथ
॥ यत्पदम् ॥
संप्रति यत्पदशक्तिनिरूपणमारभते- तत्पदेति । निगव्याख्यातोयं ग्रन्थः । यच्छब्दः प्रक्रम्यमाणपरामर्शकः प्रक्रान्तपरामर्शकश्च भवति तत्र प्रथमस्यार्थमाह-- तत्पदेति । वर्तमानकालिकोपक्रमविषयः प्रक्रम्यमाणः, भूतकालिकोपक्रमविषयः प्रक्रान्त इतिविवेकः । तत्पदप्रतिपाद्यः सन् यो वक्तबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मेण-घटत्वादिनाऽवच्छिन्नस्तस्मिन् प्रक्रम्यमाणपरामर्शकयत्पदस्य शक्तिरितिसारः । अत एवेति- यतस्तत्पदप्रतिपाद्यतयैव वक्तबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्न यत्पदस्य शक्तिरत एवेत्यर्थः । तत्पदापेक्षायां हेतुमाह- तत्पदेति, तत्पदसमभित्र्याहारज्ञानम् यत्पदघटितवाक्यघटकत्वेन तत्पदश्रवणं विनेतियावत्, उक्तानुगमकथमाग्रहेण तत्पदप्रतिपाद्यत्वरूपधर्माग्रहेण । शक्तिपरिच्छेदस्य-शक्तिग्रहस्य । तत्पदश्रवणानन्तरमेव घटादौ तत्पदप्रतिपाद्यत्वग्रहः संभवति तत्पदप्रतिपाद्यत्वप्रहे जाते एव च यत्पदशक्तिमहः संभवति-- तत्पदप्रतिपाद्य एव प्रक्रम्यमाणपरामर्शकयत्पदस्थ शक्तिस्वीकारादित्यर्थः । ननु तत्पदप्रतिपाये यत्पदस्य यत्पदप्रतिपाद्ये च वक्ष्यमाणरीत्या तत्पदस्य शक्तिरिति परापरशक्तिप्रहे परस्परार्थज्ञानापं

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216