Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
सर्वपदम् ]
शक्तिवादः । 'अत्र न सर्वाणि रूपाणि' इत्यादौ नअर्थप्रतियोगिविशेषणार्थकसर्वपदस्य स्वार्थान्वयितावच्छेदकरूपत्वादिव्यापकपर्याप्तिनिरूपकयावत्त्वार्थकतया , तदवच्छिन्नाभाव एव प्रतीयते । व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकस्तादृशाभावो घटादावऽबाधित एवेति नाऽयोग्यता ।
न चाऽव्यासज्यवृत्तिगुणत्वादिपर्याप्तेरपि रूपत्वादिव्यापकतया गुणत्वादिसाधारणरूपत्वादिव्यापकपर्याप्तिकधर्मावच्छिन्नाभावो न घटादाविति कथमत्र स्यादेव न चैतदिष्टमित्येतादृशस्थले सर्वपदस्य व्युत्पत्त्यन्तरं स्वयमूहनीयमित्यन्धयः । स्वयमहनीयमिति- तथा हि विषयताया निरूपकत्वसंवन्धेन यद्पावच्छिन्नेऽन्वयस्तद्रूपावच्छिन्नविषयता. व्याप्यत्वं पर्याप्तौ विज्ञेयमत्र च विषयताया निरूपकत्वसंबन्धेनैतदीयज्ञानत्वावच्छिन्नेऽन्वय इत्येतदीयज्ञानविषयताच्याप्यवटत्वव्यापकपर्याप्तिकयावत्वमत्र सर्वपदार्थ इत्यर्थः ।
"एवं घटे न सर्वाणि रूपाणि १३८" इत्यायुक्तशङ्का समाधत्ते-अत्रेति, ' अत्र घटे न सर्वाणि रूपाणि' इत्यत्र नअर्थस्याभावस्य प्रतियोगिभूतं यद्रूपं तद्विशेषणीभूतं यद् यावत्त्वं तदर्थक सर्वपदमस्तीति स्वार्थस्य सर्वपदार्थस्यान्वयितावच्छेदकं यद् रूपवं तद्व्यापकपर्याप्तेनिरूपकं यद् यावत्त्वं सर्वपदस्यात्र तादृशयावत्त्वार्थकतया नया तदवन्छिन्नाभावः-ताशयावस्वावच्छिन्नरूपाभाव एव प्रतीयते 'रूपसमुदायाभाववान् घटः' इतिप्रतीतः, तादृशाभावप्रतीतिश्च नानुपपन्ना । न तु तत्रोक्तो रूपत्वावच्छिन्नाभावः प्रतीयते इत्युच्यते येन घटादौ रूपत्वावच्छिन्नाभावस्य बाधादयोग्यता स्यादित्यर्थः । घटादौ रूपसमुदायामावास्याऽबाधितत्वमाहव्यासज्येति, यथा घटसत्त्वेपि 'घटपटौ न स्तः' इत्यत्र व्यासज्यवृत्ति यद् द्वित्वं तादृशद्वित्वावछिन्नप्रतियोगिताकोऽभावः प्रतीयते तथा प्रकृते घटे एकरूपसत्त्वेपि व्यासज्यवृत्ति यत् समुदायत्वं तादृशसमुदायत्वावच्छिन्नप्रतियोगिताको रूपसमुदायाभावो घटादावऽबाधित एवेति नाऽयोग्यतेत्यर्थः । समुदायत्वस्य सकलव्यासक्तत्वाद् व्यासज्यवृत्तित्वं विज्ञेयं द्वित्ववदिति । किं वात्र व्यासज्यवृत्तिधर्मो यावत्वमेव तस्यापि व्यासज्यवृत्तित्वात् ।। ___ 'अत्र न सर्वाणि रूपागि' इत्यत्र यदुक्तम् 'रूपत्वव्यापकपर्याप्तिकयावत्त्वावच्छिन्नाभावः प्रतीयते तादृशाभावो घटादावऽबाधित एवेति नाऽयोग्यता' इति तत्राशङ्कते- न चेति, गुणत्वं प्रत्येकगुणपर्याप्तमस्ति न तु सर्वव्यासक्तमित्यऽव्यासज्यवृत्ति यद् गुणत्वं तद् रूपत्वव्यापकमस्तिसकलरूपेषु गुणस्वसत्त्वादिति गुणत्वपर्याप्तिरपि रूपत्वव्यापिकेति लब्ध तथा च गुणत्वसाधारणा या रूपत्वव्यापिका पर्याप्तिस्तादृशपर्याप्तिको यो धर्मो यावत्त्वं तादृशयावत्त्वावच्छिन्नरूपामाको घटादौ बाधित एवेति कथं तस्य ना प्रतीतिः स्यादित्यत्र='भत्र घटे न सर्वाणि रूपाणि' इत्यत्र कथं योग्यता ? योग्यताया बाधामावरूपत्वादित्यन्वयः । गुणत्वपर्याप्ती रूपत्वव्यापिकास्तीति रूपादौ गुणत्वसाधारणरूपत्वव्यापकपर्याप्तेः सत्त्वात् तादृशपर्याप्तिकयावत्त्वमप्यस्ति घटादौ च तादृशावत्वावच्छिन्नरूपस्यैव सत्वात् तादृशयावत्त्वावच्छिन्न प्रतियोगिताकरूपाभावो

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216