________________
सर्वपदम्.] शक्तिवादः।
(१५३) न च प्रक्रान्तानां दध्यादीनां प्रत्येकमन्वये वाक्यभेदापत्या साहित्यप्रकारेण तावत्पदार्थवाचकत्वमेव सर्वपदस्य किं नोपेयते इतिवाच्यम्, साहित्यविशिष्टान्वयस्य समभिव्याहृतपदार्थे यत्र बाधस्तत्रापि तथा प्रयोगात्. वाक्यभेदस्य च गत्यन्तरविरहेणेष्टत्वात्, अत एव प्रत्येकं पुत्रपश्चादिरूपफलकामकर्तव्यतया क्रतूनभिधायाभिहितेन “सर्वेभ्यो दर्शपूर्णमासौ" इत्यनेन मिलितानां तावत्फलानां दर्शपौर्णमासकर्तव्यताप्रयोजककामनाविषयत्वं न प्रतिपाद्यते-प्रकान्तवाचिना सर्वनामपदेन मिलितत्वेन फलानुपस्थापनाद् अपि तु प्रत्येकमेवेति प्रत्येकफलकामस्यैव तत्राधिकार इति योगसिद्धयधिकरणसिद्धान्तोपि संगच्छते ॥ मित्युक्तवाक्यभेदापत्तिर्नास्तीत्याशङ्कयाह- न चेति । परिहारहेतुमाह-साहित्यविशिष्टेति, साहित्यविशिष्टानाम्-संमिलितानां दध्यादीनामन्ययस्य समभित्र्याहृतपदार्थे भोजनादौ यत्र बाधस्तत्रापि तथा 'विष्णुमित्रः सर्वम् । इत्याद्युक्त प्रयोगो भवतीति न साहित्यप्रकारेण तावत्सकलपदार्थवाचकत्वं सर्वपदस्योपैतुं शक्यते. यदि विष्णुमित्रः केवलं दध्यादि कदापि न भुञ्यात् दध्यादिसमुदायमेव भुज्यात् तदा साहित्यप्रकारेण तावत्पदार्थवाचकत्वं सर्वपदस्य स्यादपि न चैवमस्तीत्यर्थः । उक्तवाक्यभेदं गत्यन्तराभावात् स्त्रीकरोति-वाक्यभेदस्येति । सर्वपदस्य साहित्यप्रकारेण तावत्पदार्थवाचकस्वाभाचे प्रमाणमाह- अत एवेति, यतः सर्वपदस्य साहित्यप्रकारेण संमिलिततावत्सकलपदार्थवाचकत्वं नास्त्यात एवेत्यर्थः । प्रत्येकमिति- पुत्रपश्वादिरूपप्रत्येकफलकामकर्तव्यतयेत्यर्थः । अमिहितेनेति- तथा च श्रूयते " चित्रया यजेत पशुकामः । “ऐन्द्रमेकादशकपालं निपेत् प्रजाकामः " इत्यादि " एकस्मै वा अन्या इष्टयः कामायाऽऽडियन्ते सर्वेभ्यो दीपूर्णमाप्तौ" इति च । इत्यनेन-दर्शपूर्णमासयागवाक्येन । मिलितानामित्यस्य साहित्यप्रकारेणेत्यर्थः । दर्शपौर्णमासनिष्ठा या कर्तव्यता तत्प्रयोजकीभूता या कामना तद्विषयत्वं मिलितानां पुत्रपश्वादिरूपतावत्फलानां न प्रतिपाद्यते । उक्ते हेतुमाह- प्रक्रान्तवाचिनेति, यदि सर्वपदेनात्र मिलितत्वेन रूपेण तावस्फलानामुपस्थितिः स्यात्तदा " सर्वेभ्यो दर्शपूर्णमासौ " इतिवाक्येन मिलितानां तावत्फलानां दर्शपूर्णमासकर्तव्यताप्रयोजककामनाविषयत्वं प्रतिपाद्येतापि-- उपस्थितरूपेणैवान्वयसंभवात्. न
चैवमम्ति किं तु प्रत्येकरूपेणैव फलानामुपस्थितिर्भवतीति प्रत्येकमेव तावत्फलानाम् “ सर्वेभ्यो दर्शपूर्णमासौ " इत्यनेन दर्शपूर्णमासकर्तव्यताप्रयोजककामनाविषयवं प्रतिपाद्यते इति प्रत्येकफलकामस्यैव तत्रदर्शपूर्णमासयोरधिकारोस्ति नाम प्रत्येकालाय पृथक् पृथगेच दर्शपूर्णमासयागद्वयं कर्तव्यमेकदा कृतदर्शपूर्णमासाभ्यां प्रक्रान्तसर्वफलप्राप्तिन संभवति कित्येकफलस्यैवेत्यर्थः । तदुक्तं पूर्वमीमांसाधिकरणमालायां चतुर्थाध्यायतृतीयपादैकादशाधिकरणे "तम्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते. अत एव " सर्वेभ्यः" इति निर्देशोपपत्तिः, अन्यथा हि साहित्यनियमाद् मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते तस्माद् यदा यत् फलं काम्यं तदा तत्सिद्धये ज्योतिष्टोमः प्रयोक्तव्यः " इति. श्रूयते च “ एकस्मै वा अन्ये यज्ञक्रतत्रः