Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 152
________________ (१४४) सादर्श: [विशेषकाण्डे शिष्यानिवेश्य सर्वसाधारिण्येका व्युत्पत्तिः स्वीक्रियते । अन्वयित्वं च विशेष्यविशेषणभावसाधारणम् । 'सर्व प्रमेयम्' इत्यादौ वस्त्वादिपदाध्याहारमन्तरेण बोधोपगमे तदनुरोधेनाऽन्योन्याभावप्रतियोगितानवच्छेदकविधेयव्याप्यपर्याप्तिकयावत्त्वार्थकतापि सर्वपदस्य स्वीकार्या । 'अयं सर्व घटं वेत्ति' इत्यादावेतदीयज्ञानविषयत्वत्वादिना विषयताऽनन्वयात् तादृशधर्मो नाऽन्वयितावच्छेदका अन्वयितावच्छेदकविषयत्वत्वाद्यवच्छि नव्याप्यत्वमतिप्रसञ्जकमिति तत्रापि व्युत्पत्त्यन्तरं स्वयमूहनीयम् । यितावच्छेदकधर्मः पृथिवीत्यम् , रूपसमुदायव्यापकपर्याप्तिः पृथिवीत्वव्याप्यैव । नन्धऽन्वयित्वं तु विशेष्यस्यैव भवतीति कथमत्र विशेषणीभूतरूपादेरपि स्यादित्याशङ्क्याह-अन्वयित्वमिति । ननु 'सर्व प्रमेयम् । इत्यादिस्थले उद्देश्यवाचकवस्त्वादिपदाभावेनोद्देश्यतावच्छेदकधर्मोपस्थि. तिर्नास्तीति कथमुक्तपर्याप्ताबुद्देश्यतावच्छेदकव्यापकत्वभानं स्यादित्याशझ्याह-सर्वमिति, तद. नुरोधेन= सर्व प्रमेयम् ' इत्यादावुद्देश्यवाचकवस्त्वादिपदाध्याहारं विनापि जायमानसर्वपदार्थविषयकबोधानुरोधेन । घटत्वपटत्वाद्यस्छिन्न प्रतियोगिताकभेदस्तु पटघटादौ सर्वत्रैव भवति केवल लान्वयिप्रमेयस्वादिधर्मावच्छिन्न प्रतियोगिताको भेदस्तु कचिदपि न भवति-- सर्वस्यैव प्रमेयत्वादित्यऽन्योन्याभावप्रतियोगितानवच्छेदकभूतं यद् विधेयं प्रमेयत्वादि तव्याप्यपर्याप्तिकयावत्त्वमत्र सर्वेपदस्य शक्यतावच्छेदक विज्ञमित्यन्चयः । यावत्वपर्याप्तिः प्रमेयत्वव्याप्येति शाब्दबोधः । सर्व प्रमेयम् ' इत्यादौ यत्रोद्देश्यवाचकपदं न भवति न च तस्याध्याहारोपि क्रियते तत्र यावस्वपर्याप्ताबुद्देश्यतावच्छेदकव्यापकत्वस्य भानं न भवतीत्यभिप्रायः । 'सर्व वस्तु प्रमेयम् । इत्यादी यत्रोद्देश्यवाचकं वस्त्वादिपदं भवति तत्र तु पूर्ववदेव वस्तुत्वादिव्यापकप्रमेयत्वादिव्याप्यपर्याप्तिकयावत्वं सर्वपदेन प्रतीयते । अयमिति-'अयं योगी सर्व घटं वेत्ति । इत्यत्र घटमुद्दिश्य योगिज्ञानविषयत्वं विधीयते. अन्वयित्वं च विशेष्यविशेषणभावसाधारणमित्युक्तमेव विषयताया उपस्थितिश्च घटपदोत्तर द्वितीयया भवति. एतदीयज्ञानविषयत्वत्वेन रूपेण चात्र विषयताया द्वितीयया उपस्थितिर्न संभवति द्वितीयाया विषयतामात्रे शक्तिस्वीकारादित्येतदीयज्ञानविषयतात्वेन रूपेण विषयताया घटेऽन्ययोपि न संभवति तेन रूपेणानुपस्थितत्वाद् उपस्थितरूपेणैवान्वयसंभवादिति तादृशधर्म: एतदीयज्ञानविषयस्यत्वरूपधर्मो नाऽन्वयितावच्छेदकः संभवति येनात्र सर्वपदेन घटत्वव्यापकैतदीयज्ञान विषयता. त्यावच्छिन्नव्याप्यपर्याप्तिकयावत्त्वस्य पूर्वोक्तरीत्या भानं स्यात्. किं तु विषयताया अत्र विषयतावेनैव रूपेणोपस्थितिघंटेऽन्वयश्च संभवतीत्यन्वयितावच्छेदकं विषयतात्वमेव तादृशविषयतात्यावच्छिन्नव्याप्यवं यदि चोक्तपर्याप्तायुक्तं स्यात्तदा कतिपयघटज्ञानदशायामपि ताशपर्याप्ती घटत्वव्यापकत्वस्य विषयताव्याप्यत्परय च सत्त्वात 'अयं सर्व घटं बेत्ति' इतिप्रयोगातिप्रसङ्गः

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216