________________
(१५४) सादर्श:
[ विशेषकाण्डेकिंपदस्य जिज्ञासिते शक्तिः, अत एव स्वीयजिज्ञासाज्ञापनाय किंपदघटितं प्रश्नवाक्यं प्रयुज्यते । तत्रोद्देश्यवाचककिंपदस्य स्वसमभिव्याहतपदोपस्थाप्यवावच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वकृजिज्ञासितो धर्मः प्रवृत्तिनिमित्तम्, उपस्थाप्यतावच्छेदकत्वान्तमुपलक्षणतयाऽनुगमकम्शाब्दबोधेतदऽभानात् । एवं च 'कः पचति' इत्यादितः 'पोककृतित्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वकृजिज्ञासितो यो धर्मस्तवान् पचति' इत्याकारकोऽन्वयबोधः, 'किंचिद्धर्मावच्छिन्नोद्देश्यकपाककर्तृत्वविधेयकज्ञानं भवतु' इत्याकारकजिज्ञासायास्तादृशबोधविषयकतया ताशेच्छाविषयीभूतज्ञानजनकात् 'ब्राह्मणः पचति' इत्याद्युत्तरवाक्यात् तन्निवृत्तिरिति तादृशप्रश्नानन्तरं तथैवोत्तरं प्रयुज्यते। कामायाऽऽहियन्ते सर्वेभ्यो ज्योतिष्टोमः" इति । तदेतत्सर्वं पूर्वमीमांसाचतुर्थाध्यायतृतीयपादस्य दशमैकादशाधिकरणयोर्द्रष्टव्यम् । तथा च प्रकृते ' विष्णुमित्रः सर्वम् ' इत्यादावपि सर्वपदस्य साहित्यप्रकारेणोपक्रान्ततावत्पदार्थवाचकत्वं न संभवति किंतु प्रत्येकमेवेत्यर्थः ।। इति सर्वपदम् ।
अथ ॥ किंपदम् ॥
संप्रति किंपदशक्तिनिरूपणमारभते-किंपदस्येति । अत इति- यतः किंपदस्य जिज्ञासाविषये शक्तिरताव स्वीयजिज्ञासाबोधनाय किंपदघटितम् कः पचति । इत्यादिप्रश्नवाक्यं प्रयुज्यते इत्यन्वयः । उद्देश्यबोधककिंपदस्य प्रवृत्तिनिमित्तमाह- तत्रेति । यथा 'कः पचति' इत्यत्र खं किंपदं तत्समभिव्याहतपदं पचतीतिपदं तदुपस्थाप्या पाककृतिरेव- आख्यातस्य लाघवार्थ कृतावेव तार्किकैः शक्तिस्वीकारात् । तदेतत्सर्वं व्युत्पत्तिवादे द्रष्टव्यम् ) उपस्थाप्यतावच्छेदकधर्मः पाककृतित्वं तदवच्छिन्ना या पाककृतौ विधेयता तादृशविधेयतानिरूपिता या पाककर्तयुद्देश्यता तादृशोद्देश्यताया अवच्छेदकत्वेन रूपेण वक्तजिज्ञासितो यो धर्मो ब्राह्मणत्वादिकं तदेवात्रोद्देश्यवाचककिंपदस्य प्रवृत्तिनिमित्तं तादृशधर्मवान् जिज्ञासितः किंपदार्थ इत्यन्वयः । अत्र स्वसमभिव्याहृतपदोपस्थाप्यतावच्छेदकत्वस्य किंपदजन्यशाब्दबोधे भानं न भवतीति तत् विधेयतावच्छेदकपाककृतित्वादिधर्माणामुपलक्षणविधेयैवानुगमकं भवति न तु विशेषणत्वेन-- विशेषणस्य शाब्दबोधे माननियमादित्याह- उपस्थाप्यतेति । तथा च 'स्वसमभिव्याहृतपदोपस्थाप्यतावच्छेदकत्वो. पलक्षितधर्मावच्छिन्नविधयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्तजिज्ञासितो धर्मः किंपदप्रवृत्तिनिमितम्' इतिनिर्गलितम् । स्वयमेव समन्वयमाह- एवं चेति । यो धर्म। ब्राह्मणत्वादिधर्मः । अन्वयबोधः शाब्दबोधः, स चोत्तरदातुः श्रोतुर्भवति । जिज्ञासायाः स्वरूपमाह- किंचिदिति