________________
किंपदम् . ] शक्तिवादः।
(१५५) न चैवम् ‘प्रमेयः पचति' इत्युत्तरवाक्यमेव न कथं तादृशप्रश्नानन्तरं प्रयुज्यते ?- तज्जन्यज्ञानस्यापि तादृशेच्छाविषयत्वादितिवाच्यम्, स्वसमभिव्याहृतपदोपस्थाप्यविधेयन्यूनवृत्तिधर्मावच्छिन्ने एव तादृशकिपदस्य शक्तयुपगमात् ।
अभेदेन स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिपदशक्यतावच्छेदकगर्भे च स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तित्वमपि धर्माशे विशेषणं देयमातः ‘को ब्राह्मणः पचति' इत्यादिप्रश्नानन्तरम् 'चैत्रः पचति' इत्याद्याकारकोत्तरवाक्यं प्रयुज्यते न तु 'मनुष्यः पचति' इत्यादिकम्- मनुष्य
तादृशवोधविषयकतया ब्राह्मणत्वाद्यवच्छिन्नविषयकबोधविश्यकतया । तादृशेच्छाविषयीभूतम्' किंचिद्धर्मावन्छिन्नोद्देश्यकपाककर्तृत्वविधेयकज्ञानं भवतु' इत्याकारकेच्छाविषयीभूतं यज्ञानं तादृशज्ञानजनकम् ब्राह्मणत्वायवच्छिन्नविषयकज्ञानजनकं यत् ब्राह्मणः पचति : इत्याधुतरवाक्यं तादृशोत्तरवाक्यात् तन्निवृत्तिः उक्तजिज्ञासानिवृत्तिर्भवतीति तादृशप्रश्नानन्तरम्=
कः पचति ' इत्यादिप्रश्नानन्तरं तथैव== 'ब्राह्मणः पचति ' इत्येवमेवोत्तरं प्रयुज्यते इत्यन्वयः। स्पष्टमन्यन् ।
ननु पाककर्तरि ब्राह्मणत्ववत् प्रमेयत्वस्यापि सत्त्वात् तादृशप्रश्नानन्तरम् ='कः पचति' इति प्रश्नानन्तरम् ‘ग्रमेयः पचति' इत्युत्तरवाक्यं कथं न प्रयुज्यते ? तजन्यज्ञानस्यापि-'प्रमेयः पति' इतिवाक्यजन्यज्ञानस्यापि तादृशेच्छाविषयत्वात् उक्तप्रश्नवाक्यज्ञाप्यजिज्ञासाविषयत्वसंभवादित्याशङ्क्याह-न चेति । परिहारमाह-स्वसमभिव्याहृतेति, स्वं किंपदं तत्समभिव्याहृतपदं पचतीतिपदं तदुपस्थाप्यं यद् विधेयं पाककृतिस्तदपेक्षया न्यूनवृत्तिों धर्मस्तदवच्छिन्ने एव तादशकिपदस्थ उद्देश्यवाचककिंपदस्य शक्तिः स्वीक्रियते प्रमेयत्वं तु न पाककृत्यपेक्षया न्यूनवृत्तीति 'प्रमेयः पचति' इत्युत्तरं न प्रयुज्यते ब्राह्मणत्वं तु न्यूनवृत्तीति 'ब्राह्मणः पचति' इत्युत्तरं प्रयुज्यते इत्यर्थः ।
'को ब्राह्मणः पचति' इत्यादिप्रश्नानन्तरम् 'चैत्रः पचति' इत्याद्येवोत्तरं प्रयुज्यते न तु 'मनुष्यः पचति' इत्याद्यपि त्वदुक्तनियमेन तन्नोपपद्यते मनुष्यत्वस्य पाककृत्यपेक्षया न्यूनवृत्तित्वादेवत्याशक्य तन्नियामकमाह-अभेदेनेति, अभेदेन अभेदसंबन्धेन स्वार्थान्वितं किंपदार्थान्वितं यद् उद्देश्यं तद्वाचकपदान्तरेण ब्राह्मणादिपदेन सह समभिव्याहृतं यत् किंपदं तच्छक्यतावच्छेदकगमें स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षितधर्मापेक्षया न्यूनवृत्तित्वमपि धर्माशे किंपदशक्यतावच्छेदकधर्म विशेषणं देयं नामाऽभेदेन स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिपदस्य स्वार्थाभेदान्वयितावच्छेदकरवोपलक्षितधर्मन्यूनवृत्तिधर्मावच्छिन्ने शक्तिः स्वीकार्या तथा च को ब्राह्मणः पचति' इत्यत्र स्वार्थस्य किंपदार्थस्य जिज्ञासितस्य ब्राह्मणेन सहाऽभेदान्धयोस्तीति तद्वाचकनाह्मणपदेन सममिव्याहृतस्य किंपदस्य स्वार्थीभेदान्वयी ब्राह्मणः स्वार्थाभेदान्वयितावच्छेदकत्रं