Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 165
________________ किंपदम् , ] शक्तिवादः । (१५७) यत्र चोद्देश्यतावच्छेदकीभूतविभत्त्याद्यर्थ भेदेन किंपदार्थान्वयः ‘कस्य पुत्रः सुन्दरः' इत्यादौ तत्र यादृशसंबन्धेन यदवच्छिन्ने तदन्वयस्तादृशसंबन्धेन विशेषधर्मावच्छिन्नविशेषिततदवच्छिन्ननिष्ठोद्देश्यतावच्छेदकताकप्रकृतविधेयज्ञानगोचरेच्छा प्रतीयते। एवं विधेयवाचकपिदस्य स्वसमभिव्याहतपदोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नोद्देश्यतानिरूपितविधेयतावच्छेदकतया जिज्ञासितो यो विशेषधर्मतादृशोदेश्यतावच्छेदकताकबोधजनकम् 'दशसंख्याका घटाः सन्ति' इत्याद्युत्तरं प्रयुज्यते इत्यन्वयः। द्वित्वादिसंख्यायामत्रोद्देश्यतावच्छेदकताप्यस्ति द्वित्वस्त्रादिकमप्यस्तीत्युद्देश्यतावच्छेदकता संख्यात्वन्यूनवृत्तिद्वित्वत्वादिधर्मावच्छिन्ना जातेत्यवधेयम् । भेदेनोदेश्यतावच्छेदकान्वितकिंपदार्थबोधककिंपदस्यार्थमाह- यत्र चेति, 'कस्य पुत्रः सुन्दरः। इत्यत्रोद्देश्यं पुत्र उद्देश्यतावच्छेदकं च षष्ट्यर्थो जन्यत्वम्- किंचिजन्यत्वविशिष्टपुत्रस्योद्देश्यत्वात् तादृशविभक्त्यर्थजन्यत्वे किंपदार्थस्य जिज्ञासितस्य निरूपितत्वरूपभेदसंबन्धेनान्वयोस्ति- 'किं. निरूपितजन्यत्वविशिष्टपुत्रः सुन्दरः' इतिबांधोदयात्. तथा चात्र यादृशसंबन्धेन निरूपितत्वसंबन्धेन यदवच्छिन्ने-पठ्यर्थसंवन्धत्वावच्छिन्ने जन्यत्वे तदन्यया=किंपदार्थस्य जिज्ञासितस्यान्वयस्तादशसंबन्धेन-निरूपितत्वसंबन्धेन (अस्यविशेपितेन्यनेनान्वयः ) विशेषधर्मो यश्चैत्रत्वादिकं तदवच्छिन्नेन चैत्रादिना विशेषितं यत् तदवच्छिन्नम्=पष्टयर्थसंबन्धत्वावच्छिन्नं जन्यत्वं तन्निष्ठा उद्देश्यतावच्छेदकता यस्य यस्मिन् वा तादृशं जन्यत्यानेष्टोद्देश्यतावच्छेदकताकं यत् प्रकृतविधेयज्ञानम् सौन्दर्यविषयकज्ञानं तादशज्ञानगोचरेच्छा 'कस्य पुत्रः सुन्दरः' इत्यादौ प्रतीयते इत्येतादृशप्रश्नानन्तरं तादृशजिज्ञासानिवर्तकम् 'चैत्रस्य पुत्रः सुन्दरः' इत्याधुत्तरं प्रयुज्यते- 'चैत्रनिरूपितजन्यतावान् पुत्रः सुन्दरः' इत्यर्थः । जन्यत्वे चोद्देश्यतावच्छेदकतात्र स्पष्टैव । माधवेनाप्युक्तम्- “निषेकद्वारा जन्यतावान् पुत्रपदार्थः षष्ट्यर्थश्च जन्यत्वं तत्र निरूपितत्वसेबन्धेन किंपदार्थान्वयस्तथा च सौन्दर्यत्वावच्छिन्नविधेयतानिरूपिता पुत्रत्वावच्छिन्नोद्देश्यता तनिरूपिता या जन्यत्वावच्छिन्नावच्छेदकता तन्निरूपिता निरूपितत्वसंबन्धावच्छिन्नावच्छेदकता तदवच्छेदकत्वेन जिज्ञासितनिरूपितत्वसंबन्धप्रतियोगित्वन्यूनवृत्तियों धर्मों निरूपितत्वसंबन्धेन तदवच्छिन्नजन्यतावान् पुत्रः सुन्दर इत्यन्वयबोधः" इति । संप्रति विधेयवाचककिंपदस्य शक्तिमाह- एवमिति, यथा 'अयं कः' इत्यत्रेदपदेन पुरोवर्तिव्यक्तिमुद्दिश्य किंपदेन ब्राह्मणत्वादिविशेषधर्मविषयकजिज्ञासा क्रियते तथा च स्वं किंपदं तत्सममिव्याहृतं पदम् 'अयम्' इतिपदं तदुपस्थाप्यो यः पुरोवर्तित्राह्मणादिपिण्डस्तन्निष्ठोपस्थाप्यतावच्छेदकत्वं ब्राह्मणत्वादिधर्मे वर्तत इति तादशोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्मों ब्राह्मणत्वादिस्तदवच्छिना या पुरोवर्तिनिष्टोद्देश्यता तन्निरूपिता या किंपदार्यनिष्ठा विधेयता तादृशविधेयताया अबच्छेदकतया जिज्ञासितो यो विशेषधर्मो ब्राह्मणत्वादिः तदवच्छिन्नेत्र किंपदस्य शक्तिरस्तीति

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216