Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 161
________________ सर्वपदम्.] शक्तिवादः। (१५३) न च प्रक्रान्तानां दध्यादीनां प्रत्येकमन्वये वाक्यभेदापत्या साहित्यप्रकारेण तावत्पदार्थवाचकत्वमेव सर्वपदस्य किं नोपेयते इतिवाच्यम्, साहित्यविशिष्टान्वयस्य समभिव्याहृतपदार्थे यत्र बाधस्तत्रापि तथा प्रयोगात्. वाक्यभेदस्य च गत्यन्तरविरहेणेष्टत्वात्, अत एव प्रत्येकं पुत्रपश्चादिरूपफलकामकर्तव्यतया क्रतूनभिधायाभिहितेन “सर्वेभ्यो दर्शपूर्णमासौ" इत्यनेन मिलितानां तावत्फलानां दर्शपौर्णमासकर्तव्यताप्रयोजककामनाविषयत्वं न प्रतिपाद्यते-प्रकान्तवाचिना सर्वनामपदेन मिलितत्वेन फलानुपस्थापनाद् अपि तु प्रत्येकमेवेति प्रत्येकफलकामस्यैव तत्राधिकार इति योगसिद्धयधिकरणसिद्धान्तोपि संगच्छते ॥ मित्युक्तवाक्यभेदापत्तिर्नास्तीत्याशङ्कयाह- न चेति । परिहारहेतुमाह-साहित्यविशिष्टेति, साहित्यविशिष्टानाम्-संमिलितानां दध्यादीनामन्ययस्य समभित्र्याहृतपदार्थे भोजनादौ यत्र बाधस्तत्रापि तथा 'विष्णुमित्रः सर्वम् । इत्याद्युक्त प्रयोगो भवतीति न साहित्यप्रकारेण तावत्सकलपदार्थवाचकत्वं सर्वपदस्योपैतुं शक्यते. यदि विष्णुमित्रः केवलं दध्यादि कदापि न भुञ्यात् दध्यादिसमुदायमेव भुज्यात् तदा साहित्यप्रकारेण तावत्पदार्थवाचकत्वं सर्वपदस्य स्यादपि न चैवमस्तीत्यर्थः । उक्तवाक्यभेदं गत्यन्तराभावात् स्त्रीकरोति-वाक्यभेदस्येति । सर्वपदस्य साहित्यप्रकारेण तावत्पदार्थवाचकस्वाभाचे प्रमाणमाह- अत एवेति, यतः सर्वपदस्य साहित्यप्रकारेण संमिलिततावत्सकलपदार्थवाचकत्वं नास्त्यात एवेत्यर्थः । प्रत्येकमिति- पुत्रपश्वादिरूपप्रत्येकफलकामकर्तव्यतयेत्यर्थः । अमिहितेनेति- तथा च श्रूयते " चित्रया यजेत पशुकामः । “ऐन्द्रमेकादशकपालं निपेत् प्रजाकामः " इत्यादि " एकस्मै वा अन्या इष्टयः कामायाऽऽडियन्ते सर्वेभ्यो दीपूर्णमाप्तौ" इति च । इत्यनेन-दर्शपूर्णमासयागवाक्येन । मिलितानामित्यस्य साहित्यप्रकारेणेत्यर्थः । दर्शपौर्णमासनिष्ठा या कर्तव्यता तत्प्रयोजकीभूता या कामना तद्विषयत्वं मिलितानां पुत्रपश्वादिरूपतावत्फलानां न प्रतिपाद्यते । उक्ते हेतुमाह- प्रक्रान्तवाचिनेति, यदि सर्वपदेनात्र मिलितत्वेन रूपेण तावस्फलानामुपस्थितिः स्यात्तदा " सर्वेभ्यो दर्शपूर्णमासौ " इतिवाक्येन मिलितानां तावत्फलानां दर्शपूर्णमासकर्तव्यताप्रयोजककामनाविषयत्वं प्रतिपाद्येतापि-- उपस्थितरूपेणैवान्वयसंभवात्. न चैवमम्ति किं तु प्रत्येकरूपेणैव फलानामुपस्थितिर्भवतीति प्रत्येकमेव तावत्फलानाम् “ सर्वेभ्यो दर्शपूर्णमासौ " इत्यनेन दर्शपूर्णमासकर्तव्यताप्रयोजककामनाविषयवं प्रतिपाद्यते इति प्रत्येकफलकामस्यैव तत्रदर्शपूर्णमासयोरधिकारोस्ति नाम प्रत्येकालाय पृथक् पृथगेच दर्शपूर्णमासयागद्वयं कर्तव्यमेकदा कृतदर्शपूर्णमासाभ्यां प्रक्रान्तसर्वफलप्राप्तिन संभवति कित्येकफलस्यैवेत्यर्थः । तदुक्तं पूर्वमीमांसाधिकरणमालायां चतुर्थाध्यायतृतीयपादैकादशाधिकरणे "तम्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते. अत एव " सर्वेभ्यः" इति निर्देशोपपत्तिः, अन्यथा हि साहित्यनियमाद् मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते तस्माद् यदा यत् फलं काम्यं तदा तत्सिद्धये ज्योतिष्टोमः प्रयोक्तव्यः " इति. श्रूयते च “ एकस्मै वा अन्ये यज्ञक्रतत्रः

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216