Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 154
________________ (१४६) सादर्श: [ विशेषकाण्डेयोग्यतेति वाच्यम्, अव्यासज्यवृत्तिगुणत्वादेरेकैकमात्रवृत्तिधर्मावच्छिन्नपर्याप्ति कूटस्यैव 'सर्वाणि रूपाणि गुणाः' इतिप्रतीत्याऽवगाहनात् सर्वसाधारणैकपर्याप्ती मानाभावात् प्रत्येकवृत्तिधर्मावच्छिन्नपर्याप्तिषु रूपत्वादेनिरुक्तव्यापकत्वाभावात् । ‘सर्व द्रव्यं न रूपवत् ' इत्यादौ द्रव्यत्वादिव्यापकयावत्त्वसामानाधिकरण्यममा वस्य प्रतीयतेऽतो नाऽयोग्यता । अनुयोगिविशेषणावच्छेदेनैव नजाऽभावः प्रत्या न संभवति येन तादृशाभावस्य योग्यता स्याद् यथा भूतले बटो घटे च घटत्त्रमिति भूतले घटवावच्छिन्नाभावो न संभवति तथेतिभावः । परिहरति- अव्यासज्येति, 'सर्वाणि रूपाणि मुगाः' इति प्रतीत्या प्रत्येकस्मिन् रूपे गगत्वपर्याप्तिः पृथक् पृथगेव प्रतीयते न तु सकलरूपसाधारणैका. तथा च सर्वाणि रूपाणि गुणाः' इतिप्रतीत्या ह्यऽव्यासज्यवृत्तिगुणत्वस्यैकैकमात्रवृ. त्तिः-एकैकरूपव्यक्तिमात्रवृत्तिों धमेस्तव्यक्तित्वं सामानाधिकरण्येन तदच्छिन्नानां गुणत्वपर्याप्तीनां कूटस्य समुदायस्यैवावगाहनं भवतीति सर्वसाधारणकपर्याप्तौ सकलरूपसाधारणैकगुणत्व पर्याप्तौ मानाभावाद् उक्तप्रत्येकवृत्तिधर्मावच्छिन्नगुणत्वपर्याप्तिषु रूपत्वनिरूपितव्यापकत्वमेव न संभवति येन त्वदुक्ता शङ्का संगता स्यादित्यर्थः । यदि गुणत्वपर्याप्ती रूपत्वव्यापिका स्वात्तदा गुणत्वसाधारणरूपत्वव्यापकपर्याप्तिकयावत्त्वस्य रूप संभवात् ताशयावत्त्वावच्छिन्न प्रतियोगिताकरूपाभावो घटादौ बाधितः स्यादपि न चैवमम्ति-- उक्त प्रतीत्या गुणत्वपर्याप्ते : रूपत्वव्यापकत्यासंभवादिति भावः । “रूपत्वादेः" इतिषष्ट्यर्थो निरूपितत्वं तम्य व्यापकत्वेऽन्वयः । सर्वमिति- 'सर्व द्रव्यं न रूपवत् ' इत्यत्र द्रव्यत्वव्यापकपर्याप्तिकयावत्त्वसामानाधिकरण्येन रूपाभावः प्रतीयते- आकाशादिनीरूपद्रव्ये द्रव्यत्वव्यापकयावत्त्वस्य रूपाभावस्य च सत्त्वादेवेति ना योग्यतेत्यर्थः । यदि द्रव्यरवव्यापकयावत्त्वावच्छेदेन रूपाभाव उच्येत तदा योग्यता न स्यादपि द्रव्यत्वव्यापकयावत्वस्य पृथिव्यादौ सत्त्वेपि रूपाभावस्य बाधाद् न चैवमुच्यते इत्यर्थः । नन्धऽनुयोगिनि यो धर्मो विशेषणं भवति तदवच्छेदेनैव नाऽभावः प्रत्याय्यते यथा ' आकाशं न रूपवत् । इत्यत्राकाशस्त्रावच्छेदेन रूपाभावः प्रतीयते तथा ' सर्व द्रव्यं न रूपवत् ' इत्य. त्रारि द्रव्यत्वावच्छेदेन या द्रव्यत्वव्यापकथावत्त्वावच्छेदेन चा नना रूपाभावः प्रत्यायनीयो न तु द्रव्यत्वव्यापकयावत्त्वसामानाधिकरण्येन. द्रव्यत्वव्यापकयावत्त्वावच्छेदेन च रूपाभावो बाधित एव पृथिव्यादौ तादृशयावत्वसत्त्वपि रूपाभावस्थामावादिति 'सर्व द्रव्यं न रूपवत्' इत्यत्र कथं योग्यता स्यात् ?, यद्यनुयोगिविशेषणसामानाधिकरण्येनापि नजाऽभावः प्रत्याश्येत तदा 'द्रव्यं न रूपवत् ' इत्यत्र द्रव्यत्वसामानाधिकरण्येन रूपाभावः प्रत्याय्येत द्रव्यत्वसामानाधिकरण्येन चाकाशादौ रूपाभावो न वाधित इति 'द्रव्यं न रूपवत् ' इत्यपि प्रयोगः स्यादन

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216